TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 2
Paragraph: 2
{=
ŚBM
10.6.5.1} {=
ŚBK
16.3.2.1-7}
Verse: MK1
Sentence: a
नै॒वेह किं॒ चना॒ग्र आसीन्.
न
एव
इह
कि॒म्
चन
अ॒ग्रे
आसीत्
Sentence: b
मृत्यु॒नै॒वेदमा॒वृतमासीदशनाय॒याशनाया हि॒ मृत्यु॒स्.
मृत्यु॒ना
एव
इद॒म्
आ॒वृतम्
आसीत्
अशनाय॒या
अशनाया
हि
मृत्यु॒स्
Sentence: c
तन्म॒नो ऽकुरुतात्मन्वी॒ स्यामि॒ति.
त॒द्
म॒नस्
अकुरुत
आत्मन्वी
स्याम्
इ॒ति
Sentence: d
सो॒ ऽर्चन्नचरत्.
स॒स्
अ॒र्चन्
अचरत्
Sentence: e
तस्या॒र्चत आ॒पो ऽजायन्ता॒र्चते वै॒ मे क॒मभूदि॒ति.
त॒स्य
अ॒र्चतस्
आ॒पस्
अजायन्त
अ॒र्चते
वै
मे
क॒म्
अभूत्
इ॒ति
Sentence: f
त॒दे॒वा॒र्क्यस्यार्कत्वं.
त॒द्
एव
अ॒र्क्यस्य
अर्कत्व॒म्
Sentence: g
कँ॒ ह वा॒ अस्मै भवति,
क॒म्
ह
वै
अस्मै
भवति
Sentence: h
य॒ एव॒मेत॒द॒र्क्यस्यार्कत्वं वे॒द.
य॒स्
एव॒म्
एत॒द्
अ॒र्क्यस्य
अर्कत्व॒म्
वे॒द
Verse: MK2
Sentence: a
आ॒पो वा॒ अर्क॒स्.
आ॒पस्
वै
अर्क॒स्
Sentence: b
तद्य॒दपाँ श॒र आ॒सीत्,
त॒द्
य॒द्
अपा॒म्
श॒रस्
आ॒सीत्
Sentence: c
तत्स॒महन्यत,
त॒द्
स॒महन्यत
Sentence: d
सा॒ पृथि॒व्यभवत्.
सा
पृथिवी
अभवत्
Sentence: e
त॒स्यामश्राम्यत्.
त॒स्याम्
अश्राम्यत्
Sentence: f
त॒स्य श्रान्त॒स्य तप्त॒स्य ते॒जो र॒सो नि॒रवर्तताग्निः.
त॒स्य
श्रान्त॒स्य
तप्त॒स्य
ते॒जस्
र॒सस्
नि॒रवर्तत
अग्नि॒स्
Verse: MK3
Sentence: a
स॒ त्रे॒धात्मा॒नं॒ व्यकुरुतादित्यं॒ तृती॒यं,
स
त्रेधा
आत्मा॒नम्
व्यकुरुत
आदित्य॒म्
तृती॒यम्
Sentence: b
वायुं॒ तृती॒यँ.
वायु॒म्
तृती॒यम्
Sentence: c
स॒ एष॒ प्राण॒स्त्रेधाविहित॒स्.
स
एष
प्राण॒स्
त्रेधाविहित॒स्
Sentence: d
त॒स्य प्रा॒ची दिक्शि॒रो ऽसौ॒ चासौ॒ चेर्मा॒व्;
त॒स्य
प्रा॒ची
दि॒क्
शि॒रस्
असौ
च
असौ
च
ईर्मौ
Sentence: e
अ॒थास्य प्रती॒ची दिक्पु॒च्छम्,
अ॒थ
अस्य
प्रती॒ची
दि॒क्
पु॒च्छम्
Sentence: f
असौ॒ चासौ॒ च स॒क्थ्यौ;
असौ
च
असौ
च
स॒क्थ्यौ
Sentence: g
द॒क्षिणा चो॒दीची च पार्श्वे,
द॒क्षिणा
च
उ॒दीची
च
पार्श्वे
Sentence: h
द्यौ॒ष्पृष्ठ॒म्,
द्यौ॒स्
पृष्ठ॒म्
Sentence: i
अन्त॒रिक्षमुद॒रम्,
अन्त॒रिक्षम्
उद॒रम्
Sentence: j
इयमु॒रः,
इय॒म्
उ॒रस्
Sentence: k
स॒ ए॒षो ऽप्सु प्र॒तिष्ठितो.
स
एष॒स्
अप्सु
प्र॒तिष्ठितस्
Sentence: l
य॒त्र॒ क्व चै॒ति,
य॒त्र
क्व
च
ए॒ति
Sentence: m
त॒देव प्र॒तितिष्ठत्येवं॒ विद्वा॒न्.
त॒द्
एव
प्र॒तितिष्ठति
एव॒म्
विद्वा॒न्
Verse: MK4
Sentence: a
सो ऽकामयत:
स॒स्
अकामयत
Sentence: b
द्विती॒यो म आत्मा॒ जायेते॒ति.
द्विती॒यस्
मे
आत्मा
जायेत
इ॒ति
Sentence: c
स म॒नसा वा॒चं मिथुनँ स॒मभवदशनायां॒ मृत्यु॒स्.
स
म॒नसा
वा॒चम्
मिथुन॒म्
स॒मभवत्
अशनाया॒म्
मृत्यु॒स्
Sentence: d
तद्यद्रे॒त आ॒सीत्,
त॒द्
य॒द्
रे॒तस्
आ॒सीत्
Sentence: e
स॒ संवत्स॒रो ऽभवन्.
स
संवत्सर॒स्
अभवत्
Sentence: f
न॒ ह पुरा त॒तः संवत्सर॒ आस.
न
ह
पुरा
त॒तस्
संवत्सर॒स्
आस
Sentence: g
त॒मेता॒वन्तं काल॒मबिभर्या॒वान्त्संवत्सर॒स्.
त॒म्
एता॒वन्तम्
काल॒म्
अबिभर्
या॒वान्
संवत्सर॒स्
Sentence: h
त॒मेता॒वतः काल॒स्य पर॒स्तादसृजत.
त॒म्
एता॒वतस्
काल॒स्य
पर॒स्ताद्
असृजत
Sentence: i
तं॒ जात॒मभिव्या॒ददात्;
त॒म्
जात॒म्
अभिव्या॒ददात्
Sentence: j
स भा॒णकरोत्,
स
भा॒ण्
अकरोत्
Sentence: k
सैव वा॒गभवत्.
सा
एव
वा॒ग्
अभवत्
Verse: MK5
Sentence: a
स॒ ऐक्षत:
स॒स्
ऐक्षत
Sentence: b
य॒दि वा॒ इम॒मभिमँस्ये,
य॒दि
वै
इम॒म्
अभिमँस्ये
Sentence: c
क॒नीयो॒ ऽन्नं करिष्य इ॒ति.
क॒नीयस्
अ॒न्नम्
करिष्ये
इ॒ति
Sentence: d
स त॒या वाचा ते॒नात्म॒नेदँ स॒र्वमसृजत,
स
त॒या
वाचा
ते॒न
आत्म॒ना
इद॒म्
स॒र्वम्
असृजत
Sentence: e
य॒दिदं किञ्च॒र्चो य॒जूँषि सा॒मानि छ॒न्दाँसि यज्ञा॒न्प्रजां॒ पशू॒न्त्.
य॒द्
इद॒म्
कि॒ञ्च
ऋ॒चस्
य॒जूँषि
सा॒मानि
छ॒न्दाँसि
यज्ञा॒न्
प्रजा॒म्
पशू॒न्
Sentence: f
स य॒द्यदेवा॒सृजत,
स
य॒द्यद्
एव
अ॒सृजत
Sentence: g
त॒त्तद॒त्तुमध्रियत.
त॒त्तद्
अ॒त्तुम्
अध्रियत
Sentence: h
स॒र्वं वा॒ अत्ती॒ति,
स॒र्वम्
वै
अत्ति
इ॒ति
Sentence: i
तद॒दितेरदितित्वँ.
त॒द्
अ॒दितेस्
अदितित्व॒म्
Sentence: j
स॒र्वस्यात्ता॒ भवति,
स॒र्वस्य
अत्ता
भवति
Sentence: k
स॒र्वमस्या॒न्नं भवति,
स॒र्वम्
अस्य
अ॒न्नम्
भवति
Sentence: l
य॒ एव॒मेतद॒दितेरदितित्वं वे॒द.
य॒स्
एव॒म्
एत॒द्
अ॒दितेस्
अदितित्व॒म्
वे॒द
Verse: MK6
Sentence: a
सो ऽकामयत:
स॒स्
अकामयत
Sentence: b
भू॒यसा यज्ञे॒न भू॒यो यजेये॒ति.
भू॒यसा
यज्ञे॒न
भू॒यस्
यजेय
इ॒ति
Sentence: c
सो ऽश्राम्यत्,
स॒स्
अश्राम्यत्
Sentence: d
स त॒पो ऽतप्यत.
स
त॒पस्
अतप्यत
Sentence: e
त॒स्य श्रान्त॒स्य तप्त॒स्य य॒शो वी॒र्यमु॒दक्रामत्.
त॒स्य
श्रान्त॒स्य
तप्त॒स्य
य॒शस्
वी॒र्यम्
उ॒दक्रामत्
Sentence: f
प्राणा वै य॒शो वी॒र्यं.
प्राणा॒स्
वै
य॒शस्
वी॒र्यम्
Sentence: g
त॒त्प्राणेषू॒त्क्रान्तेषु श॒रीरँ श्व॒यितुमध्रियत;
त॒द्
प्राणे॒षु
उ॒त्क्रान्तेषु
श॒रीरम्
श्व॒यितुम्
अध्रियत
Sentence: h
त॒स्य श॒रीर एव म॒न आसीत्.
त॒स्य
श॒रीरे
एव
म॒नस्
आसीत्
Verse: MK7
Sentence: a
सो ऽकामयत:
स॒स्
अकामयत
Sentence: b
मे॒ध्यं म इदँ॒ स्याद्,
मे॒ध्यम्
मे
इद॒म्
स्यात्
Sentence: c
आत्म॒न्व्यने॒न स्यामि॒ति.
आत्मन्वी
अने॒न
स्याम्
इ॒ति
Sentence: d
ततो॒ ऽश्वः स॒मभवद्.
त॒तस्
अ॒श्वस्
स॒मभवत्
Sentence: e
यद॒श्वत्,
य॒द्
अ॒श्वत्
Sentence: f
तन्मे॒ध्यमभूदि॒ति.
त॒द्
मे॒ध्यम्
अभूत्
इ॒ति
Sentence: g
त॒दे॒वाश्वमेध॒स्याश्वमेधत्व॒म्.
त॒द्
एव
अश्वमेध॒स्य
अश्वमेधत्व॒म्
Sentence: h
एष॒ ह वा॒ अश्वमेधं॒ वेद,
एष
ह
वै
अश्वमेध॒म्
वेद
Sentence: i
य॒ एनमेवं वे॒द.
य॒स्
एनम्
एव॒म्
वे॒द
Verse: M8/K7
Sentence: a
तम॒नवरुध्येवामन्यत.
त॒म्
अ॒नवरुध्य
इव
अमन्यत
Sentence: b
तँ॒ संवत्सर॒स्य पर॒स्तादात्म॒न आ॒लभत,
त॒म्
संवत्सर॒स्य
पर॒स्ताद्
आत्म॒ने
आ॒लभत
Sentence: c
पशू॒न्देव॒ताभ्यः प्र॒त्यौहत्.
पशू॒न्
देव॒ताभ्यस्
प्र॒त्यौहत्
Sentence: d
त॒स्मात्सर्वदेव॒त्यं प्रो॒क्षितं प्राजापत्यमा॒लभन्त.
त॒स्माद्
सर्वदेव॒त्यम्
प्रो॒क्षितम्
प्राजापत्य॒म्
आ॒लभन्ते
Sentence: e
एष वा॒ अश्वमेधो य॒ एष त॒पति;
एष
वै
अश्वमेध॒स्
य॒स्
एष
त॒पति
Sentence: f
त॒स्य संवत्सर॒ आ॒त्माय॒मग्नि॒रर्क॒स्,
त॒स्य
संवत्सर॒स्
आत्मा
अय॒म्
अग्नि॒स्
अर्क॒स्
Sentence: g
त॒स्येमे॒ लोका॒ आत्मा॒नस्.
त॒स्य
इमे
लोका॒स्
आत्मा॒नस्
Sentence: h
ता॒वेता॒वर्काश्वमेधौ,
तौ
एतौ
अर्काश्वमेधौ
Sentence: i
सो पु॒नरे॒कैव॒ देव॒ता भवति,
स
पु॒नर्
ए॒का
एव
देव॒ता
भवति
Sentence: j
मृत्यु॒रेवा॒प पुनर्मृत्युं॒ जयति,
मृत्यु॒स्
एव
अ॒प
पुनर्मृत्यु॒म्
जयति
Sentence: k
नैनं मृत्यु॒राप्नोति,
न
एनम्
मृत्यु॒स्
आप्नोति
Sentence: l
मृत्यु॒रस्यात्मा॒ भवत्य्,
मृत्यु॒स्
अस्य
आत्मा
भवति
Sentence: m
स॒र्वमा॒युरेत्य्,
स॒र्वम्
आ॒युस्
एति
Sentence: n
एता॒सां देव॒तानामे॒को भवति,
एता॒साम्
देव॒तानाम्
ए॒कस्
भवति
Sentence: o
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.