TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 290
Hymn: 56_(290)
Verse: 1
Halfverse: a
न ता मि॑नन्ति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वाना॑म्प्रथ॒मा ध्रु॒वाणि॑ ।
न ता मि॑नन्ति मा॒यिनो॒ न धीरा
न
ता
मि॑नन्ति
मा॒यिनः
न
धीराः
न
ता
मि॑नन्ति
मा॒यिनो
न
धीरा
Halfverse: b
व्र॒ता दे॒वाना॑म्प्रथ॒मा ध्रु॒वाणि॑ ।
व्र॒ता
दे॒वाना॑म्
प्रथ॒मा
ध्रु॒वाणि
।
व्र॒ता
दे॒वाना॑म्
प्रथ॒मा
ध्रु॒वाणि
।
Halfverse: c
न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांसः॑ ।।
न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॑र्
न
रोद॑सी
अ॒द्रुहा
वे॒द्याभिः
न
रोद॑सी
अ॒द्रुहा
वेदि॒याभि॑र्
Halfverse: d
न पर्व॑ता नि॒नमे॑ तस्थि॒वांसः॑ ।।
न
पर्व॑ताः
नि॒नमे
तस्थि॒वांसः
।।
न
पर्व॑ता
नि॒नमे
तस्थि॒वांसः
।।
Verse: 2
Halfverse: a
षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ ।
षड्भा॒राँ एको॒ अच॑रन्बिभर्त्य्
षट्
भा॒रान्
एकः
अच॑रन्
बिभर्ति
षड्
भा॒राँ
एको
अच॑रन्
बिभर्ति
Halfverse: b
ऋ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ ।
ऋ॒तम्
वर्षि॑ष्ठम्
उप
गावः
आ
अ॑गुः
।
ऋ॒तं
वर्षि॑ष्ठम्
उप
गाव
आगुः
।
Halfverse: c
ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ।।
ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या
ति॒स्रः
म॒हीः
उप॑राः
तस्थुः
अत्याः
ति॒स्रो
म॒हीर्
उप॑रास्
तस्थुर्
अत्या
Halfverse: d
गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ।।
गुहा
द्वे
निहि॑ते
दर्शि
एका
।।
गुहा
दु॒वे
निहि॑ते
दर्शि
एका
।।
Verse: 3
Halfverse: a
त्रि॑पाज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् ।
त्रि॑पाज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प
त्रिपाज॒स्यः
वृ॑ष॒भः
वि॒श्वरू॑पः
त्रिपाज॒स्यो
वृ॑ष॒भो
वि॒श्वरू॑प
Halfverse: b
उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् ।
उ॒त
त्र्यु॒धा
पु॑रु॒ध
प्र॒जावा॑न्
।
उ॒त
त्रिउ॒धा
पु॑रु॒ध
प्र॒जावा॑न्
।
Halfverse: c
त्र्य॑नी॒कः प॑त्यते॒ माहि॑नावा॒न्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ।।
त्र्य॑नी॒कः प॑त्यते॒ माहि॑नावान्
त्र्यनी॒कः
प॑त्यते
माहि॑नावान्
त्रिअनी॒कः
प॑त्यते
माहि॑नावान्
Halfverse: d
स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ।।
स
रे॑तो॒धाः
वृ॑ष॒भः
शश्व॑तीनाम्
।।
स
रे॑तो॒धा
वृ॑ष॒भः
शश्व॑तीनाम्
।।
Verse: 4
Halfverse: a
अ॒भीक॑ आसाम्पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ ।
अ॒भीक॑ आसाम्पद॒वीर॑बोध्य्
अ॒भीके
आसाम्
पद॒वीः
अ॑बोधि
अ॒भीक
आसाम्
पद॒वीर्
अबोधि
Halfverse: b
आदि॒त्याना॑मह्वे॒ चारु॒ नाम॑ ।
आ॑दि॒त्याना॑म्
अह्वे
चारु
नाम
।
आ॑दि॒त्याना॑म्
अहुवे
चारु
नाम
।
Halfverse: c
आप॑श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज॑न्तीः॒ परि॑ षीमवृञ्जन् ।।
आप॑श्चिदस्मा अरमन्त दे॒वीः
आपः
चित्
अस्मै
अरमन्त
दे॒वीः
आप॑श्
चिद्
अस्मा
अरमन्त
दे॒वीः
Halfverse: d
पृथ॒ग्व्रज॑न्तीः॒ परि॑ षीमवृञ्जन् ।।
पृथ॑क्
व्रज॑न्तीः
परि
सीम्
अवृञ्जन्
।।
पृथ॑ग्
व्रज॑न्तीः
परि
षीम्
अवृञ्जन्
।।
Verse: 5
Halfverse: a
त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् ।
त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नाम्
त्री
स॒धस्था
सिन्धवः
त्रिः
क॑वी॒नाम्
त्री
ष॒धस्था
सिन्धवस्
त्रिः
क॑वी॒नाम्
Halfverse: b
उ॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् ।
उ॒त
त्रि॑मा॒ता
वि॒दथे॑षु
स॒म्राट्
।
उ॒त
त्रि॑मा॒ता
वि॒दथे॑षु
स॒म्राट्
।
Halfverse: c
ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ।।
ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॑स्
ऋ॒ताव॑रीः
योष॑णाः
ति॒स्रः
अप्याः
ऋ॒ताव॑रीर्
योष॑णास्
ति॒स्रो
अप्या॑स्
Halfverse: d
त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ।।
त्रिः
आ
दि॒वः
वि॒दथे
पत्य॑मानाः
।।
त्रिर्
आ
दि॒वो
वि॒दथे
पत्य॑मानाः
।।
Verse: 6
Halfverse: a
त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ ।
त्रिरा दि॒वः स॑वित॒र्वार्या॑णि
त्रिः
आ
दि॒वः
स॑वितर्
वार्या॑णि
त्रिर्
आ
दि॒वः
स॑वितर्
वारि॑याणि
Halfverse: b
दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ ।
दि॒वेदि॑वे
आ
सु॑व
त्रिः
नः
अह्नः
।
दि॒वेदि॑व
आ
सु॑व
त्रिर्
नो
अह्नः
।
Halfverse: c
त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ।।
त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि
त्रि॒धातु
रा॒यः
आ
सु॑व+
वसू॑नि
त्रि॒धातु
रा॒य
आ
सु॑वा
वसू॑नि
Halfverse: d
भग॑ त्रातर्धिषणे सा॒तये॑ धाः ।।
भग
त्रातर्
धिषणे
सा॒तये
धाः
।।
भग
त्रातर्
धिषणे
सा॒तये
धाः
।।
Verse: 7
Halfverse: a
त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।
त्रिरा दि॒वः स॑वि॒ता सो॑षवीति
त्रिः
आ
दि॒वः
स॑वि॒ता
सो॑षवीति
त्रिर्
आ
दि॒वः
स॑वि॒ता
सो॑षवीति
Halfverse: b
राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।
राजा॑ना
मि॒त्रावरु॑णा
सुपा॒णी
।
राजा॑ना
मि॒त्रावरु॑णा
सुपा॒णी
।
Halfverse: c
आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्न॑म्भिक्षन्त सवि॒तुः स॒वाय॑ ।।
आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी
आपः
चित्
अस्य
रोद॑सी
चित्
उ॒र्वी
आप॑श्
चिद्
अस्य
रोद॑सी
चिद्
उ॒र्वी
Halfverse: d
रत्न॑म्भिक्षन्त सवि॒तुः स॒वाय॑ ।।
रत्न॑म्
भिक्षन्त
सवि॒तुः
स॒वाय
।।
रत्न॑म्
भिक्षन्त
सवि॒तुः
स॒वाय
।।
Verse: 8
Halfverse: a
त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राज॒न्त्यसु॑रस्य वी॒राः ।
त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि
त्रिः
उ॑त्त॒मा
दू॒णशा
रोच॒नानि
त्रिर्
उत्त॒मा
दू॒णशा
रोच॒नानि
Halfverse: b
त्रयो॑ राज॒न्त्यसु॑रस्य वी॒राः ।
त्रयः
राजन्ति
असु॑रस्य
वी॒राः
।
त्रयो
राजन्ति
असु॑रस्य
वी॒राः
।
Halfverse: c
ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ सन्तु दे॒वाः ।।
ऋ॒तावा॑न इषि॒रा दू॒ळभा॑सस्
ऋ॒तावा॑नः
इषि॒राः
दू॒ळभा॑सः
ऋ॒तावा॑न
इषि॒रा
दू॒ळभा॑सस्
Halfverse: d
त्रिरा दि॒वो वि॒दथे॑ सन्तु दे॒वाः ।।
त्रिः
आ
दि॒वः
वि॒दथे
सन्तु
दे॒वाः
।।
त्रिर्
आ
दि॒वो
वि॒दथे
सन्तु
दे॒वाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.