TITUS
Rg-Veda: Aitareya-Upanisad
Part No. 2
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: a
पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः.
पुरुषे
ह
वै
अयम्
आदितः
गर्भः
भवति
यत्
एतत्
रेतः.
Sentence: b
तदेतत्सर्वेभ्यो ऽङ्गेभ्यस्तेजः सम्भूतमात्मन्येवात्मानं बिभर्ति.
तत्
एतत्
सर्वेभ्यः
अङ्गेभ्यः
तेजः
सम्भूतम्
आत्मनि
एव
आत्मानम्
बिभर्ति.
Sentence: c
तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति.
तत्
यदा
स्त्रियाम्
सिञ्चति
अथ
एनत्
जनयति.
Sentence: d
तदस्य प्रथमं जन्म.
तत्
अस्य
प्रथमम्
जन्म.
Verse: 2
Sentence: a
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा.
तत्
स्त्रियाः
आत्मभूयम्
गच्छति
यथा
स्वम्
अङ्गम्
तथा.
Sentence: b
तस्मादेनां न हिनस्ति.
तस्मात्
एनाम्
न
हिनस्ति.
Sentence: c
सास्यैतमात्मानमत्र गतं भावयति.
सा
अस्य
एतम्
आत्मानम्
अत्र
गतम्
भावयति.
Verse: 3
Sentence: a
सा भावयित्री भावयितव्या भवति.
सा
भावयित्री
भावयितव्या
भवति.
Sentence: b
तं स्त्री गर्भं बिभर्ति.
तम्
स्त्री
गर्भम्
बिभर्ति.
Sentence: c
सो ऽग्र एव कुमारं जन्मनो ऽग्रे ऽधि भावयति.
सः
अग्रे
एव
कुमारम्
जन्मनः
अग्रे
अधि
भावयति.
Sentence: d
स यत्कुमारं जन्मनो ऽग्रे ऽधि भावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्यै.
सः
यत्
कुमारम्
जन्मनः
अग्रे
अधि
भावयति
आत्मानम्
एव
तत्
भावयति
एषाम्
लोकानाम्
सन्तत्यै.
Sentence: e
एवं सन्तता हीमे लोकाः.
एवम्
सन्तताः
हि
इमे
लोकाः.
Sentence: f
तदस्य द्वितीयं जन्म.
तत्
अस्य
द्वितीयम्
जन्म.
Verse: 4
Sentence: a
सो ऽस्यायमात्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते.
सः
अस्य
अयम्
आत्मा
पुण्येभ्यः
कर्मेभ्यः
प्रतिधीयते.
Sentence: b
अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति.
अथ
अस्य
अयम्
इतरः
आत्मा
कृतकृत्यः
वयोगतः
प्रैति.
Sentence: c
स इतः प्रयन्नेव पुनर्जायते.
सः
इतः
प्रयन्
एव
पुनः
जायते.
Sentence: d
तदस्य तृतीयं जन्म.
तत्
अस्य
तृतीयम्
जन्म.
Verse: 5
Sentence: a
तदुक्तमृषिणा.
तत्
उक्तम्
ऋषिणा.
{verse}
{RV
4,27,1}
Sentence: b
गर्भे नु सन्नन्वेषामवेदम् अहं देवानां जनिमानि विश्वा.
गर्भे
नु
सन्
अनु
एषाम्
*अवेदम्
अहम्
देवानाम्
जनिमानि
विश्वा.
{corr
.
अवेद्
Sentence: c
शतं मा पुर आयसीररक्षन्न् अध श्येनो जवसा निरदीयम्.
शतम्
मा
पुरः
आयसीः
अरक्षन्
अध
श्येनः
जवसा
निः
अदीयम्.
{prose}
Sentence: d
इति.
इति.
Sentence: e
गर्भ एवैतच्छयानो वामदेव एवमुवाच.
गर्भे
एव
एतत्
शयानः
वामदेवः
एवम्
उवाच.
Verse: 6
Sentence: a
स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत्.
सः
एवम्
विद्वान्
अस्मात्
शरीरभेदात्
ऊर्ध्वम्
उत्क्रम्य
अमुष्मिन्
स्वर्गे
लोके
सर्वान्
कामान्
आप्त्वा
अमृतः
समभवत्
समभवत्.
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.