TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 15
Paragraph: 3
Verse: MK1
Sentence: a
अ॒थ हैनं भुज्युर्ला॒ह्यायनिः पप्रच्छ.
अ॒थ
ह
एनम्
भुज्यु॒स्
ला॒ह्यायनिस्
पप्रच्छ
Sentence: b
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: c
मद्रे॒षु च॒रकाः प॒र्यव्रजाम;
मद्रे॒षु
च॒रकास्
प॒र्यव्रजाम
Sentence: d
ते॒ पत॒ञ्चलस्य का॒प्यस्य गृहाऐ॒म.
ते
पत॒ञ्चलस्य
का॒प्यस्य
गृहा॒न्
ऐ॒म
Sentence: e
त॒स्यासीद्दुहिता॒ गन्धर्व॒गृहीता;
त॒स्य
आसीत्
दुहिता
गन्धर्व॒गृहीता
Sentence: f
त॒मपृच्छाम:
त॒म्
अपृच्छाम
Sentence: g
को ऽसी॒ति.
क॒स्
असि
इ॒ति
Sentence: h
सो ऽब्रवीत्:
स॒स्
अब्रवीत्
Sentence: i
सुध॒न्वाङ्गिरस इ॒ति.
सुधन्वा
आङ्गिरस॒स्
इ॒ति
Sentence: j
तं॒ यदा॒ लोका॒नाम॒न्तान्
अ॒पृच्छामा॒थैत॒द्
K
अथैनम्
अब्रूम:
त॒म्
यदा
लोका॒नाम्
अ॒न्तान्
अ॒पृच्छाम
अ॒थ
एत॒द्
K
अथ
एनम्
अब्रूम
Sentence: k
क्व पारिक्षिता॒ अभवन्नि॒ति.
क्व
पारिक्षिता॒स्
अभवन्
इ॒ति
Sentence: l
क्व पारिक्षिता
अभवन्नि॒ति.
K
अभवन्त्.
क्व
पारिक्षिता॒स्
अभवन्
इ॒ति
K
अभवन्
Sentence: m
त॒त्
K
स
त्वा पृच्छामि,
त॒द्
K
स
त्वा
पृच्छामि
Sentence: n
याज्ञवल्क्य:
याज्ञवल्क्य
Sentence: o
क्व पारिक्षिता॒ अभवन्नि॒ति.
क्व
पारिक्षिता॒स्
अभवन्
इ॒ति
Verse: MK2
Sentence: a
स॒ होवाचोवा॒च वै स त॒द्:
स
ह
उवाच
उवा॒च
वै
स
त॒द्
Sentence: b
अगच्छन्वै ते त॒त्र,
अगच्छन्
वै
ते
त॒त्र
Sentence: c
य॒त्राश्वमेधयाजि॒नो ग॒च्छन्ती॒ति.
य॒त्र
अश्वमेधयाजि॒नस्
ग॒च्छन्ति
इ॒ति
Sentence: d
क्व॒ न्वश्वमेधयाजि॒नो गच्छन्ती॒ति.
क्व
नु
अश्वमेधयाजि॒नस्
गच्छन्ति
इ॒ति
Sentence: e
द्वा॒त्रिँशत वै॒ देवरथाह्न्या॒न्ययं॒ लोक॒स्;
द्वा॒त्रिँशत
वै
देवरथाह्न्या॒नि
अय॒म्
लोक॒स्
Sentence: f
तँ
समन्तं॒ लोकं॒ द्विस्ता॒वत्पृथिवी
K
समन्तं पृथिवी द्विस्तावत्
प॒र्येति;
त॒म्
समन्त॒म्
लोक॒म्
द्विस्ता॒वत्
पृथिवी
K
समन्तम्
पृथिवी
द्विस्तावत्
प॒र्येति
Sentence: g
ताँ
K
ताँ समन्तं
पृथिवीं॒ द्विस्ता॒वत्समुद्रः प॒र्येति.
ता॒म्
K
ताम्
समन्तम्
पृथिवी॒म्
द्विस्ता॒वत्
समुद्र॒स्
प॒र्येति
Sentence: h
तद्या॒वती क्षुर॒स्य धा॒रा,
त॒द्
या॒वती
क्षुर॒स्य
धा॒रा
Sentence: i
या॒वद्वा म॒क्षिकायाः प॒त्त्रं,
या॒वत्
वा
म॒क्षिकायास्
प॒त्त्रम्
Sentence: j
ता॒वान॒न्तरेणाकाश॒स्.
ता॒वान्
अ॒न्तरेण
आकाश॒स्
Sentence: k
तानि॒न्द्रः सुपर्णो॒ भूत्वा॒ वाय॒वे प्रा॒यच्छत्;
ता॒न्
इ॒न्द्रस्
सुपर्ण॒स्
भूत्वा
वाय॒वे
प्रा॒यच्छत्
Sentence: l
ता॒न्वायु॒रात्म॒नि धित्वा त॒त्रागमयद्य॒त्र
परिक्षिता
K
अश्वमेधयाजिनो
अ॒भवन्नि॒त्य्.
ता॒न्
वायु॒स्
आत्म॒नि
धित्वा
त॒त्र
अगमयत्
य॒त्र
परिक्षिता॒स्
K
अश्वमेधयाजिनस्
अ॒भवन्
इ॒ति
Sentence: m
एव॒मिव वै स॒ वायु॒मेव प्र॒शशँस;
एव॒म्
इव
वै
स
वायु॒म्
एव
प्र॒शशँस
Sentence: n
त॒स्माद्वायु॒रेव॒ व्यष्टिर्,
त॒स्माद्
वायु॒स्
एव
व्यष्टिस्
Sentence: o
वायुः स॒मष्टिर्.
वायु॒स्
स॒मष्टिस्
Sentence: p
अ॒प पुनर्मृत्युं॒ जयति,
अ॒प
पुनर्मृत्यु॒म्
जयति
Sentence: q
स॒र्वमा॒युरेति
K
om
.
सर्वमायुरेति,
स॒र्वम्
आ॒युस्
एति
K
om
.
सर्वम्
आयुस्
एति
Sentence: r
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Sentence: s
त॒तो ह भुज्युर्ला॒ह्यायनिरु॒परराम.
त॒तस्
ह
भुज्यु॒स्
ला॒ह्यायनिस्
उ॒परराम
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.