TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 6
Paragraph: 6
{=
ŚBM
14.4.4.1-4} {=
ŚBK
16.3.6.1-3}
Verse: MK1
Sentence: a
त्र॒यं वा॒ इदं,
त्र॒यम्
वै
इद॒म्
Sentence: b
ना॒म रूपं क॒र्म.
ना॒म
रूप॒म्
क॒र्म
Sentence: c
ते॒षां ना॒म्नां वागि॒त्येत॒देषामुक्थ॒म्:
ते॒षाम्
ना॒म्नाम्
वा॒क्
इ॒ति
एत॒द्
एषाम्
उक्थ॒म्
Sentence: d
अ॒तो हि स॒र्वाणि ना॒मान्युत्ति॒ष्ठन्त्य्.
अ॒तस्
हि
स॒र्वाणि
ना॒मानि
उत्ति॒ष्ठन्ति
Sentence: e
एत॒देषाँ सा॒मैतद्धि स॒र्वैर्ना॒मभिः सम॒म्.
एत॒द्
एषा॒म्
सा॒म
एत॒द्
हि
स॒र्वैस्
ना॒मभिस्
सम॒म्
Sentence: f
एत॒देषां ब्र॒ह्मैतद्धि स॒र्वाणि ना॒मानि बिभ॒र्ति.
एत॒द्
एषाम्
ब्र॒ह्म
एत॒द्
हि
स॒र्वाणि
ना॒मानि
बिभ॒र्ति
Verse: MK2
Sentence: a
अ॒थ रूपा॒णां च॒क्षुरि॒त्येत॒देषामुक्थ॒म्:
अ॒थ
रूपा॒णाम्
च॒क्षुस्
इ॒ति
एत॒द्
एषाम्
उक्थ॒म्
Sentence: b
अ॒तो हि स॒र्वाणि रूपा॒ण्युत्ति॒ष्ठन्त्य्.
अ॒तस्
हि
स॒र्वाणि
रूपा॒णि
उत्ति॒ष्ठन्ति
Sentence: c
एत॒देषाँ सा॒मैतद्धि स॒र्वै रूपैः॒ सम॒म्.
एत॒द्
एषाम्
सा॒म
एत॒द्
हि
स॒र्वैस्
रूपै॒स्
सम॒म्
Sentence: d
एत॒देषां ब्र॒ह्मैतद्धि स॒र्वाणि रूपा॒णि बिभ॒र्ति.
एत॒द्
एषाम्
ब्र॒ह्म
एत॒द्
हि
स॒र्वाणि
रूपा॒णि
बिभ॒र्ति
Verse: MK3
Sentence: a
अ॒थ क॒र्मणामात्मे॒त्येत॒देषामुक्थ॒म्:
अ॒थ
क॒र्मणाम्
आत्मा
इ॒ति
एत॒द्
एषाम्
उक्थ॒म्
Sentence: b
अ॒तो हि स॒र्वाणि क॒र्माण्युत्ति॒ष्ठन्त्य्.
अ॒तस्
हि
स॒र्वाणि
क॒र्माणि
उत्ति॒ष्ठन्ति
Sentence: c
एत॒देषाँ सा॒मैतद्धि स॒र्वैः क॒र्मभिः सम॒म्.
एत॒द्
एषाम्
सा॒म
एत॒द्
हि
स॒र्वैस्
क॒र्मभिस्
सम॒म्
Sentence: d
एत॒देषां ब्र॒ह्मैतद्धि स॒र्वाणि क॒र्माणि बिभ॒र्ति.
एत॒द्
एषाम्
ब्र॒ह्म
एत॒द्
हि
स॒र्वाणि
क॒र्माणि
बिभ॒र्ति
Sentence: e
त॒देत॒त्त्रयँ सदे॒कमय॒मा॒त्मा॒त्मो ए॒कः स॒न्नेत॒त्त्रयं.
त॒द्
एत॒द्
त्रय॒म्
स॒त्
ए॒कम्
अय॒म्
आत्मा
आत्मा
उ
ए॒कस्
स॒न्
एत॒द्
त्रय॒म्
Sentence: f
त॒देत॒दमृ॒तँ सत्ये॒न छन्नं.
त॒द्
एत॒द्
अमृ॒तम्
सत्ये॒न
छन्न॒म्
Sentence: g
प्राणो वा॒ अमृ॒तं,
प्राण॒स्
वै
अमृ॒तम्
Sentence: h
नामरूपे॒ सत्यं;
नामरूपे
सत्य॒म्
Sentence: i
ता॒भ्यामयं॒ प्राण॒श्छन्नः.
ता॒भ्याम्
अय॒म्
प्राण॒स्
छन्न॒स्
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.