TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 435
Hymn: 81_(435)
Verse: 1
Halfverse: a
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो
यु॒ञ्जते
मनः
उ॒त
यु॑ञ्जते
धियः
यु॒ञ्जते
मन
उ॒त
यु॑ञ्जते
धियो
Halfverse: b
विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
विप्राः
विप्र॑स्य
बृह॒तः
वि॑प॒श्चितः
।
विप्रा
विप्र॑स्य
बृह॒तो
वि॑प॒श्चितः
।
Halfverse: c
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्
वि
होत्राः
दधे
वयुना॒वित्
एकः
इत्
वि
होत्रा
दधे
वयुना॒विद्
एक
इन्
Halfverse: d
म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।।
म॒ही
दे॒वस्य
सवि॒तुः
परि॑ष्टुतिः
।।
म॒ही
दे॒वस्य
सवि॒तुः
परि॑ष्टुतिः
।।
Verse: 2
Halfverse: a
विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।
विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः
विश्वा
रू॒पाणि
प्रति
मुञ्चते
क॒विः
विश्वा
रू॒पाणि
प्रति
मुञ्चते
क॒विः
Halfverse: b
प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।
प्र
अ॑सावीत्
भ॒द्रम्
द्वि॒पदे
चतु॑ष्पदे
।
प्रासा॑वीद्
भ॒द्रं
द्वि॒पदे
चतु॑ष्पदे
।
Halfverse: c
वि नाक॑मख्यत्सवि॒ता वरे॒ण्यो ऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ।।
वि नाक॑मख्यत्सवि॒ता वरे॒ण्यो
वि
नाक॑म्
अख्यत्
सवि॒ता
वरे॑ण्यः
वि
नाक॑म्
अख्यत्
सवि॒ता
वरे॑णियो
Halfverse: d
ऽनु प्र॒याण॑मु॒षसो॒ वि रा॑जति ।।
अनु
प्र॒याण॑म्
उ॒षसः
वि
रा॑जति
।।
अनु
प्र॒याण॑म्
उ॒षसो
वि
रा॑जति
।।
Verse: 3
Halfverse: a
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्
यस्य
प्र॒याण॑म्
अनु
अ॒न्ये
इत्
य॒युः
यस्य
प्र॒याण॑म्
अनु
अ॒न्य
इद्
य॒युर्
Halfverse: b
दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
दे॒वाः
दे॒वस्य
महि॒मान॑म्
ओज॑सा
।
दे॒वा
दे॒वस्य
महि॒मान॑म्
ओज॑सा
।
Halfverse: c
यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजाँ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ।।
यः पार्थि॑वानि विम॒मे स एत॑शो
यः
पार्थि॑वानि
विम॒मे
सः
।!।
एत॑शः
यः
पार्थि॑वानि
विम॒मे
स
एत॑शो
Halfverse: d
रजाँ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ।।
रजां॑सि
दे॒वः
स॑वि॒ता
म॑हित्व॒ना
।।
रजां॑सि
दे॒वः
स॑वि॒ता
म॑हित्व॒ना
।।
Verse: 4
Halfverse: a
उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि ।
उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒ना
उ॒त
या॑सि
सवितर्
त्रीणि
रोच॒ना
उ॒त
या॑सि
सवितस्
त्रीणि
रोच॒ना
Halfverse: b
उ॒त सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि ।
उ॒त
सूर्य॑स्य
र॒श्मिभिः
सम्
उच्यसि
।
उ॒त
सूर्य॑स्य
र॒श्मिभिः
सम्
उच्यसि
।
Halfverse: c
उ॒त रात्री॑मुभ॒यतः॒ परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ।।
उ॒त रात्री॑मुभ॒यतः॒ परी॑यस
उ॒त
रात्री॑म्
उभ॒यतः
परि
ईयसे
उ॒त
रात्री॑म्
उभ॒यतः
परी॑यस
Halfverse: d
उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ।।
उ॒त
मि॒त्रः
भ॑वसि
देव
धर्म॑भिः
।।
उ॒त
मि॒त्रो
भ॑वसि
देव
धर्म॑भिः
।।
Verse: 5
Halfverse: a
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः ।
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इद्
उ॒त
ई॑शिषे
प्रस॒वस्य
त्वम्
एकः
इत्
उ॒तेशि॑षे
प्रस॒वस्य
त्वम्
एक
इद्
Halfverse: b
उ॒त पू॒षा भ॑वसि देव॒ याम॑भिः ।
उ॒त
पू॒षा
भ॑वसि
देव
याम॑भिः
।
उ॒त
पू॒षा
भ॑वसि
देव
याम॑भिः
।
Halfverse: c
उ॒तेदं विश्व॒म्भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवित॒ स्तोम॑मानशे ।।
उ॒तेदं विश्व॒म्भुव॑नं॒ वि रा॑जसि
उ॒त
इ॒दम्
विश्व॑म्
भुव॑नम्
वि
रा॑जसि
उ॒तेदं
विश्व॑म्
भुव॑नं
वि
रा॑जसि
Halfverse: d
श्या॒वाश्व॑स्ते सवित॒ स्तोम॑मानशे ।।
श्या॒वाश्वः
ते
सवितर्
स्तोम॑म्
आनशे
।।
श्या॒वाश्व॑स्
ते
सवित
स्तोम॑म्
आनशे
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.