TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 5
Paragraph: 5
{=
ŚBM
14.4.3.1-34} {=
ŚBK
16.3.5.1-23}
Verse: MK1
Sentence: a
य॒त्सप्ता॒न्नानि मेध॒या
य॒द्
सप्त
अ॒न्नानि
मेध॒या
Sentence: b
त॒पसा॒जनयत्पितै
त॒पसा
अ॒जनयत्
पिता
Sentence: c
कमस्य साधारणं,
ए॒कम्
अस्य
साधारण॒म्
Sentence: d
द्वे॒ देवा॒नभाजयत्.
द्वे
देवा॒न्
अभाजयत्
Sentence: e
त्री॒ण्यात्म॒ने ऽकुरुत,
त्री॒णि
आत्म॒ने
अकुरुत
Sentence: f
पशु॒भ्य ए॒कं प्रा॒यच्छत्;
पशु॒भ्यस्
ए॒कम्
प्रा॒यच्छत्
Sentence: g
त॒स्मिन्त्स॒र्वं प्र॒तिष्ठितं,
त॒स्मिन्
स॒र्वम्
प्र॒तिष्ठितम्
Sentence: h
य॒च्च प्रा॒णिति य॒च्च न.
य॒च्च
प्रा॒णिति
य॒च्च
न
Sentence: i
क॒स्मात्ता॒नि न॒ क्षीयन्ते,
क॒स्माद्
ता॒नि
न
क्षीयन्ते
Sentence: j
ऽद्य॒मानानि सर्वदा.
अद्य॒मानानि
सर्वदा
Sentence: k
यो वै ताम॒क्षितिं वे॒द,
य॒स्
वै
ता॒म्
अ॒क्षितिम्
वे॒द
Sentence: l
सो॒ ऽन्नमत्ति प्र॒तीकेन,
स॒स्
अ॒न्नम्
अत्ति
प्र॒तीकेन
Sentence: m
स॒ देवान॒पिगच्छति,
स
देवा॒न्
अ॒पिगच्छति
Sentence: n
स॒ ऊऋजमु॒पजीवती॒ति श्लो॒काः.
स॒स्
ऊऋजम्
उ॒पजीवति
इ॒ति
श्लो॒कास्
Verse: MK2
Sentence: a
य॒त्सप्ता॒न्नानि मेध॒या त॒पसा॒जनयत्पिते॒ति,
य॒द्
सप्त
अ॒न्नानि
मेध॒या
त॒पसा
अ॒जनयत्
पिता
इ॒ति
Sentence: b
मेध॒या हि त॒पसा॒जनयत्पितै॒कमस्य साधारणमि॒तीद॒मे॒वास्य त॒त्साधारणम॒न्नं,
मेध॒या
हि
त॒पसा
अ॒जनयत्
पिता
ए॒कम्
अस्य
साधारण॒म्
इ॒ति
इद॒म्
एव
अस्य
त॒द्
साधारण॒म्
अ॒न्नम्
Sentence: c
य॒दिद॒मद्य॒ते.
य॒द्
इद॒म्
अद्य॒ते
Sentence: d
स य॒ एत॒दुपा॒स्ते,
स
य॒स्
एत॒द्
उपा॒स्ते
Sentence: e
न स॒ पाप्म॒नो व्या॒वर्तते;
न
स
पाप्म॒नस्
व्या॒वर्तते
Sentence: f
मिश्रँ॒ ह्येत॒त्.
मिश्र॒म्
हि
एत॒द्
Verse: M3/K2
Sentence: a
द्वे॒ देवा॒नभाजयदि॒ति,
द्वे
देवा॒न्
अभाजयत्
इ॒ति
Sentence: b
हुतं॒ च प्र॒हुतं च;
हुत॒म्
च
प्र॒हुतम्
च
Sentence: c
त॒स्माद्देवे॒भ्यो जु॒ह्वति च प्र॒ च जुह्वत्य्.
त॒स्माद्
देवे॒भ्यस्
जु॒ह्वति
च
प्र
च
जुह्वति
Sentence: d
अ॒थो आहुर्:
अ॒थ
उ
आहुर्
Sentence: e
दर्शपूर्णमासावि॒ति.
दर्शपूर्णमासौ
इ॒ति
Sentence: f
त॒स्मा॒न्नेष्टिया॒जुकः स्यात्.
त॒स्माद्
न
इष्टिया॒जुकस्
स्यात्
Verse: M4/K2
Sentence: a
पशु॒भ्य ए॒कं प्रा॒यच्छदि॒ति,
पशु॒भ्यस्
ए॒कम्
प्रा॒यच्छत्
इ॒ति
Sentence: b
तत्प॒यः;
त॒द्
प॒यस्
Sentence: c
प॒यो॒ ह्येवा॒ग्रे मनु॒ष्याश्च पश॒वश्चोपजी॒वन्ति.
प॒यस्
हि
एव
अ॒ग्रे
मनु॒ष्यास्
च
पश॒वस्
च
उपजी॒वन्ति
Sentence: d
त॒स्मात्कुमारं॒ जातं॒ घृतं॒ वैवा॒ग्रे प्रतिलेह॒यन्ति,
त॒स्माद्
कुमार॒म्
जात॒म्
घृत॒म्
वा
एव
अ॒ग्रे
प्रतिलेह॒यन्ति
Sentence: e
स्त॒नं वा॒नुधापयन्ति;
स्त॒नम्
वा
अ॒नुधापयन्ति
Verse: M5/K2
Sentence: a
अ॒थ वत्सं॒ जात॒माहुर्:
अ॒थ
वत्स॒म्
जात॒म्
आहुर्
Sentence: b
अ॒तृणाद इ॒ति.
अ॒तृणादस्
इ॒ति
Sentence: c
त॒स्मिन्त्स॒र्वं प्र॒तिष्ठितं,
त॒स्मिन्
स॒र्वम्
प्र॒तिष्ठितम्
Sentence: d
य॒च्च प्रा॒णिति य॒च्च ने॒ति,
य॒च्च
प्रा॒णिति
य॒च्च
न
इ॒ति
Sentence: e
प॒यसि॒ हीदँ स॒र्वं प्र॒तिष्ठितं,
प॒यसि
हि
इद॒म्
स॒र्वम्
प्र॒तिष्ठितम्
Sentence: f
य॒च्च प्रा॒णिति य॒च्च न.
य॒च्च
प्रा॒णिति
य॒च्च
न
Verse: M6/K2
Sentence: a
तद्य॒दिद॒माहुः:
त॒द्
य॒द्
इद॒म्
आहु॒र्
Sentence: b
संवत्सरं प॒यसा जु॒ह्वद॒प पुनर्मृत्युं॒ जयती॒ति,
संवत्सर॒म्
प॒यसा
जु॒ह्वत्
अ॒प
पुनर्मृत्यु॒म्
जयति
इ॒ति
Sentence: c
न त॒था विद्याद्.
न
त॒था
विद्यात्
Sentence: d
यद॒हरेव॒ जुहो॒ति,
य॒द्
अ॒हर्
एव
जुहो॒ति
Sentence: e
तद॒हः पुनर्मृत्युम॒पजयत्येवं॒ विद्वा॒न्त्;
त॒द्
अ॒हर्
पुनर्मृत्यु॒म्
अ॒पजयति
एव॒म्
विद्वा॒न्
Sentence: f
स॒र्वँ हि॒ देवे॒भ्यो ऽन्ना॒द्यं प्रय॒च्छति.
स॒र्वम्
हि
देवे॒भ्यस्
अन्ना॒द्यम्
प्रय॒च्छति
Sentence: g
क॒स्मात्ता॒नि न॒ क्षीयन्ते ऽद्य॒मानानि स॒र्वदे॒ति.
क॒स्माद्
ता॒नि
न
क्षीयन्ते
अद्य॒मानानि
स॒र्वदा
इ॒ति
Verse: M7/K2
Sentence: a
पु॒रुषो वा अ॒क्षितिः,
पु॒रुषस्
वै
अ॒क्षितिस्
Sentence: b
स॒ हीदम॒न्नं पु॒नःपुनर्जन॒यते.
स
हि
इद॒म्
अ॒न्नम्
पु॒नःपुनर्
जन॒यते
Sentence: c
यो वै ताम॒क्षितिं वेदे॒ति,
य॒स्
वै
ता॒म्
अ॒क्षितिम्
वे॒द
इ॒ति
Sentence: d
पु॒रुषो वा अ॒क्षितिः.
पु॒रुषस्
वै
अ॒क्षितिस्
Sentence: e
स॒ हीदम॒न्नं धिया॒धिया जन॒यते क॒र्मभिर्;
स
हि
इद॒म्
अ॒न्नम्
धिया॒धिया
जन॒यते
क॒र्मभिस्
Sentence: f
य॒द्धैतन्न॒ कुर्या॒त्,
य॒द्
ह
एत॒द्
न
कुर्या॒त्
Sentence: g
क्षी॒येत ह.
क्षी॒येत
ह
Sentence: h
सो॒ ऽन्नमत्ति प्र॒तीकेने॒ति,
स॒स्
अ॒न्नम्
अत्ति
प्र॒तीकेन
इ॒ति
Sentence: i
मु॒खं प्र॒तीकं,
मु॒खम्
प्र॒तीकम्
Sentence: j
मु॒खेने॒त्येत॒त्.
मु॒खेन
इ॒ति
एत॒द्
Sentence: k
स॒ देवान॒पिगच्छति,
स
देवा॒न्
अ॒पिगच्छति
Sentence: l
स ऊ॒र्जमु॒पजीवती॒ति प्रशँसा.
स॒स्
ऊ॒र्जम्
उ॒पजीवति
इ॒ति
प्रशँसा
Verse: M8/K3
Sentence: a
त्री॒ण्यात्म॒ने ऽकुरुते॒ति:
त्री॒णि
आत्म॒ने
अकुरुत
इ॒ति
Sentence: b
म॒नो वा॒चं प्राणं;
म॒नस्
वा॒चम्
प्राण॒म्
Sentence: c
ता॒न्यात्म॒ने ऽकुरुतान्य॒त्रमना अभूवं,
ता॒नि
आत्म॒ने
अकुरुत
अन्य॒त्रमनास्
अभूवम्
Sentence: d
नादर्शम्;
न
अदर्शम्
Sentence: e
अन्य॒त्रमना अभूवं,
अन्य॒त्रमनास्
अभूवम्
Sentence: f
नाश्रौषमि॒ति:
न
अश्रौषम्
इ॒ति
Sentence: g
म॒नसा॒ ह्येव प॒श्यति,
म॒नसा
हि
एव
प॒श्यति
Sentence: h
म॒नसा शृणो॒ति.
म॒नसा
शृणो॒ति
Verse: M9/K3
Sentence: a
का॒मः सङ्कल्पो॒ विचिकित्सा॒ श्रद्धा॒श्रद्धा धृ॒तिर॒धृतिर्ह्रीर्धीर्भीरि॒त्येतत्स॒र्वं म॒न एव.
का॒मस्
सङ्कल्प॒स्
विचिकित्सा
श्रद्धा
अ॒श्रद्धा
धृ॒तिस्
अ॒धृतिस्
ह्री॒स्
धी॒स्
भी॒स्
इ॒ति
एत॒द्
स॒र्वम्
म॒नस्
एव
Sentence: b
त॒स्माद॒पि पृष्ठ॒त उ॒पस्पृष्टो म॒नसा वि॒जानाति.
त॒स्माद्
अ॒पि
पृष्ठ॒तस्
उ॒पस्पृष्टस्
म॒नसा
वि॒जानाति
Verse: M10/K3
Sentence: a
यः क॒श्च श॒ब्दो,
य॒स्
क॒श्च
श॒ब्दस्
Sentence: b
वा॒गेव॒ सैषा ह्य॒न्तं आ॒यत्तैषा हि न.
वा॒क्
एव
सा
एषा
हि
अ॒न्तम्
आ॒यत्ता
एषा
हि
न
Sentence: c
प्रा॒णो ऽपानो॒ व्यान॒ उदानः॒ समा॒नो ऽन इ॒त्येतत्स॒र्वं प्राण॒ ए॒वैतन्म॒यो वा॒ अय॒मात्मा:
प्राण॒स्
अपान॒स्
व्यान॒स्
उदान॒स्
समान॒स्
अन॒स्
इ॒ति
एत॒द्
स॒र्वम्
प्राण॒स्
एव
एतन्म॒यस्
वै
अय॒म्
आत्मा
Sentence: d
वाङ्म॒यो,
वाङ्म॒यस्
Sentence: e
मनोम॒यः,
मनोम॒यस्
Sentence: f
प्राणम॒यः.
प्राणम॒यस्
Verse: M11/K4
Sentence: a
त्र॒यो लोका॒ एत॒ एव:
त्र॒यस्
लोका॒स्
एते
एव
Sentence: b
वा॒गे॒वायं॒ लोको,
वा॒क्
एव
अय॒म्
लोक॒स्
Sentence: c
म॒नो ऽन्तरिक्षलोकः,
म॒नस्
अन्तरिक्षलोक॒स्
Sentence: d
प्रा॒णो ऽसौ॒ लोकः.
प्राण॒स्
असौ
लोक॒स्
Verse: M12/K5
Sentence: a
त्र॒यो वे॒दा एत॒ एव:
त्र॒यस्
वे॒दास्
एते
एव
Sentence: b
वा॒गे॒वर्ग्वेदो,
वा॒क्
एव
ऋग्वेद॒स्
Sentence: c
म॒नो यजुर्वेदः,
म॒नस्
यजुर्वेद॒स्
Sentence: d
प्राणः॒ सामवेदः.
प्राण॒स्
सामवेद॒स्
Verse: M13/K6
Verse: MK1
Sentence: a
देवा॒ पित॒रो मनु॒ष्या एत॒ एव: वा॒गेव॒ देवा, म॒नः पित॒रः, प्राणो॒ मानु॒ष्याः.
देवा॒स्
पित॒रस्
मनु॒ष्यास्
एते
एव
वा॒क्
एव
देवा॒स्
म॒नस्
पित॒रस्
प्राण॒स्
मानु॒ष्यास्
Verse: M14/K7
Sentence: a
पिता॒ माता॒ प्र॒जैत॒ एव:
पिता
माता
प्रजा
एते
एव
Sentence: b
म॒न एव॒ पिता,
म॒नस्
एव
पिता
Sentence: c
वा॒ङ्माता,
वा॒क्
माता
Sentence: d
प्राणः॒ प्रजा.
प्राण॒स्
प्रजा
Verse: M15/K8
Sentence: a
वि॒ज्ञातं विजिज्ञा॒स्यम॒विज्ञातमेत॒ एव:
वि॒ज्ञातम्
विजिज्ञा॒स्यम्
अ॒विज्ञातम्
एते
एव
Sentence: b
यत्कि॒ञ्च वि॒ज्ञातं वाचस्त॒द्रूपं:
य॒द्
कि॒ञ्च
वि॒ज्ञातम्
वाच॒स्
त॒द्
रूप॒म्
Sentence: c
वाग्घि वि॒ज्ञाता,
वा॒क्
हि
वि॒ज्ञाता
Sentence: d
वा॒गेनं त॒द्भू॒त्वावति.
वा॒क्
एनम्
त॒द्
भूत्वा
अवति
Verse: M16/K9
Sentence: a
यत्कि॒ञ्च विजिज्ञा॒स्यं म॒नसस्त॒द्रूपं:
य॒द्
कि॒ञ्च
विजिज्ञा॒स्यम्
म॒नसस्
त॒द्
रूप॒म्
Sentence: b
म॒नो हि॒ विजिज्ञा॒स्यं,
म॒नस्
हि
विजिज्ञा॒स्यम्
Sentence: c
म॒न एनं त॒द्भू॒त्वावति.
म॒नस्
एनम्
त॒द्
भूत्वा
अवति
Verse: M17/K10
Sentence: a
यत्किञ्चा॒विज्ञातं प्राण॒स्य त॒द्रूपं:
य॒द्
कि॒ञ्च
अ॒विज्ञातम्
प्राण॒स्य
त॒द्
रूप॒म्
Sentence: b
प्राणो ह्य॒विज्ञातः,
प्राण॒स्
हि
अ॒विज्ञातस्
Sentence: c
प्राण॒ एनं त॒द्भू॒त्वावति.
प्राण॒स्
एनम्
त॒द्
भूत्वा
अवति
Verse: M18/K11
Sentence: a
त॒स्यै वाचः॒ पृथिवी श॒रीरं,
त॒स्यै
वाच॒स्
पृथिवी
श॒रीरम्
Sentence: b
ज्यो॒ती रूप॒मय॒मग्नि॒स्.
ज्यो॒तिस्
रूप॒म्
अय॒म्
अग्नि॒स्
Sentence: c
तद्या॒वत्येव वा॒क्,
त॒द्
या॒वती
एव
वा॒क्
Sentence: d
ता॒वती पृथिवी,
ता॒वती
पृथिवी
Sentence: e
ता॒वानय॒मग्निः.
ता॒वान्
अय॒म्
अग्नि॒स्
Verse: M19/K12
Sentence: a
अ॒थैत॒स्य म॒नसो द्यौः श॒रीरं,
अ॒थ
एत॒स्य
म॒नसस्
द्यौ॒स्
श॒रीरम्
Sentence: b
ज्यो॒ती रूप॒मसा॒वादित्य॒स्.
ज्यो॒तिस्
रूप॒म्
असौ
आदित्य॒स्
Sentence: c
तद्या॒वदेव म॒नस्ता॒वती द्यौ॒स्,
त॒द्
या॒वत्
एव
म॒नस्
ता॒वती
द्यौ॒स्
Sentence: d
ता॒वानसा॒वादित्य॒स्.
ता॒वान्
असौ
आदित्य॒स्
Sentence: e
तौ॒ मिथुनँ स॒मैतां.
तौ
मिथुन॒म्
स॒मैताम्
Sentence: f
त॒तः प्रा॒णो ऽजायत.
त॒तस्
प्राण॒स्
अजायत
Sentence: g
स इ॒न्द्रः,
स॒स्
इ॒न्द्रस्
Sentence: h
स॒ ए॒षो ऽसपत्नो.
स॒स्
एष॒स्
असपत्न॒स्
Sentence: i
द्विती॒यो वै॒ सप॒त्नो.
द्विती॒यस्
वै
सप॒त्नस्
Sentence: j
नास्य सप॒त्नो भवति,
न
अस्य
सप॒त्नस्
भवति
Sentence: k
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M20/K13
Sentence: a
अ॒थैत॒स्य प्राणस्या॒पः श॒रीरं,
अ॒थ
एत॒स्य
प्राण॒स्य
आ॒पस्
श॒रीरम्
Sentence: b
ज्यो॒ती रूप॒मसौ॒ चन्द्र॒स्.
ज्यो॒तिस्
रूप॒म्
असौ
चन्द्र॒स्
Sentence: c
तद्या॒वानेव॒ प्राण॒स्,
त॒द्
या॒वान्
एव
प्राण॒स्
Sentence: d
ता॒वत्य आ॒पस्,
ता॒वत्यस्
आ॒पस्
Sentence: e
ता॒वानसौ॒ चन्द्रः.
ता॒वान्
असौ
चन्द्र॒स्
Verse: M21/K13
Sentence: a
त॒ एते स॒र्व एव॒ समाः,
ते
एते
स॒र्वे
एव
समा॒स्
Sentence: b
स॒र्वे ऽनन्ताः.
स॒र्वे
अनन्ता॒स्
Sentence: c
स यो॒ हैतान॒न्तवत उपास्ते,
स
य॒स्
ह
एता॒न्
अ॒न्तवतस्
उपा॒स्ते
Sentence: d
ऽन्तवन्तँ स॒ लोकं॒ जयत्य्;
अ॒न्तवन्तम्
स
लोक॒म्
जयति
Sentence: e
अ॒थ यो॒ हैता॒ननन्ता॒नुपा॒स्ते,
अ॒थ
य॒स्
ह
एता॒न्
अनन्ता॒न्
उपा॒स्ते
Sentence: f
ऽनन्तँ स॒ लोकं॒ जयति.
अनन्त॒म्
स
लोक॒म्
जयति
Verse: M22/K14
Sentence: a
स॒ एष॒ संवत्सरः॒ प्रजा॒पतिष्षो॒डशकलस्.
स॒स्
एष
संवत्सर॒स्
प्रजा॒पतिस्
षो॒डशकलस्
Sentence: b
त॒स्य रा॒त्रय एव प॒ञ्चदश कला;
त॒स्य
रा॒त्रयस्
एव
प॒ञ्चदश
कला॒स्
Sentence: c
ध्रु॒वै॒वास्य षोडशी॒ कला.
ध्रुवा
एव
अस्य
षोडशी
कला
Sentence: d
स रा॒त्रिभिरेवा॒ च पूर्यते,
स
रा॒त्रिभिस्
एव
आ
च
पूर्यते
Sentence: e
ऽप च क्षीयते.
अ॒प
च
क्षीयते
Sentence: f
सो ऽमावा॒स्याँ रा॒त्रिमेत॒या षोडश्या॒ कल॒या स॒र्वमिदं॒ प्राणभृ॒दनुप्रवि॒श्य,
स॒स्
अमावा॒स्याम्
रा॒त्रिम्
एत॒या
षोडश्या
कल॒या
स॒र्वम्
इद॒म्
प्राणभृ॒त्
अनुप्रवि॒श्य
Sentence: g
त॒तः प्रात॒र्जायते.
त॒तस्
प्रात॒र्
जायते
Sentence: h
त॒स्मादेताँ रा॒त्रिं प्राणभृ॒तः प्राणं न वि॒च्छिन्द्याद॒पि कृकलास॒स्यैत॒स्या एव॒ देव॒ताया अ॒पचित्यै.
त॒स्माद्
एता॒म्
रा॒त्रिम्
प्राणभृ॒तस्
प्राण॒म्
न
वि॒च्छिन्द्यात्
अ॒पि
कृकलास॒स्य
एत॒स्यास्
एव
देव॒तायास्
अ॒पचित्यै
Verse: M23/K15
Sentence: a
यो वै स॒ संवत्सरः॒ प्रजा॒पतिष्षो॒डशकालो,
य॒स्
वै
स
संवत्सर॒स्
प्रजा॒पतिस्
षो॒डशकालस्
Sentence: b
ऽय॒मेव स॒ यो ऽय॒मेवंवित्पु॒रुषस्.
अय॒म्
एव
स
य॒स्
अय॒म्
एवंवि॒द्
पु॒रुषस्
Sentence: c
त॒स्य वित्त॒मेव प॒ञ्चदश कला:
त॒स्य
वित्त॒म्
एव
प॒ञ्चदश
कला॒स्
Sentence: d
आ॒त्मै॒वास्य षोडशी॒ कला.
आत्मा
एव
अस्य
षोडशी
कला
Sentence: e
स॒ वित्ते॒नैवा॒ च पूर्यते,
स
वित्ते॒न
एव
आ
च
पूर्यते
Sentence: f
ऽप च क्षीयते.
अ॒प
च
क्षीयते
Sentence: g
त॒देतन्न॒भ्यं य॒दय॒मात्मा,
त॒द्
एत॒द्
न॒भ्यम्
य॒द्
अय॒म्
आत्मा
Sentence: h
प्रधि॒र्वित्तं.
प्रधि॒स्
वित्त॒म्
Sentence: i
त॒स्माद्य॒दि अ॒पि सर्वज्यानिं जी॒यत,
त॒स्माद्
य॒दि
अ॒पि
सर्वज्यानि॒म्
जी॒यते
Sentence: j
आत्म॒ना चेज्जी॒वति,
आत्म॒ना
चे॒द्
जी॒वति
Sentence: k
प्रधि॒नागादि॒त्याहुः.
प्रधि॒ना
अगात्
इ॒ति
आहुर्
Verse: M24/K16
Sentence: a
अ॒थ त्र॒यो वाव॒ लोका:
अ॒थ
त्र॒यस्
वाव
लोका॒स्
Sentence: b
मनुष्यलोकः,
मनुष्यलोक॒स्
Sentence: c
पितृलोको,
पितृलोक॒स्
Sentence: d
देवलोक इ॒ति.
देवलोक॒स्
इ॒ति
Sentence: e
सो ऽयं॒ मनुष्यलोकः॒ पुत्रे॒णैव ज॒य्यो,
स॒स्
अय॒म्
मनुष्यलोक॒स्
पुत्रे॒ण
एव
ज॒य्यस्
Sentence: f
नान्ये॒न क॒र्मणा;
न
अन्ये॒न
क॒र्मणा
Sentence: g
क॒र्मणा पितृलोको;
क॒र्मणा
पितृलोक॒स्
Sentence: h
विद्य॒या देवलोको.
विद्य॒या
देवलोक॒स्
Sentence: i
देवलोको वै॒ लोका॒नाँ श्रे॒ष्ठस्;
देवलोक॒स्
वै
लोका॒नाम्
श्रे॒ष्ठस्
Sentence: j
त॒स्माद्विद्यां प्र॒शँसन्ति.
त॒स्माद्
विद्या॒म्
प्र॒शँसन्ति
Verse: M25/K17
Sentence: a
अथा॒तः सम्प्र॒त्तिर्.
अ॒थ
अ॒तस्
सम्प्र॒त्तिस्
Sentence: b
यदा॒ प्रैष्यन्म॒न्यते,
यदा
प्रैष्य॒न्
म॒न्यते
Sentence: c
ऽथ पुत्र॒माह:
अ॒थ
पुत्र॒म्
आह
Sentence: d
त्वं ब्र॒ह्म,
त्व॒म्
ब्र॒ह्म
Sentence: e
त्वं॒ यज्ञ॒स्,
त्व॒म्
यज्ञ॒स्
Sentence: f
त्वं॒ लोक इ॒ति.
त्व॒म्
लोक॒स्
इ॒ति
Sentence: g
स॒ पुत्रः प्र॒त्याहाहं ब्र॒ह्माहं॒ य॒ज्ञो,
स
पुत्र॒स्
प्र॒त्याह
अह॒म्
ब्र॒ह्म
अह॒म्
यज्ञ॒स्
Sentence: h
ऽह॒म्लोक इ॒ति.
अह॒म्
लोक॒स्
इ॒ति
Verse: M26/K17
Sentence: a
यद्वै किञ्चा॒नूक्तं,
य॒द्
वै
कि॒ञ्च
अ॒नूक्तम्
Sentence: b
त॒स्य स॒र्वस्य ब्रह्मे॒त्येक॒ता.
त॒स्य
स॒र्वस्य
ब्र॒ह्म
इ॒ति
एक॒ता
Sentence: c
ये वै के॒च यज्ञा॒स्,
ये
वै
के॒च
यज्ञा॒स्
Sentence: d
ते॒षाँ स॒र्वेषां यज्ञ इ॒त्येक॒ता.
ते॒षाम्
स॒र्वेषाम्
यज्ञ॒स्
इ॒ति
एक॒ता
Sentence: e
ये वै के॒च लोका॒स्,
ये
वै
के॒च
लोका॒स्
Sentence: f
ते॒षाँ स॒र्वेषां लोक इ॒त्येक॒तैता॒वद्वा॒ इदँ स॒र्वं:
ते॒षाम्
स॒र्वेषाम्
लोक॒स्
इ॒ति
एक॒ता
एता॒वत्
वै
इद॒म्
स॒र्वम्
Sentence: g
एत॒न्मा स॒र्वँ स॒न्नय॒मितो॒ भुनजदि॒ति.
एत॒द्
मा
स॒र्वम्
स॒न्
अय॒म्
इत॒स्
भुनजत्
इ॒ति
Sentence: h
त॒स्मात्पुत्रम॒नुशिष्टं लो॒क्यमाहुस्,
त॒स्माद्
पुत्र॒म्
अ॒नुशिष्टम्
लो॒क्यम्
आहुर्
Sentence: i
त॒स्मादेनम॒नुशासति.
त॒स्माद्
एनम्
अ॒नुशासति
Sentence: j
स॒ य॒दैवंवि॒दस्मा॒ल्लोकात्प्रै॒त्य्,
स
यदा
एवंवि॒द्
अस्मा॒द्
लोका॒द्
प्रै॒ति
Sentence: k
अ॒थैभि॒रेव॒ प्राणैः॒ सह॒ पुत्रमा॒विशति.
अ॒थ
एभि॒स्
एव
प्राणै॒स्
सह
पुत्र॒म्
आ॒विशति
Sentence: l
स य॒द्यने॒न कि॒ञ्चिदक्ष्णया॒ कृतं भ॒वति,
स
य॒दि
अने॒न
कि॒ञ्चिद्
अक्ष्णया
कृत॒म्
भ॒वति
Sentence: m
त॒स्मादेनँ स॒र्वस्मात्पुत्रो॒ मुञ्चति.
त॒स्माद्
एनम्
स॒र्वस्माद्
पुत्र॒स्
मुञ्चति
Sentence: n
त॒स्मात्पुत्रो ना॒म.
त॒स्माद्
पुत्र॒स्
ना॒म
Sentence: o
स॒ पुत्रे॒णै॒वास्मिल्लोके प्र॒तितिष्ठत्य्,
स
पुत्रे॒णा
एव
अस्मिन्
लोके
प्र॒तितिष्ठति
Sentence: p
अ॒थैनमेते॒ देवाः॒ प्राणा॒ अमृ॒ता आ॒विशन्ति.
अ॒थ
एनम्
एते
देवा॒स्
प्राणा॒स्
अमृ॒तास्
आ॒विशन्ति
Verse: M27/K18
Sentence: a
पृथिव्यै॒ चैनमग्ने॒श्च दै॒वी वागा॒विशति.
पृथिव्यै
च
एनम्
अग्ने॒स्
च
दै॒वी
वा॒क्
आ॒विशति
Sentence: b
सा वै दै॒वी वाग्य॒या,
सा
वै
दै॒वी
वा॒क्
य॒या
Sentence: c
य॒द्यदेव व॒दति,
य॒द्यद्
एव
व॒दति
Sentence: d
त॒त्तद्भवति.
त॒त्तद्
भवति
Verse: M28/K19
Sentence: a
दिव॒श्चैनमादित्या॒च्च दै॒वं म॒न आ॒विशति.
दिव॒स्
च
एनम्
आदित्या॒द्
च
दै॒वम्
म॒नस्
आ॒विशति
Sentence: b
तद्वै दै॒वं म॒नो ये॒नान॒न्द्येव भ॒वत्य्,
त॒द्
वै
दै॒वम्
म॒नस्
ये॒न
आनन्दी
एव
भ॒वति
Sentence: c
अ॒थो न॒ शोचति.
अ॒थ
उ
न
शोचति
Verse: M29/K20
Sentence: a
अद्भ्य॒श्चैनं चन्द्र॒मसश्च दै॒वः प्राण आ॒विशति.
अद्भ्य॒स्
च
एनम्
चन्द्र॒मसस्
च
दै॒वस्
प्राण॒स्
आ॒विशति
Sentence: b
स वै दै॒वः प्राणो यः॒ संच॒रँश्चा॒संचरँश्च न व्य॒थते,
स
वै
दै॒वस्
प्राण॒स्
य॒स्
संच॒रन्
च
अ॒संचरन्
च
न
व्य॒थते
Sentence: c
ऽथो न रि॒ष्यति.
अ॒थ
उ
न
रि॒ष्यति
Sentence: d
स॒ एष॒ एवंवित्स॒र्वेषां भूता॒नामात्मा॒ भवति.
स॒स्
एष
एवंवि॒द्
स॒र्वेषाम्
भूता॒नाम्
आत्मा
भवति
Sentence: e
य॒थैषा॒ देव॒तैवँ स.
य॒था
एषा
देव॒ता
एव॒म्
स
Sentence: f
य॒थैतां॒ देव॒ताँ स॒र्वाणि भूतान्य॒वन्त्य्,
य॒था
एता॒म्
देव॒ताम्
स॒र्वाणि
भूता॒नि
अ॒वन्ति
Sentence: g
एवँ॒ हैवंवि॒दँ स॒र्वाणि भूता॒न्यवन्ति.
एव॒म्
ह
एवंवि॒दम्
स॒र्वाणि
भूता॒नि
अवन्ति
Sentence: h
य॒दु कि॒ञ्चेमाः॒ प्रजाः शो॒चन्त्य्,
य॒द्
उ
कि॒ञ्च
इमा॒स्
प्रजा॒स्
शो॒चन्ति
Sentence: i
अ॒मै॒वासां त॒द्भवति,
अमा
एव
आसाम्
त॒द्
भवति
Sentence: j
पु॒ण्यमे॒वामुं॒ गच्छति,
पु॒ण्यम्
एव
अमु॒म्
गच्छति
Sentence: k
न॒ ह वै॒ देवा॒न्पापं॒ गच्छति.
न
ह
वै
देवा॒न्
पाप॒म्
गच्छति
Verse: M30/K21
Sentence: a
अथा॒तो व्रतमीमाँसा.
अ॒थ
अ॒तस्
व्रतमीमाँसा
Sentence: b
प्रजा॒पतिर्ह क॒र्माणि ससृजे.
प्रजा॒पतिस्
ह
क॒र्माणि
ससृजे
Sentence: c
ता॒नि सृष्टा॒न्य॒न्यो ऽन्ये॒नास्पर्धन्त:
ता॒नि
सृष्टा॒नि
अन्य॒स्
अन्ये॒न
अस्पर्धन्त
Sentence: d
वदिष्या॒म्ये॒वाहमि॒ति वा॒ग्दध्रे;
वदिष्या॒मि
एव
अह॒म्
इ॒ति
वा॒क्
दध्रे
Sentence: e
द्रक्ष्या॒म्यहमि॒ति च॒क्षुः;
द्रक्ष्या॒मि
अह॒म्
इ॒ति
च॒क्षुस्
Sentence: f
श्रोष्या॒म्यहमि॒ति श्रो॒त्रम्;
श्रोष्या॒मि
अह॒म्
इ॒ति
श्रो॒त्रम्
Sentence: g
एव॒मन्या॒नि क॒र्माणि यथाकर्म॒म्.
एव॒म्
अन्या॒नि
क॒र्माणि
यथाकर्म॒म्
Verse: M31/K21
Sentence: a
ता॒नि मृत्युः श्र॒मो भूत्वो॒पयेमे,
ता॒नि
मृत्यु॒स्
श्र॒मस्
भूत्वा
उ॒पयेमे
Sentence: b
ता॒न्याप्नोत्;
ता॒नि
आप्नोत्
Sentence: c
ता॒न्याप्त्वा॒ मृत्युर॒वारुन्द्ध.
ता॒नि
आप्त्वा
मृत्यु॒र्
अ॒वारुन्द्ध
Sentence: d
त॒स्माच्छ्रा॒म्यत्येव वा॒क्,
त॒स्माद्
श्रा॒म्यति
एव
वा॒क्
Sentence: e
श्रा॒म्यति च॒क्षुः,
श्रा॒म्यति
च॒क्षुस्
Sentence: f
श्रा॒म्यति श्रो॒त्रम्.
श्रा॒म्यति
श्रो॒त्रम्
Sentence: g
अ॒थेम॒मेव॒ नाप्नोद्,
अ॒थ
इम॒म्
एव
न
आप्नोत्
Sentence: h
यो ऽयं॒ मध्यमः॒ प्राणः.
य॒स्
अय॒म्
मध्यम॒स्
प्राण॒स्
Verse: M32/K21
Sentence: a
ता॒नि ज्ञा॒तुं दध्रिरे:
ता॒नि
ज्ञा॒तुम्
दध्रिरे
Sentence: b
ऽयं वै॒ नः श्रे॒ष्ठो यः॒ संच॒रंश्चा॒संचरंश्च न व्य॒थते,
अय॒म्
वै
नस्
श्रे॒ष्ठस्
य॒स्
संच॒रन्
च
अ॒संचरन्
च
न
व्य॒थते
Sentence: c
ऽथो न रि॒ष्यति.
अ॒थ
उ
न
रि॒ष्यति
Sentence: d
ह॒न्तास्यैव स॒र्वे रूपं भ॒वामे॒ति.
ह॒न्त
अस्य
एव
स॒र्वे
रूप॒म्
भ॒वाम
इ॒ति
Sentence: e
त॒ एत॒स्यैव स॒र्वे रूप॒मभवन्स्.
ते
एत॒स्य
एव
स॒र्वे
रूप॒म्
अभवन्
Sentence: f
त॒स्मादेत॒ एतेना॒ख्यायन्ते प्राणा इ॒ति.
त॒स्माद्
एते
एते॒न
आ॒ख्यायन्ते
प्राणा॒स्
इ॒ति
Sentence: g
ते॒न ह वाव तत्कु॒लमा॒चक्षते,
ते॒न
ह
वाव
त॒द्
कु॒लम्
आ॒चक्षते
Sentence: h
य॒स्मिन्कु॒ले भ॒वति य॒ एवं वे॒द.
य॒स्मिन्
कु॒ले
भ॒वति
य॒स्
एव॒म्
वे॒द
Sentence: i
य॒ उ हैवंवि॒दा स्प॒र्धते
K
add
.
ऽनुशुष्यत्य्,
य॒स्
उ
ह
एवंवि॒दा
स्प॒र्धते
K
add
.
अनुशुष्यति
Sentence: j
अनुशु॒ष्य है॒वान्ततो॒ म्रियत.
अनुशु॒ष्य
ह
एव
अन्तत॒स्
म्रियते
Sentence: k
इ॒त्यध्यात्म॒म्.
इ॒ति
अध्यात्म॒म्
Verse: M33/K22
Sentence: a
अ॒थाधिदेवतं:
अ॒थ
अधिदेवत॒म्
Sentence: b
ज्वलिष्या॒म्ये॒वाहमि॒त्यग्नि॒र्दध्रे;
ज्वलिष्या॒मि
एव
अह॒म्
इ॒ति
अग्नि॒स्
दध्रे
Sentence: c
तप्स्या॒म्यहमि॒त्यादित्यो;
तप्स्या॒मि
अह॒म्
इ॒ति
आदित्य॒स्
Sentence: d
भास्या॒म्यहमि॒ति चन्द्र॒मा;
भास्या॒मि
अह॒म्
इ॒ति
चन्द्र॒मास्
Sentence: e
एव॒मन्या॒ देव॒ता यथादेवतँ.
एव॒म्
अन्या॒स्
देव॒तास्
यथादेवत॒म्
Sentence: f
स य॒थैषां॒ प्राणा॒नां मध्यमः॒ प्राण,
स
य॒था
एषा॒म्
प्राणा॒नाम्
मध्यम॒स्
प्राण॒स्
Sentence: g
एव॒मेता॒सां देव॒तानां वायु॒र्.
एव॒म्
एता॒साम्
देव॒तानाम्
वायु॒स्
Sentence: h
म्लो॒चन्ति॒ ह्यन्या॒ देव॒ता,
म्लो॒चन्ति
हि
अन्या॒स्
देव॒तास्
Sentence: i
न॒ वायुः.
न
वायु॒स्
Sentence: j
सैषा॒नस्तमिता देव॒ता य॒द्वायुः.
सा
एषा
अ॒नस्तमिता
देव॒ता
य॒द्
वायु॒स्
Verse: M34/K23
Sentence: a
अ॒थैष श्लो॒को भवति:
अ॒थ
एष
श्लो॒कस्
भवति
Sentence: b
य॒तश्चोदे॒ति सूर्यो,
य॒तस्
च
उदे॒ति
सू॒र्यस्
Sentence: c
ऽस्तं य॒त्र च ग॒च्छती॒ति
अ॒स्तम्
य॒त्र
च
ग॒च्छति
इ॒ति
Sentence: d
प्राणाद्वा॒ एष उ॒देति,
प्राणा॒द्
वै
एष
उ॒देति
Sentence: e
प्राणे॒ ऽस्तमेति
प्राणे
अ॒स्तम्
एति
Sentence: f
तं॒ देवा॒श्चक्रिरे ध॒र्मँ,
त॒म्
देवा॒स्
चक्रिरे
ध॒र्मम्
Sentence: g
स॒ ए॒वाद्य,
स॒स्
एव
अद्य
Sentence: h
स॒ उ श्व इ॒ति.
स॒स्
उ
श्व॒स्
इ॒ति
Sentence: i
यद्वा॒ ए॒ते ऽमुर्ह्य॒ध्रियन्त,
य॒द्
वै
एते
अमु॒र्हि
अ॒ध्रियन्त
Sentence: j
त॒देवा॒प्यद्य॒ कुर्वन्ति.
त॒द्
एव
अ॒पि
अद्य
कुर्वन्ति
Sentence: k
त॒स्मादे॒कमेव॒ व्रतं॒ चरेत्.
त॒स्माद्
ए॒कम्
एव
व्रत॒म्
चरेत्
Sentence: l
प्रा॒ण्याच्चै॒वापान्या॒च्च:
प्रा॒ण्याद्
च
एव
अपान्या॒द्
च
Sentence: m
ने॒न्मा पाप्मा॒ मृत्यु॒राप्नवदि॒ति.
ने॒द्
मा
पाप्मा
मृत्यु॒स्
आप्नवत्
इ॒ति
Sentence: n
य॒द्यु च॒रेत्,
य॒दि
उ
च॒रेत्
Sentence: o
स॒मापिपयिषेत्.
स॒मापिपयिषेत्
Sentence: p
ते॒नो एत॒स्यै देव॒तायै सा॒युज्यँ सलोक॒तां जयति,
ते॒न
उ
एत॒स्यै
देव॒तायै
सा॒युज्यम्
सलोक॒ताम्
जयति
Sentence: q
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.