TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 499
Hymn: 58_(499)
Verse: 1
Halfverse: a
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्
शु॒क्रम्
ते
अ॒न्यत्
यज॒तम्
ते
अ॒न्यत्
शु॒क्रं
ते
अ॒न्यद्
यज॒तं
ते
अ॒न्यद्
Halfverse: b
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विषु॑रूपे
अह॑नी
द्यौः
इ॑व
असि
।
विषु॑रूपे
अह॑नी
द्यौर्
इवासि
।
Halfverse: c
विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ।।
विश्वा॒ हि मा॒या अव॑सि स्वधावो
विश्वाः
हि
मा॒याः
अव॑सि
स्वधावः
विश्वा
हि
मा॒या
अव॑सि
स्वधावो
Halfverse: d
भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ।।
भ॒द्रा
ते
पूषन्
इ॒ह
रा॒तिः
अ॑स्तु
।।
भ॒द्रा
ते
पूषन्न्
इ॒ह
रा॒तिर्
अस्तु
।।
Verse: 2
Halfverse: a
अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः ।
अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो
अ॒जाश्वः
पशु॒पाः
वाज॑पस्त्यः
अ॒जाशु॑वः
पशु॒पा
वाज॑पस्तियो
Halfverse: b
धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः ।
धि॑यंजि॒न्वः
भुव॑ने
विश्वे
अर्पि॑तः
।
धि॑यंजि॒न्वो
भुव॑ने
विश्वे
अर्पि॑तः
।
Halfverse: c
अष्ट्रा॑म्पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ।।
अष्ट्रा॑म्पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्
अष्ट्रा॑म्
पू॒षा
शि॑थि॒राम्
उ॒द्वरी॑वृजत्
अष्ट्रा॑म्
पू॒षा
शि॑थि॒राम्
उ॒द्वरी॑वृजत्
Halfverse: d
सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ।।
सं॒चक्षा॑णः
भुव॑ना
दे॒वः
ई॑यते
।।
सं॒चक्षा॑णो
भुव॑ना
दे॒व
ई॑यते
।।
Verse: 3
Halfverse: a
यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे
याः
ते
पूषन्
नावः
अ॒न्तर्
समु॒द्रे
यास्
ते
पूषन्
नावो
अ॒न्तः
स॑मु॒द्रे
Halfverse: b
हि॑र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति ।
हि॑र॒ण्ययीः
अ॒न्तरि॑क्षे
चर॑न्ति
।
हि॑र॒ण्ययी॑र्
अ॒न्तरि॑क्षे
चर॑न्ति
।
Halfverse: c
ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒छमा॑नः ।।
ताभि॑र्यासि दू॒त्यां सूर्य॑स्य
ताभिः
यासि
दू॒त्याम्
सूर्य॑स्य
ताभि॑र्
यासि
दूति॒यां
सूरि॑यस्य
Halfverse: d
कामे॑न कृत॒ श्रव॑ इ॒छमा॑नः ।।
कामे॑न
कृत
श्रवः
इ॒छमा॑नः
।।
कामे॑न
कृत
श्रव
इ॒छमा॑नः
।।
Verse: 4
Halfverse: a
पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या
पू॒षा
सु॒बन्धुः
दि॒वः
आ
पृ॑थि॒व्याः
पू॒षा
सु॒बन्धु॑र्
दि॒व
आ
पृ॑थि॒व्या
Halfverse: b
इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
इ॒ळः
पतिः
म॒घवा
द॒स्मव॑र्चाः
।
इ॒ळस्
पति॑र्
म॒घवा
द॒स्मव॑र्चाः
।
Halfverse: c
यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वञ्च॑म् ।।
यं दे॒वासो॒ अद॑दुः सू॒र्यायै
यम्
दे॒वासः
अद॑दुः
सू॒र्यायै
यं
दे॒वासो
अद॑दुः
सूरि॒यायै
Halfverse: d
कामे॑न कृ॒तं त॒वसं॒ स्वञ्च॑म् ।।
कामे॑न
कृ॒तम्
त॒वस॑म्
स्वञ्च॑म्
।।
कामे॑न
कृ॒तं
त॒वसं
सुअञ्च॑म्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.