TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 434
Hymn: 80_(434)
Verse: 1
Halfverse: a
द्यु॒तद्या॑मानम्बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीम् ।
द्यु॒तद्या॑मानम्बृह॒तीमृ॒तेन
द्यु॒तद्या॑मानम्
बृह॒तीम्
ऋ॒तेन
द्यु॒तद्या॑मानम्
बृह॒तीम्
ऋ॒तेन
Halfverse: b
ऋ॒ताव॑रीमरु॒णप्सुं॑ विभा॒तीम् ।
ऋ॒ताव॑रीम्
अरु॒णप्सु॑म्
विभा॒तीम्
।
ऋ॒ताव॑रीम्
अरु॒णप्सुं
विभा॒तीम्
।
Halfverse: c
दे॒वीमु॒षसं॒ स्व॑रा॒वह॑न्ती॒म्प्रति॒ विप्रा॑सो म॒तिभि॑र्जरन्ते ।।
दे॒वीमु॒षसं॒ स्व॑रा॒वह॑न्तीम्
दे॒वीम्
उ॒षस॑म्
स्व॑र्
आ॒वह॑न्तीम्
दे॒वीम्
उ॒षसं
सुव॑र्
आ॒वह॑न्तीम्
Halfverse: d
प्रति॒ विप्रा॑सो म॒तिभि॑र्जरन्ते ।।
प्रति
विप्रा॑सः
म॒तिभिः
जरन्ते
।।
प्रति
विप्रा॑सो
म॒तिभि॑र्
जरन्ते
।।
Verse: 2
Halfverse: a
ए॒षा जनं॑ दर्श॒ता बो॒धय॑न्ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ ।
ए॒षा जनं॑ दर्श॒ता बो॒धय॑न्ती
ए॒षा
जन॑म्
दर्श॒ता
बो॒धय॑न्ती
ए॒षा
जनं
दर्श॒ता
बो॒धय॑न्ती
Halfverse: b
सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ ।
सु॒गान्
प॒थः
कृ॑ण्व॒ती
या॑ति
अग्रे
।
सु॒गान्
प॒थः
कृ॑ण्व॒ती
या॑ति
अग्रे
।
Halfverse: c
बृ॑हद्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यछ॒त्यग्रे॒ अह्ना॑म् ।।
बृ॑हद्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वा
बृ॑हद्र॒था
बृ॑ह॒ती
वि॑श्वमि॒न्वा
बृ॑हद्र॒था
बृ॑ह॒ती
वि॑श्वमि॒न्वा
Halfverse: d
उ॒षा ज्योति॑र्यछ॒त्यग्रे॒ अह्ना॑म् ।।
उ॒षाः
ज्योतिः
यछति
अग्रे
अह्ना॑म्
।।
उ॒षा
ज्योति॑र्
यछति
अग्रे
अह्ना॑म्
।।
Verse: 3
Halfverse: a
ए॒षा गोभि॑ररु॒णेभि॑र्युजा॒नास्रे॑धन्ती र॒यिमप्रा॑यु चक्रे ।
ए॒षा गोभि॑ररु॒णेभि॑र्युजा॒ना
ए॒षा
गोभिः
अरु॒णेभिः
युजा॒ना
ए॒षा
गोभि॑र्
अरु॒णेभि॑र्
युजा॒ना
Halfverse: b
अस्रे॑धन्ती र॒यिमप्रा॑यु चक्रे ।
अस्रे॑धन्ती
र॒यिम्
अप्रा॑यु
चक्रे
।
अस्रे॑धन्ती
र॒यिम्
अप्रा॑यु
चक्रे
।
Halfverse: c
प॒थो रद॑न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा॑रा॒ वि भा॑ति ।।
प॒थो रद॑न्ती सुवि॒ताय॑ दे॒वी
प॒थः
रद॑न्ती
सुवि॒ताय
दे॒वी
प॒थो
रद॑न्ती
सुवि॒ताय
दे॒वी
Halfverse: d
पु॑रुष्टु॒ता वि॒श्ववा॑रा॒ वि भा॑ति ।।
पु॑रुष्टु॒ता
वि॒श्ववा॑रा
वि
भा॑ति
।।
पु॑रुष्टु॒ता
वि॒श्ववा॑रा
वि
भा॑ति
।।
Verse: 4
Halfverse: a
ए॒षा व्ये॑नी भवति द्वि॒बर्हा॑ आविष्कृण्वा॒ना त॒न्व॑म्पु॒रस्ता॑त् ।
ए॒षा व्ये॑नी भवति द्वि॒बर्हा
ए॒षा
व्ये॑नी
भवति
द्वि॒बर्हाः
ए॒षा
विए॑नी
भवति
द्वि॒बर्हा
Halfverse: b
आविष्कृण्वा॒ना त॒न्व॑म्पु॒रस्ता॑त् ।
आ॑विष्कृण्वा॒ना
त॒न्व॑म्
पु॒रस्ता॑त्
।
आ॑विष्कृण्वा॒ना
त॒नुव॑म्
पु॒रस्ता॑त्
।
Halfverse: c
ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ।।
ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु
ऋ॒तस्य
पन्था॑म्
अनु
एति
सा॒धु
ऋ॒तस्य
पन्था॑म्
अनु
एति
सा॒धु
Halfverse: d
प्र॑जान॒तीव॒ न दिशो॑ मिनाति ।
प्र॑जान॒ती
इ॑व
न
दिशः
मिनाति
।
प्र॑जान॒तीव
न
दिशो
मिनाति
।।
Verse: 5
Halfverse: a
ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् ।
ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒ना
ए॒षा
शु॒भ्रा
न
त॒न्वः
विदा॒ना
ए॒षा
शु॒भ्रा
न
त॒नुवो
विदा॒ना
Halfverse: b
ऊ॒र्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् ।
ऊ॒र्ध्वा
इ॑व
स्ना॒ती
दृ॒शये
नः
अस्थात्
।
ऊ॒र्ध्वेव
स्ना॒ती
दृ॒शये
नो
अस्थात्
।
Halfverse: c
अप॒ द्वेषो॒ बाध॑माना॒ तमाँ॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ।।
अप॒ द्वेषो॒ बाध॑माना॒ तमाँ॑स्य्
अप
द्वेषः
बाध॑माना
तमां॑सि
अप
द्वेषो
बाध॑माना
तमां॑सि
Halfverse: d
उ॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ।।
उ॒षाः
दि॒वः
दु॑हि॒ता
ज्योति॑षा
आ
अ॑गात्
।।
उ॒षा
दि॒वो
दु॑हि॒ता
ज्योति॒षागा॑त्
।।
Verse: 6
Halfverse: a
ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्सः॑ ।
ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्
ए॒षा
प्र॑ती॒ची
दु॑हि॒ता
दि॒वः
नॄन्
ए॒षा
प्र॑ती॒ची
दु॑हि॒ता
दि॒वो
नॄन्
Halfverse: b
योषे॑व भ॒द्रा नि रि॑णीते॒ अप्सः॑ ।
योषा
इव
भ॒द्रा
नि
रि॑णीते
अप्सः
।
योषे॑व
भ॒द्रा
नि
रि॑णीते
अप्सः
।
Halfverse: c
व्यू॑र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ।।
व्यू॑र्ण्व॒ती दा॒शुषे॒ वार्या॑णि
व्यूर्ण्व॒ती
दा॒शुषे
वार्या॑णि
विऊर्ण्व॒ती
दा॒शुषे
वारि॑याणि
Halfverse: d
पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ।।
पुन॑र्
ज्योतिः
युव॒तिः
पू॒र्वथा
अकर्
।।
पुन॑र्
ज्योति॑र्
युव॒तिः
पू॒र्वथा॑कः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.