TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 4
Paragraph: 4
{=
ŚBM
14.4.2.1-31} {=
ŚBK
16.3.4.1-17}
Verse: MK1
Sentence: a
आ॒त्मै॒वेदम॒ग्र आसीत्पु॒रुषविधः.
आत्मा
एव
इद॒म्
अ॒ग्रे
आसीत्
पु॒रुषविधस्
Sentence: b
सो ऽनुवी॒क्ष्य॒ नान्य॒दात्म॒नो ऽपश्यत्.
स॒स्
अनुवी॒क्ष्य
न
अन्य॒द्
आत्म॒नस्
अपश्यत्
Sentence: c
सो ऽह॒मस्मीत्य॒ग्रे व्या॒हरत्.
स॒स्
अह॒म्
अस्मि
इ॒त्य्
अ॒ग्रे
व्या॒हरत्
Sentence: d
त॒तो ऽहंना॒माभवत्.
त॒तस्
अहंना॒म
अभवत्
Sentence: e
त॒स्माद॒प्येतर्ह्या॒मन्त्रितो:
त॒स्माद्
अ॒पि
एत॒र्हि
आ॒मन्त्रितस्
Sentence: f
ऽह॒मयमि॒त्येवा॒ग्र उक्त्वा॒थान्यन्ना॒म प्र॒ब्रूते य॒दस्य भ॒वति.
अह॒म्
अय॒म्
इ॒ति
एव
अ॒ग्रे
उक्त्वा
अ॒थ
अन्य॒द्
ना॒म
प्र॒ब्रूते
य॒द्
अस्य
भ॒वति
Verse: M2/K1
Sentence: a
स यत्पू॒र्वो ऽस्मात्स॒र्वस्मात्स॒र्वान्पाप्म॒न औ॒षत्,
स
य॒द्
पू॒र्वस्
अस्माद्
स॒र्वस्माद्
स॒र्वान्
पाप्म॒नस्
औ॒षत्
Sentence: b
त॒स्मात्पु॒रुष.
त॒स्माद्
पु॒रुषस्
Sentence: c
ओ॒षति ह वै स तं,
ओ॒षति
ह
वै
स
त॒म्
Sentence: d
यो ऽस्मात्पू॒र्वो बु॒भूषति,
य॒स्
अस्माद्
पू॒र्वस्
बु॒भूषति
Sentence: e
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M3/K2
Sentence: a
सो ऽबिभेत्;
स॒स्
अबिभेत्
Sentence: b
त॒स्मादेकाकी॒ बिभेति.
त॒स्माद्
एकाकी
बिभेति
Sentence: c
स॒ हाय॒मीक्षां॒ चक्रे:
स
ह
अय॒म्
ईक्षा॒म्
चक्रे
Sentence: d
यन्म॒दन्यन्ना॒स्ति,
य॒द्
म॒द्
अन्य॒द्
न
अ॒स्ति
Sentence: e
क॒स्मान्नु॒ बिभेमी॒ति.
क॒स्माद्
नु
बिभेमि
इ॒ति
Sentence: f
त॒त ए॒वास्य भयं॒ वीयाय.
त॒तस्
एव
अस्य
भय॒म्
वीयाय
Sentence: g
क॒स्माद्ध्य॒भेष्यद्,
क॒स्माद्
हि
अ॒भेष्यत्
Sentence: h
द्विती॒याद्वै॒ भयं॒ भवति.
द्विती॒याद्
वै
भय॒म्
भवति
Verse: M4/K3
Sentence: a
स वै॒ नैव॒ रेमे;
स
वै
न
एव
रेमे
Sentence: b
त॒स्मादेकाकी न॒ रमते.
त॒स्माद्
एकाकी
न
रमते
Sentence: c
स॒ द्विती॒यऐच्छत्.
स
द्विती॒यम्
ऐच्छत्
Sentence: d
स॒ हैता॒वानास य॒था स्त्रीपुमाँ॒सौ सम्प॒रिष्वक्तौ.
स
ह
एता॒वान्
आस
य॒था
स्त्रीपुमाँ॒सौ
सम्प॒रिष्वक्तौ
Verse: M5/K3
Sentence: a
स॒ इम॒मे॒वात्मानं द्वे॒धापातयत्;
स
इम॒म्
एव
आत्मा॒नम्
द्वेधा
अपातयत्
Sentence: b
त॒तः प॒तिश्च प॒त्नी चाभवतां.
त॒तस्
प॒तिस्
च
प॒त्नी
च
अभवताम्
Sentence: c
त॒स्मादिद॒मर्धबृगल॒मिव स्व इ॒ति ह स्माह या॒ज्ञवल्क्यस्.
त॒स्माद्
इद॒म्
अर्धबृगल॒म्
इव
स्वस्
इ॒ति
ह
स्म
अह
या॒ज्ञवल्क्यस्
Sentence: d
त॒स्मादय॒माकाशः॒ स्त्रिया॒ पूर्य॒त एव.
त॒स्माद्
अय॒म्
आकाश॒स्
स्त्रिया
पूर्य॒ते
एव
Sentence: e
ताँ स॒मभवत्:
ता॒म्
स॒मभवत्
Sentence: f
त॒तो मनु॒ष्या अजायन्त.
त॒तस्
मनु॒ष्यास्
अजायन्त
Verse: M6/K4
Sentence: a
सो हेय॒मीक्षां॒ चक्रे:
सा
उ
ह
इय॒म्
ईक्षा॒म्
चक्रे
Sentence: b
कथं नु॒ मात्म॒न एव॒ जनयित्वा स॒म्भवति.
कथ॒म्
नु
मा
आत्म॒नस्
एव
जनयित्वा
स॒म्भवति
Sentence: c
ह॒न्त तिरो॒ ऽसानी॒ति.
ह॒न्त
तिर॒स्
अ॒सानि
इ॒ति
Verse: M7/K4
Sentence: a
सा गौर॒भवद्,
सा
गौ॒स्
अ॒भवत्
Sentence: b
वृषभ इ॒तरस्;
वृषभ॒स्
इ॒तरस्
Sentence: c
ताँ स॒मे॒वाभवत्:
ताम्
स॒म्
एव
अभवत्
Sentence: d
त॒तो गा॒वो ऽजायन्त.
त॒तस्
गा॒वस्
अजायन्त
Verse: M8/K4
Sentence: a
व॒डवे॒तरा॒भवद्,
व॒डवा
इ॒तरा
अ॒भवत्
Sentence: b
अश्ववृष इ॒तरो;
अश्ववृष॒स्
इ॒तरस्
Sentence: c
गर्दभी॒तरा,
गर्दभी
इ॒तरा
Sentence: d
गर्दभ इ॒तरस्;
गर्दभ॒स्
इ॒तरस्
Sentence: e
ताँ स॒मे॒वाभवत्:
ता॒म्
स॒म्
एव
अभवत्
Sentence: f
त॒त ए॒कशपमजायत.
त॒त
ए॒कशपम्
अजायत
Verse: M9/K4
Sentence: a
अजे॒तरा॒भवद्,
अजा
इ॒तरा
अभवत्
Sentence: b
बस्त इ॒तरो;
बस्त॒स्
इ॒तरस्
Sentence: c
ऽविरि॒तरा,
अवि॒स्
इ॒तरा
Sentence: d
मेष इ॒तरस्;
मेष॒स्
इ॒तरस्
Sentence: e
ताँ स॒मे॒वाभवत्:
ता॒म्
स॒म्
एव
अभवत्
Sentence: f
त॒तो ऽजावयो ऽजायन्तैव॒मेव य॒दिदं कि॒ञ्च मिथुनमा॒ पिपी॒लिकाभ्यस्,
त॒तस्
अजाव॒यस्
अजायन्त
एव॒म्
एव
य॒द्
इद॒म्
कि॒ञ्च
मिथुन॒म्
आ
पिपी॒लिकाभ्यस्
Sentence: g
तत्स॒र्वमसृजत.
त॒द्
स॒र्वम्
असृजत
Verse: M10/K5
Sentence: a
सो ऽवेद्:
स॒स्
अवेत्
Sentence: b
अहं वाव सृ॒ष्टिरस्म्य्,
अह॒म्
वाव
सृ॒ष्टिस्
अस्मि
Sentence: c
अहँ॒ हीदँ स॒र्वम॒सृक्षी॒ति.
अह॒म्
हि
इद॒म्
स॒र्वम्
अ॒सृक्षि
इ॒ति
Sentence: d
त॒तः सृ॒ष्टिरभवत्.
त॒तस्
सृ॒ष्टिस्
अभवत्
Sentence: e
सृ॒ष्ट्याँ हास्यैत॒स्यां भवति,
सृ॒ष्ट्याम्
ह
अस्य
एत॒स्याम्
भवति
Sentence: f
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M11/K6
Sentence: a
अथे॒त्य॒भ्यमन्थत्.
अ॒थ
इ॒ति
अ॒भ्यमन्थत्
Sentence: b
स मु॒खाच्च यो॒नेर्ह॒स्ताभ्यां चाग्नि॒मसृजत.
स
मु॒खाद्
च
यो॒नेस्
ह॒स्ताभ्याम्
च
अग्नि॒म्
असृजत
Sentence: c
त॒स्मादेत॒दुभ॒यमलो॒मकमन्तर॒तो,
त॒स्माद्
एत॒द्
उभ॒यम्
अलो॒मकम्
अन्तरत॒स्
Sentence: d
ऽलो॒मका हि यो॒निरन्तरतः.
अलो॒मका
हि
यो॒निस्
अन्तरत॒स्
Verse: M12/K6
Sentence: a
तद्य॒दिद॒माहुर्:
त॒द्
य॒द्
इद॒म्
आहुर्
Sentence: b
अमुं॒ यजामुं॒ यजेत्ये॒कैकं देव॒म्,
अमु॒म्
यज
अमु॒म्
यज
इ॒ति
ए॒कैकम्
देव॒म्
Sentence: c
एत॒स्यैव सा वि॒सृष्टिर्,
एत॒स्य
एव
सा
वि॒सृष्टिस्
Sentence: d
एष॒ उ॒ ह्येव स॒र्वे देवा.
एष॒स्
उ
हि
एव
स॒र्वे
देवा॒स्
Verse: M13/K6
Sentence: a
अ॒थ यत्कि॒ञ्चेद॒मार्द्रं,
अ॒थ
य॒द्
कि॒ञ्च
इद॒म्
आर्द्र॒म्
Sentence: b
तद्रे॒तसो ऽसृजत;
त॒द्
रे॒तसस्
असृजत
Sentence: c
त॒दु सो॒म.
त॒द्
उ
सो॒मस्
Sentence: d
एता॒वद्वा॒ इदँ स॒र्वम॒न्नं चै॒वान्नाद॒श्च;
एता॒वत्
वै
इद॒म्
स॒र्वम्
अ॒न्नम्
च
एव
अन्नद॒स्
च
Sentence: e
सो॒म एवा॒न्नम्,
सो॒म
एव
अ॒न्नम्
Sentence: f
अग्नि॒रन्नादः.
अग्नि॒स्
अन्नाद॒स्
Verse: M14/K6
Sentence: a
सैषा ब्र॒ह्मणो॒ ऽतिसृष्टिर्;
सा
एषा
ब्र॒ह्मणस्
अ॒तिसृष्टिस्
Sentence: b
यच्छ्रे॒यसो देवान॒सृजता॒थ यन्म॒र्त्यः स॒न्नमृ॒तानसृजत,
य॒द्
श्रे॒यसस्
देवा॒न्
अ॒सृजत
अ॒थ
य॒द्
म॒र्त्यस्
स॒न्
अमृ॒तान्
असृजत
Sentence: c
त॒स्माद॒तिसृष्टिर्,
त॒स्माद्
अ॒तिसृष्टिस्
Sentence: d
अ॒तिसृष्ट्याँ हास्यैत॒स्यां भवति,
अ॒तिसृष्ट्याम्
ह
अस्य
एत॒स्याम्
भवति
Sentence: e
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M15/K7
Sentence: a
त॒द्धेदं तर्ह्य॒व्याकृतमासीत्.
त॒द्
ह
इद॒म्
त॒र्हि
अ॒व्याकृतम्
आसीत्
Sentence: b
त॒न्नामरूपा॒भ्यामेव व्या॒क्रियतासौ ना॒माय॒मिदँ॒रूप इ॒ति.
त॒द्
नामरूपा॒भ्याम्
एव
व्या॒क्रियत
असौ
ना॒म
अय॒म्
इदँ॒रूपस्
इ॒ति
Sentence: c
त॒दिदम॒प्येत॒र्हि नामरूपा॒भ्यामेव व्या॒क्रियत असौ ना॒माय॒मिदँ॒रूप इ॒ति.
त॒द्
इद॒म्
अ॒पि
एत॒र्हि
नामरूपा॒भ्याम्
एव
व्या॒क्रियते
असौ
ना॒म
अय॒म्
इदँ॒रूपस्
इ॒ति
Verse: M16/K7
Sentence: a
स॒ एष॒ इह प्र॒विष्ट आ॒ नखाग्रे॒भ्यो.
स॒स्
एष॒स्
इह
प्र॒विष्ट
आ
नखाग्रे॒भ्यस्
Sentence: b
य॒था क्षुरः॒ क्षुरधाने॒ ऽवहितः स्या॒द्,
य॒था
क्षुर॒स्
क्षुरधाने
अ॒वहितस्
स्या॒त्
Sentence: c
विश्वम्भरो॒ वा विश्वम्भरकुलाये,
विश्वम्भर॒स्
वा
विश्वम्भरकुलाये
Sentence: d
तं न प॒श्यन्त्य्,
त॒म्
न
प॒श्यन्ति
Sentence: e
अ॒कृत्स्नो हि सः;
अ॒कृत्स्नस्
हि
स॒स्
Verse: M17/K7
Sentence: a
प्राण॒न्नेव॒ प्राणो ना॒म भ॒वति,
प्राण॒न्
एव
प्राण॒स्
ना॒म
भ॒वति
Sentence: b
व॒दन्वा॒क्,
व॒दन्
वा॒क्
Sentence: c
प॒श्यंश्च॒क्षुः,
प॒श्यन्
च॒क्षुस्
Sentence: d
शृण्वञ्छ्रो॒त्रं,
शृण्व॒न्
श्रो॒त्रम्
Sentence: e
मन्वानो म॒नस्.
मन्वान॒स्
म॒नस्
Sentence: f
ता॒न्यस्यैता॒नि कर्मनामा॒न्येव.
ता॒नि
अस्य
एता॒नि
कर्मनामा॒नि
एव
Sentence: g
स यो॒ ऽत ए॒कैकमुपा॒स्ते,
स
य॒स्
अ॒तस्
ए॒कैकम्
उपा॒स्ते
Sentence: h
न स॒ वेदा॒कृत्स्नो॒ ह्येषो॒ ऽत ए॒कैकेन भ॒वति.
न
स
वेद
अ॒कृत्स्नस्
हि
एष॒स्
अ॒तस्
ए॒कैकेन
भ॒वति
Verse: M18/K7
Sentence: a
आत्मे॒त्येवो॒पासीता॒त्र॒ ह्येते स॒र्व ए॒कं भ॒वन्ति.
आत्मा
इ॒ति
एव
उ॒पासीत
अ॒त्र
हि
एते
स॒र्वे
ए॒कम्
भ॒वन्ति
Sentence: b
त॒देत॒त्पदनी॒यमस्य स॒र्वस्य य॒दय॒मा॒त्माने॒न॒ ह्येतत्स॒र्वं वे॒द.
त॒द्
एत॒द्
पदनी॒यम्
अस्य
स॒र्वस्य
य॒द्
अय॒म्
आत्मा
अने॒न
हि
एत॒द्
स॒र्वम्
वे॒द
Sentence: c
य॒था ह वै॒ पदे॒नानुविन्दे॒द्,
य॒था
ह
वै
पदे॒न
अनुविन्दे॒त्
Sentence: d
एवं॒ कीर्तिँ श्लो॒कं विन्दते,
एव॒म्
कीर्ति॒म्
श्लो॒कम्
विन्दते
Sentence: e
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M19/K8
Sentence: a
त॒देतत्प्रे॒यः पुत्रा॒त्,
त॒द्
एत॒द्
प्रे॒यस्
पुत्रा॒द्
Sentence: b
प्रे॒यो वित्ता॒त्,
प्रे॒यस्
वित्ता॒द्
Sentence: c
प्रे॒यो ऽन्य॒स्मात्स॒र्वस्माद्,
प्रे॒यस्
अन्य॒स्माद्
स॒र्वस्माद्
Sentence: d
अ॒न्तरतरं,
अ॒न्तरतरम्
Sentence: e
य॒दय॒मात्मा.
य॒द्
अय॒म्
आत्मा
Sentence: f
स॒ यो ऽन्य॒मात्म॒नः प्रियं॒ ब्रुवाणं॒ ब्रूया॒त्:
स
य॒स्
अन्य॒म्
आत्म॒नस्
प्रिय॒म्
ब्रुवाण॒म्
ब्रूया॒त्
Sentence: g
प्रियँ॒ रोत्स्यती॒तीश्वरो॒ ह त॒थैव॒ स्याद्.
प्रिय॒म्
रोत्स्यति
इ॒ति
ईश्वर॒स्
ह
त॒था
एव
स्यात्
Sentence: h
आत्मा॒नमेव॒ प्रियमु॒पासीत.
आत्मा॒नम्
एव
प्रिय॒म्
उ॒पासीत
Sentence: i
स य॒ आत्मा॒नमेव॒ प्रिय॒मुपा॒स्ते,
स
य॒स्
आत्मा॒नम्
एव
प्रिय॒म्
उपा॒स्ते
Sentence: j
न॒ हास्य प्रियं॒ प्रमा॒युकं भवति.
न
ह
अस्य
प्रिय॒म्
प्रमा॒युकम्
भवति
Verse: M20/K9
Sentence: a
त॒दाहुर्:
त॒द्
आहुर्
Sentence: b
य॒द्ब्रह्मविद्य॒या स॒र्वं भविष्य॒न्तो मनु॒ष्या म॒न्यन्ते,
य॒द्
ब्रह्मविद्य॒या
स॒र्वम्
भविष्य॒न्तस्
मनु॒ष्यास्
म॒न्यन्ते
Sentence: c
कि॒मु तद्ब्र॒ह्मावेद्,
कि॒म्
उ
त॒द्
ब्र॒ह्म
अवेत्
Sentence: d
य॒स्मात्तत्स॒र्वम॒भवदि॒ति.
य॒स्माद्
त॒द्
स॒र्वम्
अ॒भवत्
इ॒ति
Verse: M21/K10
Sentence: a
ब्र॒ह्म वा॒ इदम॒ग्र आसीत्.
ब्र॒ह्म
वै
इद॒म्
अ॒ग्रे
आसीत्
Sentence: b
त॒दात्मा॒नमे॒वावेद्:
त॒द्
आत्मा॒नम्
एव
अवेत्
Sentence: c
अहं ब्र॒ह्मास्मी॒ति;
अह॒म्
ब्र॒ह्म
अस्मि
इ॒ति
Sentence: d
त॒स्मात्तत्स॒र्वमभवत्.
त॒स्माद्
त॒द्
स॒र्वम्
अभवत्
Sentence: e
तद्यो॒यो देवा॒नां प्रत्य॒बुध्यत,
त॒द्
यो॒यस्
देवा॒नाम्
प्रत्य॒बुध्यत
Sentence: f
स॒ एव तद॒भवत्,
स॒स्
एव
त॒द्
अ॒भवत्
Sentence: g
तथ॒र्षीनां,
त॒था
ऋ॒षीनाम्
Sentence: h
त॒था मनु॒ष्याणाम्.
त॒था
मनु॒ष्याणाम्
Verse: M22/K10
Sentence: a
त॒द्धैतत्प॒श्यन्नृ॒षिर्वाम॒देवः प्र॒तिपेदे:
त॒द्
ह
एत॒द्
प॒श्यन्
ऋ॒षिस्
वाम॒देवस्
प्र॒तिपेदे
Sentence: b
ऽहं म॒नुरभवँ सू॒र्यश्चे॒ति.
अह॒म्
म॒नुस्
अभवम्
सू॒र्यस्
च
इ॒ति
Sentence: c
त॒दिदम॒प्येत॒र्हि य॒ एवं वे॒दाहं ब्र॒ह्मास्मी॒ति,
त॒द्
इद॒म्
अ॒पि
एत॒र्हि
य॒स्
एव॒म्
वे॒द
अह॒म्
ब्र॒ह्म
अस्मि
इ॒ति
Sentence: d
स॒ इदँ स॒र्वं भवति,
स
इद॒म्
स॒र्वम्
भवति
Sentence: e
त॒स्य ह न॒ देवा॒श्चना॒भूत्या ईशत,
त॒स्य
ह
न
देवा॒स्
चन
अ॒भूत्यास्
ईशते
Sentence: f
आत्मा॒ ह्येषाँ स भ॒वत्य्.
आत्मा
हि
एषा॒म्
स
भ॒वति
Sentence: g
अ॒थ॒ यो ऽन्यां॒ देव॒तामुपा॒स्ते:
अ॒थ
य॒स्
अन्या॒म्
देव॒ताम्
उपा॒स्ते
Sentence: h
ऽन्यो ऽसा॒व्,
अन्य॒स्
असौ
Sentence: i
अ॒न्यो ऽह॒मस्मी॒ति,
अन्य॒स्
अह॒म्
अस्मि
इ॒ति
Sentence: j
न स॒ वेद.
न
स
वेद
Sentence: k
य॒था पशु॒रेवँ स॒ देवा॒नां.
य॒था
पशु॒स्
एव॒म्
स
देवा॒नाम्
Sentence: l
य॒था ह वै॒ बह॒वः पश॒वो मनु॒ष्यं भुञ्ज्यु॒र्,
य॒था
ह
वै
बह॒वस्
पश॒वस्
मनु॒ष्यम्
भुञ्ज्यु॒र्
Sentence: m
एवमे॒कैकः पु॒रुषो देवा॒न्भुनक्त्य्.
एव॒म्
ए॒कैकस्
पु॒रुषस्
देवा॒न्
भुनक्ति
Sentence: n
ए॒कस्मिन्नेव॒ पशा॒वादीय॒माने॒ ऽप्रियं भवति,
ए॒कस्मिन्
एव
पशौ
आदीय॒माने
अ॒प्रियम्
भवति
Sentence: o
कि॒मु बहु॒षु;
कि॒म्
उ
बहु॒षु
Sentence: p
त॒स्मादेषां तन्न॒ प्रियं य॒देत॒न्मनु॒ष्या विद्युः.
त॒स्माद्
एषाम्
त॒द्
न
प्रिय॒म्
य॒द्
एत॒द्
मनु॒ष्यास्
विद्यु॒र्
Verse: M23/K11
Sentence: a
ब्र॒ह्म वा॒ इदम॒ग्र आसीदे॒कमेव.
ब्र॒ह्म
वै
इद॒म्
अ॒ग्रे
आसीत्
ए॒कम्
एव
Sentence: b
तदे॒कँ सन्न॒ व्यभवत्.
त॒द्
ए॒कम्
स॒न्
न
व्यभवत्
Sentence: c
तच्छ्रे॒यो रूपम॒त्यसृजत क्षत्रं,
त॒द्
श्रे॒यस्
रूप॒म्
अ॒त्यसृजत
क्षत्र॒म्
Sentence: d
या॒न्येता॒नि देवत्रा॒ क्षत्राणी॒न्द्रो व॒रुणः सो॒मो रुद्रः॒ पर्ज॒न्यो यमो॒ मृत्युरी॒शान इ॒ति.
या॒नि
एता॒नि
देवत्रा
क्षत्रा॒णि
इ॒न्द्रस्
व॒रुणस्
सो॒मस्
रुद्र॒स्
पर्ज॒न्यस्
यम॒स्
मृत्यु॒स्
ई॒शानस्
इ॒ति
Sentence: e
त॒स्मात्क्षत्रात्प॒रं॒ नास्ति;
त॒स्माद्
क्षत्रा॒द्
प॒रम्
न
अस्ति
Sentence: f
त॒स्माद्!ब्राह्मणः॒ क्षत्रि॒यं अध॒स्तादु॒पास्ते राजसू॒ये.
त॒स्माद्
ब्राह्मण॒स्
क्षत्रि॒यम्
अध॒स्ताद्
उ॒पास्ते
राजसू॒ये
Sentence: g
क्षत्र॒ एव तद्य॒शो दधाति,
क्षत्रे
एव
त॒द्
य॒शस्
दधाति
Sentence: h
सैषा॒ क्षत्र॒स्य यो॒निर्यद्ब्र॒ह्म.
सा
एषा
क्षत्र॒स्य
यो॒निस्
य॒द्
ब्र॒ह्म
Sentence: i
त॒स्माद्यद्य॒पि रा॒जा परम॒तां ग॒च्छति,
त॒स्माद्
य॒दि
अ॒पि
रा॒जा
परम॒ताम्
ग॒च्छति
Sentence: j
ब्र॒ह्मै॒वान्तत॒ उपनि॒श्रयति स्वां यो॒निं.
ब्र॒ह्म
एव
अन्तत॒स्
उपनि॒श्रयति
स्वा॒म्
यो॒निम्
Sentence: k
य॒ उ एनँ हिन॒स्ति,
य॒स्
उ
एनम्
हिन॒स्ति
Sentence: l
स्वाँ स यो॒निमृच्छति.
स्वा॒म्
स
यो॒निम्
ऋच्छति
Sentence: m
स पा॒पीयान्भवति,
स
पा॒पीयान्
भवति
Sentence: n
य॒था श्रे॒याँसँ हिँसित्वा.
य॒था
श्रे॒याँसम्
हिँसित्वा
Verse: M24/K12
Sentence: a
स॒ नैव॒ व्यभवत्.
स
न
एव
व्यभवत्
Sentence: b
स वि॒शमसृजत,
स
वि॒शम्
असृजत
Sentence: c
या॒न्येता॒नि देवजाता॒नि गणश॒ आख्याय॒न्ते,
या॒नि
एता॒नि
देवजाता॒नि
गणश॒स्
आख्याय॒न्ते
Sentence: d
व॒सवो रुद्रा॒ आदित्या वि॒श्वे देवा॒ मरु॒त इ॒ति.
व॒सवस्
रुद्रा॒स्
आदित्या॒स्
वि॒श्वे
देवा॒स्
मरु॒तस्
इ॒ति
Verse: M25/K13
Sentence: a
स॒ नैव॒ व्यभवत्.
स
न
एव
व्यभवत्
Sentence: b
स शौ॒द्रं व॒र्णमसृजत पूष॒णम्.
स
शौ॒द्रम्
व॒र्णम्
असृजत
पूष॒णम्
Sentence: c
इयं वै॒ पू॒षेयँ॒ हीदँ स॒र्वं पु॒ष्यति य॒दिदं कि॒ञ्च.
इय॒म्
वै
पूषा
इय॒म्
हि
इद॒म्
स॒र्वम्
पु॒ष्यति
य॒द्
इद॒म्
कि॒ञ्च
Verse: M26/K14
Sentence: a
स॒ नैव॒ व्यभवत्.
स
न
एव
व्यभवत्
Sentence: b
तच्छ्रे॒यो रूपम॒त्यसृजत ध॒र्मं.
त॒द्
श्रे॒यस्
रूप॒म्
अ॒त्यसृजत
ध॒र्मम्
Sentence: c
त॒देत॒त्क्षत्र॒स्य क्षत्रं यद्ध॒र्मस्.
त॒द्
एत॒त्
क्षत्र॒स्य
क्षत्र॒म्
य॒द्
ध॒र्मस्
Sentence: d
त॒स्माद्ध॒र्मात्प॒रं॒ नास्त्य्.
त॒स्माद्
ध॒र्माद्
प॒रम्
न
अस्ति
Sentence: e
अ॒थो अ॒बलीयान्ब॒लीयाँसमा॒शँसते ध॒र्मेण य॒था रा॒ज्ञैवं.
अ॒थ
उ
अ॒बलीयान्
ब॒लीयाँसम्
आ॒शँसते
ध॒र्मेण
य॒था
रा॒ज्ञा
एव॒म्
Sentence: f
यो वै स ध॒र्मः,
य॒स्
वै
स
ध॒र्मस्
Sentence: g
सत्यं वै त॒त्.
सत्य॒म्
वै
त॒द्
Sentence: h
त॒स्मात्सत्यं व॒दन्तमाहुर्:
त॒स्माद्
सत्य॒म्
व॒दन्तम्
आहुर्
Sentence: i
ध॒र्मं वदती॒ति,
ध॒र्मम्
वदति
इ॒ति
Sentence: j
ध॒र्मं वा व॒दन्तँ:
ध॒र्मम्
वा
व॒दन्तम्
Sentence: k
सत्यं॒ वदती॒त्य्;
सत्य॒म्
वदति
इ॒ति
Sentence: l
एत॒द्ध्ये॒वैत॒दुभ॒यं भ॒वति.
एत॒द्
हि
एव
एत॒द्
उभ॒यम्
भ॒वति
Verse: M27/K15
Sentence: a
त॒देतद्ब्र॒ह्म क्षत्रं वि॒ट्शूद्र॒स्.
त॒द्
एत॒द्
ब्र॒ह्म
क्षत्र॒म्
वि॒ट्
शूद्र॒स्
Sentence: b
त॒दग्नि॒नैव॒ देवे॒षु ब्रह्मा॒भवद्,
त॒द्
अग्नि॒ना
एव
देवे॒षु
ब्र॒ह्म
अ॒भवत्
Sentence: c
ब्राह्मणो॒ मनु॒ष्येषु,
ब्राह्मण॒स्
मनु॒ष्येषु
Sentence: d
क्षत्रि॒येण क्षत्रि॒यो,
क्षत्रि॒येण
क्षत्रि॒यस्
Sentence: e
वै॒श्येन वै॒श्यः,
वै॒श्येन
वै॒श्यस्
Sentence: f
शूद्रे॒ण शूद्र॒स्.
शूद्रे॒ण
शूद्र॒स्
Sentence: g
त॒स्मादग्ना॒वेव॒ देवे॒षु लोक॒मिच्छन्ते,
त॒स्माद्
अग्नौ
एव
देवे॒षु
लोक॒म्
इच्छन्ते
Sentence: h
ब्राह्मणे॒ मनु॒ष्येष्व्;
ब्राह्मणे
मनु॒ष्येषु
Sentence: i
एता॒भ्याँ हि॒ रूपा॒भ्यां ब्रह्मा॒भवत्.
एता॒भ्याम्
हि
रूपा॒भ्याम्
ब्र॒ह्म
अ॒भवत्
Verse: M28/K15
Sentence: a
अ॒थ यो॒ ह वा॒ अस्मा॒ल्लोकात्स्वं॒ लोकम॒दृष्ट्वा प्रै॒ति,
अ॒थ
य॒स्
ह
वै
अस्मा॒द्
लोका॒द्
स्व॒म्
लोक॒म्
अ॒दृष्ट्वा
प्रै॒ति
Sentence: b
स॒ एनम॒विदितो न॒ भुनक्ति;
स
एनम्
अ॒विदितस्
न
भुनक्ति
Sentence: c
य॒था वे॒दो वा॒ननूक्तो ऽन्य॒द्वा कर्मा॒कृतं.
य॒था
वे॒दस्
वा
अ॒ननूक्तस्
अन्य॒द्
वा
क॒र्म
अ॒कृतम्
Sentence: d
य॒दि ह वा अप्य॒नेवंविन्महत्पु॒ण्यं क॒र्म करो॒ति,
य॒दि
ह
वै
अ॒पि
अ॒नेवंविद्
महत्पु॒ण्यम्
क॒र्म
करो॒ति
Sentence: e
त॒द्धास्यान्ततः क्षी॒यत ए॒वात्मा॒नमेव॒ लोकमु॒पासीत.
त॒द्
ह
अस्य
अन्तत॒स्
क्षी॒यते
एव
आत्मा॒नमेव
लोक॒म्
उ॒पासीत
Sentence: f
स य॒ आत्मा॒नमेव॒ लोक॒मुपा॒स्ते,
सय॒स्
आत्मा॒नम्
एव
लोक॒म्
उपा॒स्ते
Sentence: g
न॒ हास्य क॒र्म क्षीयते.
न
ह
अस्य
क॒र्म
क्षीयते
Sentence: h
ऽस्मा॒द्ध्ये॒वात्म॒नो य॒द्यत्काम॒यते,
अस्मा॒द्
हि
एव
आत्म॒नस्
य॒द्यद्
काम॒यते
Sentence: i
त॒त्तत्सृजते.
त॒त्तद्
सृजते
Verse: M29/K16
Sentence: a
अ॒थो अयं वा॒ आत्मा स॒र्वेषां भूता॒नां लोकः;
अ॒थ
उ
अय॒म्
वै
आत्मा
स॒र्वेषाम्
भूता॒नाम्
लोक॒स्
Sentence: b
स य॒ज्जुहो॒ति,
स
य॒द्
जुहो॒ति
Sentence: c
यद्य॒जते ते॒न देवा॒नां लोको;
य॒द्
य॒जते
ते॒न
देवा॒नाम्
लोक॒स्
Sentence: d
ऽथ य॒दनुब्रूते,
अ॒थ
य॒द्
अनुब्रूते
Sentence: e
तेन॒र्षीणाम्;
ते॒न
ऋ॒षीणाम्
Sentence: f
अ॒थ य॒त्प्रजा॒मिच्छ॒ते,
अ॒थ
य॒द्
प्रजा॒म्
इच्छ॒ते
Sentence: g
य॒त्पितृ॒भ्यो निपृणा॒ति,
य॒द्
पितृ॒भ्यस्
निपृणा॒ति
Sentence: h
ते॒न पितॄणा॒म्;
ते॒न
पितॄणा॒म्
Sentence: i
अ॒थ य॒न्मनु॒ष्यान्वास॒यते,
अ॒थ
य॒द्
मनु॒ष्यान्
वास॒यते
Sentence: j
य॒देभ्यो॒ ऽशनं द॒दाति,
य॒द्
एभ्यस्
अ॒शनम्
द॒दाति
Sentence: k
ते॒न मनु॒ष्याणाम्;
ते॒न
मनु॒ष्याणाम्
Sentence: l
अ॒थ य॒त्पशु॒भ्यस्तृणोदकं॒ विन्द॒ति,
अ॒थ
य॒द्
पशु॒भ्यस्
तृणोदक॒म्
विन्द॒ति
Sentence: m
ते॒न पशूनां;
ते॒न
पशूना॒म्
Sentence: n
य॒दस्य गृहे॒षु श्वा॒पदा व॒याँस्या॒ पिपी॒लिकाभ्य उपजी॒वन्ति,
य॒द्
अस्य
गृहे॒षु
श्वा॒पदास्
व॒याँसि
आ
पिपी॒लिकाभ्यस्
उपजी॒वन्ति
Sentence: o
ते॒न ते॒षां लोको.
ते॒न
ते॒षाम्
लोक॒स्
Sentence: p
य॒था ह वै स्वा॒य लोकाया॒रिष्टिमिच्छे॒द्,
य॒था
ह
वै
स्वा॒य
लोका॒य
अ॒रिष्टिम्
इच्छे॒त्
Sentence: q
एवँ॒ हैवंवि॒दे सर्वदा स॒र्वाणि भूतान्य॒रिष्टिमिच्छन्ति.
एव॒म्
ह
एवंवि॒दे
सर्वदा
स॒र्वाणि
भूता॒नि
अ॒रिष्टिम्
इच्छन्ति
Sentence: r
तद्वा॒ एत॒द्विदितं॒ मीमाँसित॒म्.
त॒द्
वै
एत॒द्
विदित॒म्
मीमाँसित॒म्
Verse: M30/K17
Sentence: a
आ॒त्मै॒वेदम॒ग्र आसीद्,
आत्मा
एव
इद॒म्
अ॒ग्रे
आसीत्
Sentence: b
ए॒क एव.
ए॒कस्
एव
Sentence: c
सो ऽकामयत:
स॒स्
अकामयत
Sentence: d
जाया॒ मे स्याद्,
जाया
मे
स्यात्
Sentence: e
अ॒थ प्र॒जायेया॒थ वित्तं॒ मे स्याद्,
अ॒थ
प्र॒जायेय
अ॒थ
वित्त॒म्
मे
स्यात्
Sentence: f
अ॒थ क॒र्म कुर्वीये॒त्य्.
अ॒थ
क॒र्म
कुर्वीय
इ॒ति
Sentence: g
एता॒वान्वै का॒मो॒ नेच्छँ॒श्चना॒तो भू॒यो विन्देत्.
एता॒वान्
वै
का॒मस्
न
इच्छ॒न्
चन
अ॒तस्
भू॒यस्
विन्देत्
Sentence: h
त॒स्माद॒प्येत॒र्ह्येकाकी॒ कामयते:
त॒स्माद्
अ॒पि
एत॒र्हि
एकाकी
कामयते
Sentence: i
जाया॒ मे स्याद्,
जाया
मे
स्यात्
Sentence: j
अ॒थ प्र॒जायेया॒थ वित्तं॒ मे स्याद्,
अ॒थ
प्र॒जायेय
अ॒थ
वित्त॒म्
मे
स्यात्
Sentence: k
अ॒थ क॒र्म कुर्वीये॒ति.
अ॒थ
क॒र्म
कुर्वीय
इ॒ति
Sentence: l
स या॒वद॒प्येतेषामे॒कैकं न॒ प्राप्नो॒त्य्,
स
या॒वत्
अ॒पि
एतेषाम्
ए॒कैकम्
न
प्राप्नो॒ति
Sentence: m
अ॒कृत्स्न एव ता॒वन्मन्यते.
अ॒कृत्स्नस्
एव
ता॒वन्
मन्यते
Sentence: n
त॒स्यो कृत्स्न॒ता.
त॒स्य
उ
कृत्स्न॒ता
Verse: M31/K17
Sentence: a
म॒न ए॒वास्यात्मा;
म॒नस्
एव
अस्य
आत्मा
Sentence: b
वा॒ग्जाया;
वा॒क्
जाया
Sentence: c
प्राणः॒ प्रजा;
प्राण॒स्
प्रजा
Sentence: d
च॒क्षुर्मानुषं॒ वित्तं,
च॒क्षुस्
मानुष॒म्
वित्त॒म्
Sentence: e
च॒क्षुषा हि त॒द्विन्द॒ति;
च॒क्षुषा
हि
त॒द्
विन्द॒ति
Sentence: f
श्रो॒त्रं दै॒वं,
श्रो॒त्रम्
दै॒वम्
Sentence: g
श्रो॒त्रेण हि त॒च्छृणो॒त्य्;
श्रो॒त्रेण
हि
त॒द्
शृणो॒ति
Sentence: h
आ॒त्मै॒वास्य क॒र्मात्म॒ना हि क॒र्म करो॒ति.
आत्मा
एव
अस्य
क॒र्म
आत्म॒ना
हि
क॒र्म
करो॒ति
Sentence: i
स॒ एष पा॒ङ्क्तो यज्ञः,
स॒स्
एष
पा॒ङ्क्तस्
यज्ञ॒स्
Sentence: j
पा॒ङ्क्तः पशुः,
पा॒ङ्क्तस्
पशु॒स्
Sentence: k
पा॒ङ्क्तः पु॒रुषः,
पा॒ङ्क्तस्
पु॒रुषस्
Sentence: l
पा॒ङ्क्तमिदँ स॒र्वं य॒दिदं कि॒ञ्च.
पा॒ङ्क्तम्
इद॒म्
स॒र्वम्
य॒द्
इद॒म्
कि॒ञ्च
Sentence: m
त॒दिदँ स॒र्वमाप्नोति,
त॒द्
इद॒म्
स॒र्वम्
आप्नोति
Sentence: n
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.