TITUS
Asvaghosa, Buddhacarita
Part No. 17
Previous part

Ucchvasa: 17 
Strophe in ed. EBC: 1 
Verse: a     शा॑क्यसिंहोदितं धर्ममाहात्म्यकं ब्रह्ममुख्याः सुरा बोधिसत्त्वास्तपस्यापरे ।
   
शा॑क्यसिंहोदितम् धर्ममाहात्म्यकम् ब्रह्ममुख्याः सुरा बोधिसत्त्वाः तपस्यापरे

Verse: b    
ते॑ समाकर्ण्य दुर्लभ्यमेतत्पुनः श्रोतुकामाः पुरं जग्मुरेवं प्रसाद्यार्चयन् ।
   
ते समाकर्ण्य दुर्लभ्यम् एतत् पुनः श्रोतुकामाः पुरम् जग्मुः एवम् प्रसाद्य अर्चयन्

Verse: c    
कृ॑ष्ण आषाढमासे तिथावग्निदैवे च भो कर्णसंज्ञे च चंद्रे दिने सत्क्षणे ।
   
कृ॑ष्णे आषाढमासे तिथावग्निदैवे भो कर्णसंज्ञे चन्द्रे दिने सत्क्षणे

Verse: d    
बु॑द्धलोकाननुस्मृत्य सर्वाञ्चनानुद्धरिष्णुः प्रजास्तातपूर्वाः समिच्छन्प्रतस्थे ।। १७.१ ।।
   
बु॑द्धलोकाननुस्मृत्य सर्वाञ्चनान् उद्धरिष्णुः प्रजास्तातपूर्वाः समिच्छन् प्रतस्थे ।। १७.१ ।।

Strophe in ed. EBC: 2 
Verse: a    
मृ॑गवनगतकाशिकान्वागता ब्राह्मणा गोष्ठिकास्त्रिंशसंख्येयका भिक्षवः श्रीमुनींद्राद्बभुः ।
   
मृ॑गवनगतकाशिकान्वागता ब्राह्मणा गोष्ठिकाः त्रिंशसंख्येयकाः भिक्षवः श्रीमुनीन्द्रात् बभुः

Verse: b    
त्रि॑दिवभुवनमागमत्काशिका काशिदेशीयवेश्यार्चयित्वा जिनं संनियोज्यात्मजाञ्छ्रीघने ।
   
त्रि॑दिवभुवनम् आगमत् काशिका काशिदेशीयवेश्यार्चयित्वा जिनम् संनियोज्यात्मजाञ्छ्रीघने

Verse: c    
मु॑दितहृदययाज्ञकान्काशिदेशीयकांस्त्रिंशतः श्रावकांल्लोकजित्प्राकरोद्बोधिचर्यां ददन् ।
   
मु॑दितहृदययाज्ञकान् काशिदेशीयकान् त्रिंशतः श्रावकान् लोकजित् प्राकरोत् बोधिचर्याम् ददन्

Verse: d    
द्वि॑जगणगुरुमैत्रमैत्रायणीपुत्रपूर्णाभिधः प्राप्य बोधिं बभूवार्यभिक्षुर्मुनींद्रादथो ।। १७.२ ।।
   
द्वि॑जगणगुरुमैत्रमैत्रायणीपुत्रपूर्णाभिधः प्राप्य बोधिम् बभूव आर्यभिक्षुः मुनीन्द्रात् अथः ।। १७.२ ।।

Strophe in ed. EBC: 3 
Verse: a    
म॑रकतनिगमावनीपालयष्टा ऽजयाख्यो द्विजस्तत्सुतो नालकाख्यः श्रुतिं धारकः सोत्तरः ।
   
म॑रकतनिगमावनीपालयष्टा अजयाख्यः द्विजः तत् सुतः नालकाख्यः श्रुतिम् धारकः उत्तरः

Verse: b    
धृ॑तिसमभिधतापसो विंध्यवासी तथा चाजितः संजयी शिष्यवर्गान्वितो ब्राह्मणस्तापसः ।
   
धृ॑तिसमभिधतापसः विन्ध्यवासी तथा अजितः संजयी शिष्यवर्गान्वितः ब्राह्मणस्तापसः

Verse: c    
श॑रणमभिगतान्मुनींद्रो ऽकरोत्तांश्च भिक्षून्करेण स्पृशंश्चक्रचिह्नेन विंध्याचले वासिनः ।
   
श॑रणम् अभिगतान् मुनीन्द्रः अकरोत् तान् भिक्षून् करेण स्पृशन् चक्रचिह्नेन विन्ध्याचले वासिनः

Verse: d    
मु॑निवरपदमाश्रितश्चैलपत्रो ऽपि नागो बभौ शांतचर्यान्वितो रस्नमालाभिरर्चयन्सन्? ।। १७.३ ।।
   
मु॑निवरपदम् आश्रितः चैलपत्रः अपि नागः बभौ शान्तचर्यान्वितः रस्नमालाभिः अर्चयन्सन् ? ।। १७.३ ।।

Strophe in ed. EBC: 4 
Verse: a    
त्रि॑कव्यंगिका नाम संन्यासिका माथुरीया च विद्याकराख्यश्च विप्रो बभूव ।
   
त्रि॑कव्यङ्गिका नाम संन्यासिका माथुरीया विद्याकराख्यः विप्रः बभूव

Verse: b    
त॑योरात्मजः श्वेतबालार्कदेशीयसभ्याभिधो ब्रह्मचारी सुविज्ञो ऽभिमानी ।
   
त॑योः आत्मजः श्वेतबालार्कदेशीयसभ्याभिधः ब्रह्मचारी सुविज्ञः अभिमानी

Verse: c    
व॑ने मार्गदावे गतश्चोत्तराद्भिक्षुवर्याद्विबुद्धोपमानि महाबोधिकामः ।
   
व॑ने मार्गदावे गतः उत्तरात् भिक्षुवर्यात् विबुद्धोपमानि महाबोधिकामः

Verse: d    
स॑ सर्वज्ञमभ्यर्थयन्नार्यचर्यां बभूवोत्तमः सभ्यभिक्षुः प्रसिद्धः सभासु ।। १७.४ ।।
   
सर्वज्ञम् अभ्यर्थयन् आर्यचर्याम् बभूव उत्तमः सभ्यभिक्षुः प्रसिद्धः सभासु ।। १७.४ ।।

Strophe in ed. EBC: 5 
Verse: a    
व॑रणातटसंभववृक्षवरार्चनतो जनितो ललिताप्रबुधात्मभवः ।
   
व॑रणातटसंभववृक्षवरार्चनतः जनितः ललिताप्रबुधात्मभवः

Verse: b    
स॑ यशोद इति प्रथितो भुवते सुरराजवचो ऽमृतसिंचनतो विबुधः ।
   
यशोदः इति प्रथितः भुवते सुरराजवचः अमृतसिंचनतः विबुधः

Verse: c    
स॑मनुस्मृतपूर्वकथो मृगदाववनं ससखो ऽभ्यगमद्यशसा सहितः ।
   
स॑मनुस्मृतपूर्वकथः मृगदाववनम् ससखः अभ्यगमत् यशसा सहितः

Verse: d    
भ॑गवानपि तं स्वकरेण मृजञ्शिरसि प्रचकार महोत्तमभिक्षुगुरुं ।। १७.५ ।।
   
भ॑गवान् अपि तम् स्वकरेण मृजन् शिरसि प्रचकार महोत्तमभिक्षुगुरुम् ।। १७.५ ।।

Strophe in ed. EBC: 6 
Verse: a    
श्री॑घनो ऽसौ महाबृद्धनामा प्रतस्थे समं भिक्षुभिर्भद्रवर्गीयकैश्चान्वितः ।
   
श्री॑घनः असौ महाबृद्धनामा प्रतस्थे समम् भिक्षुभिः भद्रवर्गीयकैः अन्वितः

Verse: b    
चं॑क्रमाख्यां च यात्रां जगद्रक्षणार्थं महर्द्धिं प्रकाश्याविशत्काशिकाख्यां पुरि ।
   
च॑ङ्क्रमाख्याम् यात्राम् जगद्रक्षणार्थम् महर्द्धिम् प्रकाश्य अविशत् काशिकाख्याम् पुरि

Verse: c    
स्व॑स्तिको नाम वाराणसीथो दरिद्रो द्विजः श्रीघनस्य प्रसादाप्तद्रव्यो दिवो ।
   
स्व॑स्तिकः नामः वाराणसीथः दरिद्रः द्विजः श्रीघनस्य प्रसादाप्तद्रव्यः दिवः

Verse: d    
दा॑सभूयं जिने शासने संनियोज्यानुप्राप्याभवद्भिक्षुरर्हन्मुनींद्राच्चरीं ।। १७.६ ।।
   
दा॑सभूयम् जिने शासने संनियोज्य अनुप्राप्य अभवत् भिक्षुः अर्हन् मुनीन्द्रात् चरीम् ।। १७.६ ।।

Strophe in ed. EBC: 7 
Verse: a    
का॑शिराजं दिवोदाससंज्ञं सुवर्णीयधान्यादिभिर्वधयन्पौरलोकांस्तथा ।
   
का॑शिराजम् दिवोदाससंज्ञम् सुवर्णीयधान्यादिभिः वधयन् पौरलोकान् तथा

Verse: b    
दे॑शदेशांतरे कानने गह्वरे पर्वते ऽस्मिन्विहारे वसन्नागमज्जाह्नवीं ।
   
दे॑शदेशान्तरे कानने गह्वरे पर्वते अस्मिन् विहारे वसन् नागमज्जाह्नवीम्

Verse: c    
ना॑विको जाह्नवीं पारयित्वा जिनं पूजयामास पूजोपचारैर्ददौ पायसं ।
   
ना॑विकः जाह्नवीम् पारयित्वा जिनम् पूजयाम् आस पूजोपचारैः ददौ पायसम्

Verse: d    
त॑त्प्रसादाच्च भिक्षुर्बभूवाथ वासं जिनस्याज्ञया प्राप बौद्धाश्रमे कानने ।। १७.७ ।।
   
त॑त् प्रसादात् भिक्षुः बभूव अथ वासम् जिनस्य आज्ञया प्राप बौद्धाश्रमे कानने ।। १७.७ ।।

Strophe in ed. EBC: 8 
Verse: a    
जा॑ह्नवीमुत्तरञ्छ्रीघनः काश्यपस्याश्रमं चोरुविल्वाभिधानं गयायां ययौ ।
   
जा॑ह्नवीम् उत्तरम् श्रीघनः काश्यपस्य आश्रमम् उरुविल्वाभिधानम् गयायाम् ययौ

Verse: b    
त॑त्र चर्द्धिं प्रकाश्योरुविल्वादिकान्काश्यपाञ्शिष्यसंघैः सहस्राधिकैरन्वितान् ।
   
त॑त्र चर्द्धिम् प्रकाश्य उरुविल्वादिकान् काश्यपान् शिष्यसंघैः सहस्राधिकैः अन्वितान्

Verse: c    
भि॑क्षुवर्यांश्चकाराशु तान्बोधिचर्यासु संयोजयित्वा प्रवृत्तेर्निवृत्तौ पुनः ।
   
भि॑क्षुवर्यान् चकार आशु तान् बोधिचर्यासु संयोजयित्वा प्रवृत्तेः निवृत्तौ पुनर्

Verse: d    
शि॑ष्यसंघैः शतानां त्रिभिः संयुतश्चोपसेनाभिधा मातुलस्याज्ञयाभूद्यतिः ।। १७.८ ।।
   
शि॑ष्यसंघैः शतानाम् त्रिभिः संयुतः उपसेनाभिधा मातुलस्य आज्ञय अभूत् यतिः ।। १७.८ ।।

Strophe in ed. EBC: 9 
Verse: a    
ध॑र्मसंज्ञाटवीसंस्थितान्सप्तसंख्याशतांस्तापसान्निर्वृतान्संव्यधाच्छ्रीघनः ।
   
ध॑र्मसंज्ञाटवीसंस्थितान् सप्तसंख्याशतान् तापसान् निर्वृतान् संव्यधात् श्रीघनः

Verse: b    
ग्रा॑मिकास्ताः सुजातादिका नंदिकस्यात्मजा भिक्षुणीश्चाकरोद्धर्मराट्पौर्विकाः ।
   
ग्रा॑मिकाः ताः सुजातादिकाः नन्दिकस्य आत्मजा भिक्षुणीः अकरोत् धर्मराज् पौर्विकाः

Verse: c    
रा॑जगेहाभिधे पत्तने बिंबिसारं नृपं बुद्धिसाराग्रजन्मानुमेयं विभुं ।
   
रा॑जगेहाभिधे पत्तने बिम्बिसारम् नृपम् बुद्धिसाराग्रजन्मानुमेयम् विभुम्

Verse: d    
बो॑धयित्वा प्रवृत्त्या निवृत्त्याकरोद्बुद्धसेवापरं बोधिसत्त्वं सकृद्गामिनं ।। १७.९ ।।
   
बो॑धयित्वा प्रवृत्त्या निवृत्त्या अकरोत् बुद्धसेवापरम् बोधिसत्त्वम् सकृद्गामिनम् ।। १७.९ ।।

Strophe in ed. EBC: 10 
Verse: a    
त॑तो ऽन्यत्र ग्रामे च नारद्यसंज्ञे द्विजो धर्मपाली च शाल्याभिधा ब्राह्मणी च ।
   
त॑तः अन्यत्र ग्रामे नारद्यसंज्ञे द्विजः धर्मपाली शाल्याभिधाः ब्राह्मणी

Verse: b    
त॑योरात्मजः सप्तमश्चोपतिष्याभिधो ऽभूच्चतुर्वेदपारं गतो बौद्धभिक्षुः ।
   
त॑योः आत्मजः सप्तमः उपतिष्याभिधः अभूत् चतुर्वेदपारम् गतः बौद्धभिक्षुः

Verse: c    
त॑था कोलतग्रामवासीयधान्यायनाख्यो महापंडितो ऽभूद्द्विजस्तत्सुतश्च ।
   
त॑था कोलतग्रामवासीयधान्यायनाख्यः महापण्डितः अभूत् द्विजः तत्सुतः

Verse: d    
स॑ मौद्गल्यनामा च शालीसुतो ऽसौ मुनींद्रश्चकाराशु तौ भिक्षुवर्यौ सुशिष्यौ ।। १७.१० ।।
   
मौद्गल्यनामा शालीसुतः असौ मुनीन्द्रः चकार आशु तौ भिक्षुवर्यौ सुशिष्यौ ।। १७.१० ।।

Strophe in ed. EBC: 11 
Verse: a    
मा॑तुलं शालिपुत्रस्य दीर्घानखाभिज्ञकं तीक्ष्णबुद्धिं चकाराथ भिक्षुं वरं ।
   
मा॑तुलम् शालिपुत्रस्य दीर्घानखाभिज्ञकम् तीक्ष्णबुद्धिम् चकार अथ भिक्षुम् वरम्

Verse: b    
मा॑गधे वैषये संचरञ्छ्रीजिनो मागधैः पूजितः पिंडपात्रादिभिश्चोद्धरन् ।
   
मा॑गधे वैषये संचरन् श्रीजिनः मागधैः पूजितः पिण्डपात्रादिभिः उद्धरन्

Verse: c    
जे॑तनामर्षिणा संप्रदत्ते विहारे वसन्नाश्रमस्थान्बहून्संनियोज्यात्मनि ।
   
जे॑तनामर्षिणा संप्रदत्ते विहारे वसन् आश्रमस्थान् बहून् संनियोज्य आत्मनि

Verse: d    
मै॑थिलेयं तथानंदसंज्ञं सहायान्वितं भिक्षुवर्यं च कृत्वावसद्वत्सरं ।। १७.११ ।।
   
मै॑थिलेयम् तथा आनन्दसंज्ञम् सहायान्वितम् भिक्षुवर्यम् कृत्वा अवसत् वत्सरम् ।। १७.११ ।।

Strophe in ed. EBC: 12 
Verse: a    
द्वि॑जः काश्यपाख्यो धने यक्षराजो गुरुर्वेदविद्यासु राजादिगेहाख्यदेशी ।
   
द्वि॑जः काश्यपाख्यः धने यक्षराजः गुरुः वेदविद्यासु राजादिगेहाख्यदेशी

Verse: b    
सु॑चित्तः पटं चैकवास्यं समाधाय सर्वान्विहायागमत्तापसे बोधिमीप्सुः ।
   
सु॑चित्तः पटम् एकवास्यम् समाधाय सर्वान् विहाय आगमत् तापसे बोधिम् ईप्सुः

Verse: c    
य॑दा बोधिवृक्षाश्रितो ऽसौ कुमारस्तपः प्राचरद्दुष्करं तत्षडब्दं महात्मा ।
   
य॑दा बोधिवृक्षाश्रितः असौ कुमारः तपः प्राचरत् दुष्करम् तत् षडब्दम् महात्मा

Verse: d    
त॑तो ऽवाप्तबोधिं मुनींद्रं समर्थ्याभवत्काश्यपो ऽसौ यतीशो ऽर्हतामग्रगण्यः ।। १७.१२ ।।
   
त॑तः अवाप्तबोधिम् मुनीन्द्रम् समर्थ्य अभवत् काश्यपः असौ यतीशः अर्हताम् अग्रगण्यः ।। १७.१२ ।।

Strophe in ed. EBC: 13 
Verse: a    
न॑रदत्तमुनिर्हिमशैलनिवासपरः समनुस्मृतमातुलपथ्य वचाः ।
   
न॑रदत्तमुनिः हिमशैलनिवासपरः समनुस्मृतमातुलपथ्य वचाः

Verse: b    
सु॑गतं समगात्सहशिष्यगणो भगवानपि तानकरोज्जिनशासनगान् ।
   
सु॑गतम् समगात् सहशिष्यगणः भगवान् अपि तान् अकरोत् जिनशासनगान्

Verse: c    
अ॑थ शक्त्यभिधा कमला द्विजशक्तिवरे ययतुः सुगतं प्रणिपत्य च तं ।
   
अ॑थ शक्त्यभिधा कमला द्विजशक्तिवरे ययतुः सुगतम् प्रणिपत्य तम्

Verse: d    
स्थि॑त अग्रत एव ततो मुनिना ऽकृत ते वरखिक्खिरिपात्रधरे सुभगे ।। १७.१३ ।।
   
स्थि॑तः अग्रते एव ततः मुनिना अकृत ते वरखिक्खिरिपात्रधरे सुभगे ।। १७.१३ ।।

Strophe in ed. EBC: 14 
Verse: a    
श॑तसप्तकरुद्रकतापसशिष्यगणा गुरुवाक्यमुदारमनुस्मरिताः ।
   
श॑तसप्तकरुद्रकतापसशिष्यगणा गुरुवाक्यम् उदारम् अनुस्मरिताः

Verse: b    
जि॑नशासनतः श्रमणाः परितो व्यचरन्नुपकारपरा धृतखिक्खिरिकाः ।
   
जि॑नशासनतः श्रमणाः परितः व्यचरन् उपकारपरा धृतखिक्खिरिकाः

Verse: c    
अ॑थ रैवतसंज्ञ ऋषिर्मुदितः स्तुतिकृत्समवाप्य चरीं समभूच्छ्रमणः ।
   
अ॑थ रैवतसंज्ञः ऋषिर्मुदितः स्तुतिकृत् समवाप्य चरीम् समभूत् श्रमणः

Verse: d    
गु॑रुभक्तोपरः समकांचनमृत्ससमाधिसुधारणिभृत्त्रिविषाद्यपहृत् ।। १७.१४ ।।
   
गु॑रुभक्तोपरः समकांचनमृत् ससमाधिसुधारणिभृत् त्रिविषाद्यपहृत् ।। १७.१४ ।।


Strophe in ed. EBC: 15 
Verse: a    
पू॑र्णसंज्ञादिकाञ्छ्रावतीयान्गृहस्थान्विधायानुगाञ्च्छ्रावकान्पिंडपात्रान्वितान् ।
   
पू॑र्णसंज्ञादिकान् श्रावतीयान् गृहस्थान् विधाय अनुगान् श्रावकान् पिण्डपात्रान्वितान्

Verse: b    
दुः॑खिनो ऽनेकशः श्रीदतुल्यांस्तथा चांगदीनान्सुपुष्टाननाथाद्यपिंडादिकान् ।
   
दुः॑खिनः अनेकशः श्रीदतुल्यान् तथा आन्गदीनान् सुपुष्टाननाथाद्यपिण्डादिकान्

Verse: c    
दे॑शयित्वा च धर्मं समुद्धारयञ्जेतकारण्यमाश्रित्य वर्षद्वयं श्रीघनः ।
   
दे॑शयित्वा धर्मम् समुद्धारयन् जेतकारण्यम् आश्रित्य वर्षद्वयम् श्रीघनः

Verse: d    
जे॑तसंज्ञं मुनिं बोधयित्वा पुनः पूर्णभिक्षुं ततः स्थापयित्वा प्रतस्थे ततः ।। १७.१५ ।।
   
जे॑तसंज्ञम् मुनिम् बोधयित्वा पुनः पूर्णभिक्षुम् ततः स्थापयित्वा प्रतस्थे ततः ।। १७.१५ ।।


Strophe in ed. EBC: 16 
Verse: a    
अ॑थ प्रस्थितः श्रीघनश्चोरसंघेभ्य एतानवन्सार्थसंघान्निधानोद्धवैः स्वैः ।
   
अ॑थ प्रस्थितः श्रीघनः चोरसङ्घेभ्यः एतानवन् सार्थसंघान् निधानोद्धवैः स्वैः

Verse: b    
त॑तः संचरन्पिंडपात्रं गुहीत्वा वणिक्संघदत्तं ययौ राजगेहोपकंठे ।
   
त॑तः संचरन् पिण्डपात्रम् गुहीत्वा वणिक्सङ्घदत्तम् ययौ राजगेहोपकण्ठे

Verse: c    
अ॑थो वेणुसंज्ञे वने शालपूर्णे च चौरैर्धनाढ्यैः प्रदत्तं जघासार्घ्यभोज्यं ।
   
अ॑थः वेणुसंज्ञे वने शालपूर्णे चौरैः धनाढ्यैः प्रदत्तम् जघास अर्घ्यभोज्यम्

Verse: d    
त॑था सप्तसंख्याशतांश्चौरसंघानकार्षीच्छ्रमण्यांश्च तान्पिंडपात्रादि दत्त्वा ।। १७.१६ ।।
   
त॑था सप्तसंख्याशताः चौरसंघान् अकार्षीत् श्रमण्याः तान् पिण्डपात्रादि दत्त्वा ।। १७.१६ ।।


Strophe in ed. EBC: 17 
Verse: a    
आ॑मंत्रणे बुद्धपुत्रस्य शुद्धोदनो वार्तिकौ प्राज्ञपच्छंदकोदायिनावेव ।
   
आ॑मन्त्रणे बुद्धपुत्रस्य शुद्धोदनः वार्तिकौ प्राज्ञपत् छन्दकोदायिनौ एव

Verse: b    
त्व॑द्दर्शनाशाश्रितौ मातृतातौ यशोधृक्प्रमुख्या महिष्यः सुतो बालको ऽसौ च ।
   
त्व॑द्दर्शनाशाश्रितौ मातृतातौ यशोधृक् प्रमुख्या महिष्यः सुतः बालकः असौ

Verse: c    
सं॑साररक्षापरस्त्वं हि तातेति बुद्ध्या किमु ज्ञापयामीत्यहं तौ च जग्माते ।
   
सं॑साररक्षापरः त्वम् हि तात इति बुद्ध्या किम् ज्ञापयामि इति अहम् तौ जग्माते

Verse: d    
तौ॑ वेणुसंज्ञे विहारे श्रितं बुद्धमानम्य जिज्ञापयां चक्रतुः साश्रुनेत्रौ तत् ।। १७.१७ ।।
   
तौ वेणुसंज्ञे विहारे श्रितम् बुद्धम् आनम्य जिज्ञापयाम् चक्रतुः साश्रुनेत्रौ तत् ।। १७.१७ ।।


Strophe in ed. EBC: 18 
Verse: a    
छं॑दकोदायिनौ मंत्रणे संमतौ बुद्धमाहात्म्यतुष्टावभूतां यतीशौ ।
   
छ॑न्दकोदायिनौ मन्त्रणे संमतौ बुद्धमाहात्म्यतुष्टौ अभूताम् यतीशौ

Verse: b    
प॑रौ तौ पुरोधाय तस्माद्वनात्संप्रतस्थे जिनेंद्रः सह श्रावकैर्भिक्षुभिः साधुभिः ।
   
प॑रौ तौ पुरोधाय तस्मात् वनात् संप्रतस्थे जिनेन्द्रः सह श्रावकैः भिक्षुभिः साधुभिः

Verse: c    
दे॑शदेशांतरे संक्रमन्संवसन्नुद्धरन्वर्धयञ्छ्रावकांश्चैरिकानहर्तः ।
   
दे॑शदेशान्तरे संक्रमन् संवसन् उद्धरन् वर्धयन् श्रावकान् चैरिकान् अहर्तः

Verse: d    
प्रा॑प निग्रोधसंज्ञं वनं भासयंस्तेजसा कंपयन्मेदिनीं नाशयन्दीनतां ।। १७.१८ ।।
   
प्रा॑प निग्रोधसंज्ञम् वनम् भासयन् तेजसा कम्पयन् मेदिनीम् नाशयन् दीनताम् ।। १७.१८ ।।


Strophe in ed. EBC: 19 
Verse: a    
चो॑दयामास भूयः प्रजा बुद्धसंदर्शने ऽथो ययौ संगतैर्लोकसंघैस्ततः ।
   
चो॑दयाम् आस भूयः प्रजाः बुद्धसंदर्शने अथः ययौ संगतैः लोकसङ्घैः ततः

Verse: b    
मुं॑डितान्भिक्षुकानध्वगान्पिंडपात्रार्थिनो दर्शयन्देवदत्तानुबोधस्ततः ।
   
मु॑ण्डितान् भिक्षुकान् अध्वगान् पिण्डपात्रार्थिनः दर्शयन् देवदत्तानुबोधः ततः

Verse: c    
वा॑रयामास भिक्षून्पुरीसंगमे ऽथो स्वयं प्रागमद्राजगेहं प्रति स्वैः सह ।
   
वा॑रयाम् आस भिक्षून् पुरीसंगमे अथः स्वयम् प्रागमत् राजगेहम् प्रति स्वैः सह

Verse: d    
प॑र्षदि द्वापरे ऽस्थो नृपो ऽथो जिनो भिक्षुवार्ताभिबोधो यतिं प्राज्ञपद्बोधने ।। १७.१९ ।।
   
प॑र्षदि द्वापरे अस्थः नृपः अथः जिनः भिक्षुवार्ताभिबोधः यतिम् प्राज्ञपद्बोधने ।। १७.१९ ।।


Strophe in ed. EBC: 20 
Verse: a    
जि॑नशासनतो ऽभ्यगन्नगरे कपिले यतिराट्स उदाय्यभिधो ह्यथ च ।
   
जि॑नशासनतः अभ्यगत् नगरे कपिले यतिराज् उदाय्यभिधः हि अथ

Verse: b    
नृ॑पतिं सदसि स्थितमष्टशतर्द्धिवरं समदर्शयदृद्धिवतामधिपः ।
   
नृ॑पतिम् सदसि स्थितम् अष्टशतर्द्धिवरम् समदर्शयत् ऋद्धिवताम् अधिपः

Verse: c    
ग॑गणादवतार्य च तं नृपतिं चतुरार्यकसत्यकथामकथत्ससभं ।
   
ग॑गणात् अवतार्य तम् नृपतिम् चतुरार्यकसत्यकथाम् अकथत् ससभम्

Verse: d    
प्र॑तिपूज्य च तं नरराडनुबुद्धमनाः सजनः समगात्सहपूज्यविधिः ।। १७.२० ।।
   
प्र॑तिपूज्य तम् नरराज् अनुबुद्धमनाः सजनः समगात् सहपूज्यविधिः ।। १७.२० ।।


Strophe in ed. EBC: 21 
Verse: a    
मु॑दितो नृपतिर्जिनदर्शनतो ऽष्टशतोपकरैः प्रतिपूज्य ववंद पदौ ।
   
मु॑दितः नृपतिः जिनदर्शनतः अष्टशतोपकरैः प्रतिपूज्य ववन्द पदौ

Verse: b    
सु॑गतो ऽप्यगमद्गगणे ह्यथ विश्वमयाकृति रूप मदर्शयदेकतनुः ।
   
सु॑गतः अप्यगमत् गगणे हि अथ विश्वमयाकृति रूपम् अदर्शयत् एकतनुः

Verse: c    
प्र॑थमं ज्वलनो ह्यमृतं मृगराड्द्विरदो हयराट्शिखिराट्खगराट्मघवा ।
   
प्र॑थमम् ज्वलनः हि अमृतम् मृगराज् द्विरदः हयराज् शिखिराज् खगराज् मघवा

Verse: d    
य॑मराजमुखा दशलोकवरा दिनपो निशिपो भगणा विधिविष्णुमृडाः ।। १७.२१ ।।
   
य॑मराजमुखाः दशलोकवराः दिनपः निशिपः भगणा विधिविष्णुमृडाः ।। १७.२१ ।।


Strophe in ed. EBC: 22 
Verse: a    
दि॑तिजा धृतराष्ट्रमुखाश्चतुरा द्रुमसिद्धमहीपतियोगिगणा यतयः ।
   
दि॑तिजाः धृतराष्ट्रमुखाः चतुराः द्रुमसिद्धमहीपतियोगिगणाः यतयः

Verse: b    
व॑सवो मनवो वनजामकरप्रमुखा जलजाः खचरा गरुडप्रमुखाः ।
   
व॑सवः मनवः वनजामकरप्रमुखाः जलजाः खचराः गरुडप्रमुखाः

Verse: c    
तु॑षिताधिपतिप्रमुखा भुवननेष्वपि मर्त्यपुरे बलिसद्मनि ये ह्यधिपाः ।
   
तु॑षिताधिपतिप्रमुखाः भुवननेषु अपि मर्त्यपुरे बलिसद्मनि ये हि अधिपाः

Verse: d    
य॑तरद्भुवने विलसत्यखिलं भगवानदधात्खलु विश्वमयः सकलं ।। १७.२२ ।।
   
य॑तरद्भुवने विलसत्यखिलम् भगवान् अदधात् खलु विश्वमयः सकलम् ।। १७.२२ ।।


Strophe in ed. EBC: 23 
Verse: a    
वि॑ज्ञप्यमाने नृपे सत्यलोके ऽवतीर्णो ऽंतरीक्षात्स्व आसीन एवं मुनीशो ।
   
वि॑ज्ञप्यमाने नृपे सत्यलोके अवतीर्णः अन्तरीक्षात् स्वे आसीने एवम् मुनीशः

Verse: b    
ऽक॑थद्द्वादशाकारधर्मं पुनर्गौतमीं लोचनाढ्यां विधायानुगोपादिकास्ताश्च ।
   
अ॑कथत् द्वादशाकारधर्मम् पुनर् गौतमीम् लोचनाढ्याम् विधाय अनुगोपादिकाः ताः

Verse: c    
कृ॑त्वा मुदाढ्याश्च सर्वाः प्रजा मोदयामास चक्रे निवृत्तौ परांश्चापि धर्मेषु ।
   
कृ॑त्वा मुदाढ्याः सर्वाः प्रजाः मोदयाम् आस चक्रे निवृत्तौ परान् अपि धर्मेषु

Verse: d    
आ॑नंदपूर्णो ऽथ शुद्धोदनः प्राकरोन्मंत्रणां संघभोज्ये च तूष्णीमभूत्सो ऽथ ।। १७.२३ ।।
   
आ॑नन्दपूर्णः अथ शुद्धोदनः प्राकरोत् मन्त्रणाम् सङ्घभोज्ये तूष्णीम् अभूत् सः अथ ।। १७.२३ ।।


Strophe in ed. EBC: 24 
Verse: a    
आ॑मंत्रितः शाक्यसिंहो ऽथ सार्धं स्वसंघैर्महत्प्रातिहार्यं प्रकाश्यागमद्देशे ।
   
आ॑मन्त्रितः शाक्यसिंहः अथ सार्धम् स्वसङ्घैः महत्प्रातिहार्यम् प्रकाश्य आगमत् देशे

Verse: b    
भू॑मिस्तदाकंपयत्पुष्पवृष्टिश्च जानादिशः संप्रकाशाववौ वायुरेवं च ।
   
भू॑मिः तत् आकंपयत् पुष्पवृष्टिः जानादिशः संप्रकाशौ अवौ वायुः एवम्

Verse: c    
शे॑षस्य पृष्ठे पदं संदधाना विधीशाच्युतेंद्रांतकापांपतिश्रीदभूतेश ।
   
शे॑षस्य पृष्ठे पदम् संदधानाः विधीशाच्युतेन्द्रान्तकापांपतिश्रीदभूतेश

Verse: d    
वा॑यव्यनैरृत्यसप्तार्चिराद्याः सुरास्तान्पुरोधाय खे ऽनृत्ययन्देवगंधर्वान् ।। १७.२४ ।।
   
वा॑यव्यनैः ऋत्यसप्तार्चिराद्याः सुराः तान् पुरोधाय खे अनृत्ययन् देवगन्धर्वान् ।। १७.२४ ।।


Strophe in ed. EBC: 25 
Verse: a    
को॑टिशो भिक्षुकाञ्छ्रावकानर्हतः प्राज्ञिकांश्चैरिकाऔपवासान्प्रकुर्वंस्तथा ।
   
को॑टिशः भिक्षुकान् श्रावकान् अर्हतः प्राज्ञिकान् चैरिकान् औपवासान् प्रकुर्वन् तथा

Verse: b    
अं॑धकान्कुब्जकान्पंगुकानुन्मदानंगहीनांस्तथा द्रव्यहीनान्यथोद्धारयन् ।
   
अ॑न्धकान् कुब्जकान् पङ्गुकान् उन्मदान् अङ्गहीनान् तथा द्रव्यहीनान् यथा उद्धारयन्

Verse: c    
तु॑र्यवर्गीयलोकान्नियोज्य प्रवृत्तौ निवृत्तौ त्रियाने चतुःसंग्रहे ऽष्टांगिके ।
   
तु॑र्यवर्गीयलोकान् नियोज्य प्रवृत्तौ निवृत्तौ त्रियाने चतुःसंग्रहे अष्टाङ्गिके

Verse: d    
चं॑क्रमंश्चंक्रमन्नुद्धरन्वर्धयन्भिक्षुकान्द्वादशे ऽब्दे पुरं स्वां ययौ ।। १७.२५ ।।
   
च॑ङ्क्रमन् चङ्क्रमन् उद्धरन् वर्धयन् भिक्षुकान् द्वादशे अब्दे पुरम् स्वाम् ययौ ।। १७.२५ ।।

Strophe in ed. EBC: 26 
Verse: a    
प्र॑त्यहं वर्धयन्भिक्षुकान्संघभोज्यं च कृत्वा मुहूर्ते शुभे लुंबिनीयात्रिकां ।
   
प्र॑त्यहम् वर्धयन् भिक्षुकान् सङ्घभोज्यम् कृत्वा मुहूर्ते शुभे लुम्बिनीयात्रिकाम्

Verse: b    
प्रा॑चरद्भिक्षुभिर्ब्रह्मरुद्रादिभिः पौरलोकैः समं सो महोल्लासवाद्यादिभिः ।
   
प्रा॑चरत् भिक्षुभिः ब्रह्मरुद्रादिभिः पौरलोकैः समम् सः महोल्लासवाद्यादिभिः

Verse: c    
प्ल॑क्षवृक्षं ददर्शाथ जन्मानुभूतं स्मरन्संस्थितः संस्मितो वक्त्रतो निर्गता ।
   
प्ल॑क्षवृक्षम् ददर्श अथ जन्मानुभूतम् स्मरन् संस्थितः संस्मितः वक्त्रतः निर्गता

Verse: d    
र॑श्मयो द्योतयित्वा भुवं वेविशुः संप्रसाद्याथ देवीं वनस्थामवादीत्कथां ।। १७.२६ ।।
   
र॑श्मयः द्योतयित्वा भुवम् वेविशुः संप्रसाद्य अथ देवीम् वनस्थाम् अवादीत् कथाम् ।। १७.२६ ।।

Strophe in ed. EBC: 27 
Verse: a    
पौ॑र्विकां राहुलीयां तथा गोपिकां मैत्रकन्यां स्वकीयां च तां सौधनीं कौशिकां ।
   
पौ॑र्विकाम् राहुलीयाम् तथा गोपिकाम् मैत्रकन्याम् स्वकीयाम् ताम् सौधनीम् कौशिकाम्

Verse: b    
लुं॑बिनीप्लक्षमाश्रित्य चाथो तडागे वसत्याभिघे ऽसौ प्रियां मातुपौषीं कथां ।
   
लुं॑बिनीप्लक्षम् आश्रित्य अथः तडागे वसत्याभिघे असौ प्रियाम् मातुपौषीम् कथाम्

Verse: c    
ए॑कशांगीं महाकौतुकीयां पुनः सौतसोमीं नियग्रोधसंज्ञे वने संवदन् ।
   
ए॑कशाङ्गीम् महाकौतुकीयाम् पुनर् सौतसोमीम् नियग्रोधसंज्ञे वने संवदन्

Verse: d    
सुं॑दरानंदमुख्यान्स्ववंश्याञ्शतं सप्त प्राव्राजयत्पौरलोकानपि ।। १७.२७ ।।
   
सु॑न्दरानन्दमुख्यान् स्ववंश्यान् शतम् सप्त प्राव्राजयत् पौरलोकान् अपि ।। १७.२७ ।।

Strophe in ed. EBC: 28 
Verse: a    
बु॑द्धधर्मानुभावं प्रकाश्याप्यसौ स्तूपविम्बं विनिर्माय राज्याभिषेकं ददन् ।
   
बु॑द्धधर्मानुभावम् प्रकाश्य अपि असौ स्तूपविम्बम् विनिर्माय राज्याभिषेकम् ददन्

Verse: b    
सौ॑नवे प्रेषयन्भूपतिं चैत्यभट्टारकाग्रे वने धर्मधातुं समभ्यर्चयन् ।
   
सौ॑नवे प्रेषयन् भूपतिम् चैत्यभट्टारकाग्रे वने धर्मधातुम् समभ्यर्चयन्

Verse: c    
रा॑हुलं गौतमीं गोपिकाद्याः स्त्रियः खिक्खिरीपात्रहस्ता महामुंडिता भिक्षुणीः ।
   
रा॑हुलम् गौतमीम् गोपिकाद्याः स्त्रियः खिक्खिरीपात्रहस्ताः महामुण्डिताः भिक्षुणीः

Verse: d    
चा॑रयित्वा ह्यहोरात्रसंज्ञं व्रतं लक्षचैत्यं पुनः शार्ङ्गभैर्यं वसुंधारिकां ।। १७.२८ ।।
   
चा॑रयित्वा हि अहोरात्रसंज्ञम् व्रतम् लक्षचैत्यम् पुनर् शार्ङ्गभैर्यम् वसुन्धारिकाम् ।। १७.२८ ।।

Strophe in ed. EBC: 29 
Verse: a    
अ॑ष्टसाहस्रिकानैगमागेयगाथे निदानावदानौ महायानसूत्राभिधं ।
   
अ॑ष्टसाहस्रिकानैगमागेयगाथे निदानावदानौ महायानसूत्राभिधम्

Verse: b    
व्या॑करेत्युक्तके जातकं वैपुलाख्याद्भुते चोपदेशं तथोदानकं द्वादशं ।
   
व्या॑करेत्युक्तके जातकम् वैपुलाख्याद्भुते उपदेशम् तथा उदानकम् द्वादशम्

Verse: c    
पा॑ठयंश्चारयञ्श्रावकं चापि प्रत्येकयानं महायानिकं संप्रकाश्याभितः ।
   
पा॑ठयन् चारयञ् श्रावकम् अपि प्रत्येकयानम् महायानिकम् संप्रकाश्य अभितः

Verse: d    
सा॑र्धमर्धत्रयोदश्यभिक्षाकसंघैः परैः कापिलाद्देशतो निर्ययौ लोकजित् ।। १७.२९ ।।
   
सा॑र्धमर्धत्रयोदश्यभिक्षाकसङ्घैः परैः कापिलात् देशतः निर्ययौ लोकजित् ।। १७.२९ ।।

Strophe in ed. EBC: 30 
Verse: a    
द॑र्शयन्प्रातिहार्यं पुरे कापिले तातमानं तथा राहुलाद्यान्विधायार्हतः ।
   
द॑र्शयन् प्रातिहार्यम् पुरे कापिले तातमानम् तथा राहुलाद्यान् विधाय अर्हतः

Verse: b    
भि॑क्षुणीर्गौतमीगोपिकाद्याश्च रामाश्चतुर्वर्गिकाश्चक्रवर्त्यासने सौनवं ।
   
भि॑क्षुणीः गौतमीगोपिकाद्याः रामाः चतुर्वर्गिकाः चक्रवर्त्यासने सौनवम्

Verse: c    
स्था॑पयित्वा जिने शासने ताञ्जनान्नाशयित्वा दरिद्रांधकारं स्मरन्मातरं ।
   
स्था॑पयित्वा जिने शासने तान् जनान् नाशयित्वा दरिद्रान्धकारम् स्मरन् मातरम्

Verse: d    
श्री॑त्वयंभ्वर्चने चोत्तरादिङ्मुखः संप्रतस्थे समं भिक्षुभिर्ब्रह्मविष्ण्वीश्वरैः ।। १७.३० ।।
   
श्री॑त्वयंभ्वर्चने उत्तरादिक् मुखः संप्रतस्थे समम् भिक्षुभिः ब्रह्मविष्ण्वीश्वरैः ।। १७.३० ।।

Strophe in ed. EBC: 31 
Verse: a    
शा॑क्यसिंहस्य जन्मावदानस्य माहात्म्यमेवं मया भूरिशो वर्णितं स्वल्पशः ।
   
शा॑क्यसिंहस्य जन्मावदानस्य माहात्म्यम् एवम् मया भूरिशः वर्णितम् स्वल्पशः

Verse: b    
पं॑डितैः शोधनीयं यदत्र च्युतं बालसंभाषणं नोपहास्याय हर्षाय भोः ।
   
प॑ण्डितैः शोधनीयम् यदत्र च्युतम् बालसंभाषणम् उपहास्याय हर्षाय भोः

Verse: c    
वि॑श्वरूपाकृतेर्धर्मराजस्य संसाररक्षाकृतो वर्णनात्कौशलं यन्मम ।
   
वि॑श्वरूपाकृतेः धर्मराजस्य संसाररक्षाकृतः वर्णनात्कौशलम् यत् मम

Verse: d    
अ॑स्तु तत्पुण्यपुंजं प्रवृत्तौ निवृत्तौ जनानां प्रमोदाय षड्योनिषु स्थायिनां ।। १७.३१ ।।
   
अ॑स्तु तत्पुण्यपुञ्जम् प्रवृत्तौ निवृत्तौ जनानाम् प्रमोदाय षड्योनिषु स्थायिनाम् ।। १७.३१ ।।



इ॑ति श्रीबुद्धचरिते महाकाव्ये ऽश्वघोषकृते लुंबिनीयात्रिकं नाम सप्तदशः सर्गः ।। १७ ।।



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.