TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 7
Chapter: 2
Paragraph: 1
{=
ŚBM
14.5.1-9} {=
ŚBK
16.4.1}
Verse: MK1
Sentence: a
दृप्तबालाकि॒र्हानूचानो गा॒र्ग्य आस.
दृप्तबालाकि॒स्
ह
अनूचान॒स्
गा॒र्ग्यस्
आस
Sentence: b
स॒ होवाचा॒जातशत्रुं का॒श्यं:
स
ह
उवाच
अ॒जातशत्रुम्
का॒श्यम्
Sentence: c
ब्र॒ह्म ते ब्रवाणी॒ति.
ब्र॒ह्म
ते
ब्रवाणि
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुः:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
सह॒स्रमेत॒स्यां वाचि॒ दद्मो:
सह॒स्रम्
एत॒स्याम्
वाचि
दद्मस्
Sentence: f
जनको,
जनक॒स्
Sentence: g
जनक इ॒ति वै ज॒ना धावन्ती॒ति.
जनक॒स्
इ॒ति
वै
ज॒नास्
धावन्ति
इ॒ति
Verse: MK2
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वासा॒वादित्ये पु॒रुष,
य॒स्
एव
असौ
आदित्ये
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
अतिष्ठाः स॒र्वेषां भूता॒नां मूर्धा राजे॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
अतिष्ठा॒स्
स॒र्वेषाम्
भूता॒नाम्
मूर्धा
रा॒ज
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
ऽतिष्ठाः स॒र्वेषां भूता॒नां मूर्धा रा॒जा भवति.
अतिष्ठा॒स्
स॒र्वेषाम्
भूता॒नाम्
मूर्धा
रा॒जा
भवति
Verse: MK3
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वासौ॒ चन्द्रे पु॒रुष,
य॒स्
एव
असौ
चन्द्रे
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
बृहन्पा॒ण्दरवासाः सो॒मो राजे॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
बृह॒न्
पा॒ण्डरवासास्
सो॒मस्
रा॒जा
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपास्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
ऽहर्हर्ह सुतः प्र॒सुतो भवति,
अ॒हर्हर्
ह
सुत॒स्
प्र॒सुतस्
भवति
Sentence: i
नास्या॒न्नं क्षीयते.
न
अस्य
अ॒न्नम्
क्षीयते
Verse: MK4
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वायं॒ विद्यु॒ति पु॒रुष,
य॒स्
एव
अय॒म्
विद्यु॒ति
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठास्.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
तेजस्वी॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
तेजस्वी
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
तेजस्वी॒ ह भवति,
तेजस्वी
ह
भवति
Sentence: i
तेजस्वि॒नी हास्य प्रजा॒ भवति.
तेजस्वि॒नी
ह
अस्य
प्रजा
भवति
Verse: MK5
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वाय॒माकाशे पु॒रुष,
य॒स्
एव
अय॒म्
आकाशे
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठाः.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
पूर्णम॒प्रवर्ती॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
पूर्ण॒म्
अ॒प्रवर्ति
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
पूर्य॒ते प्रज॒या पशु॒भिर्,
पूर्य॒ते
प्रज॒या
पशु॒भिस्
Sentence: i
नास्यास्मा॒ल्लोका॒त्प्रजो॒द्वर्तते.
न
अस्य
अस्मा॒द्
लोका॒द्
प्रजा
उ॒द्वर्तते
Verse: MK6
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वायं॒ वायौ पु॒रुष,
य॒स्
एव
अय॒म्
वायौ
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
इ॒न्द्रो वैकुण्ठो॒ ऽपराजिता सेने॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
इ॒न्द्रस्
वैकुण्ठ॒स्
अ॒पराजिता
से॒ना
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
जिष्णुर्हा॒पराजिष्णुर्भवत्यन्यतस्त्यजायी.
जिष्णु॒स्
ह
अ॒पराजिष्णुस्
भवति
अन्यतस्त्यजायी
Verse: MK7
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वाय॒मग्नौ पु॒रुष,
य॒स्
एव
अय॒म्
अग्नौ
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
विषास॒हिरि॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
विषास॒हिस्
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
विषास॒हिर्ह भवति,
विषास॒हिस्
ह
भवति
Sentence: i
विषास॒हिर्हास्य प्रजा॒ भवति.
विषास॒हिस्
ह
अस्य
प्रजा
भवति
Verse: MK8
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वाय॒मप्सु पु॒रुष,
य॒स्
एव
अय॒म्
अप्सु
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठाः.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
प्रतिरूप इ॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
प्रतिरूप॒स्
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
प्र॒तिरूपँ है॒वैनमु॒पगच्छति,
प्र॒तिरूपम्
ह
एव
एनम्
उ॒पगच्छति
Sentence: i
ना॒प्रतिरूपम्,
न
अ॒प्रतिरूपम्
Sentence: j
अ॒थो प्र॒तिरुपो ऽस्माज्जायते.
अ॒थ
उ
प्र॒तिरुपस्
अस्माद्
जायते
Verse: MK9
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वाय॒मादर्शे पु॒रुष,
य॒स्
एव
अय॒म्
आदर्शे
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
रोचिष्णुरि॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
रोचिष्णु॒स्
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
रोचिष्णु॒र्ह भवति,
रोचिष्णु॒स्
ह
भवति
Sentence: i
रोचिष्णु॒र्हास्य प्रजा॒ भवत्य्,
रोचिष्णु॒स्
ह
अस्य
प्रजा
भवति
Sentence: j
अ॒थो यैः॒ संनिग॒च्छति,
अ॒थ
उ
यै॒स्
संनिग॒च्छति
Sentence: k
स॒र्वाँस्तान॒तिरोचते.
स॒र्वान्
ता॒न्
अ॒तिरोचते
Verse: M10/K11
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वायं॒ दिक्षु पु॒रुष,
य॒स्
एव
अय॒म्
दिक्षु
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
द्विती॒यो ऽनपग इ॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
द्विती॒यस्
अनपग॒स्
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
द्विती॒यवान्ह भवति,
द्विती॒यवान्
ह
भवति
Sentence: i
नास्माद्गण॒श्छिद्यते.
न
अस्माद्
गण॒स्
छिद्यते
Verse: M11/K10
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वायं य॒न्तं पश्चाच्श॒ब्दो ऽनूदे॒त्य्,
य॒स्
एव
अय॒म्
य॒न्तम्
पश्चा॒द्
श॒ब्दस्
अनूदे॒ति
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
असुरि॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
असु॒स्
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
स॒र्वँ है॒वास्मिँ॒ल्लोक आ॒युरेति,
स॒र्वम्
ह
एव
अस्मि॒न्
लोके
आ॒युस्
एति
Sentence: i
नैनं पुरा॒ काला॒त्प्राणो॒ जहाति.
न
एनम्
पुरा
काला॒द्
प्राण॒स्
जहाति
Verse: MK12
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वायं॒ छायाम॒यः पु॒रुष,
य॒स्
एव
अय॒म्
छायाम॒यस्
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
मृत्युरि॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
मृत्यु॒स्
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्ते,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
स॒र्वँ है॒वास्मिँ॒ल्लोक आ॒युरेति,
स॒र्वम्
ह
एव
अस्मि॒न्
लोके
आ॒युस्
एति
Sentence: i
नैनं पुरा॒ काला॒न्मृत्युरा॒गच्छति.
न
एनम्
पुरा
काला॒द्
मृत्यु॒स्
आ॒गच्छति
Verse: MK13
Sentence: a
स॒ होवाच गा॒र्ग्यो:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: b
य॒ ए॒वाय॒मात्म॒नि पु॒रुषो,
य॒स्
एव
अय॒म्
आत्म॒नि
पु॒रुषस्
Sentence: c
एत॒मे॒वाहं ब्रह्मो॒पास इ॒ति.
एत॒म्
एव
अह॒म्
ब्र॒ह्म
उ॒पासे
इ॒ति
Sentence: d
स॒ ह उवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: e
मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा.
मा
मा
एत॒स्मिन्
सं॒वदिष्ठास्
Sentence: f
अत्मन्वी॒ति वा॒ अह॒मेतमु॒पास इ॒ति.
आत्मन्वी
इ॒ति
वै
अह॒म्
एत॒म्
उ॒पासे
इ॒ति
Sentence: g
स य॒ एत॒मेव॒मुपा॒स्त,
स
य॒स्
एत॒म्
एव॒म्
उपा॒स्ते
Sentence: h
आत्मन्वी॒ ह भवत्य्,
आत्मन्वी
ह
भवति
Sentence: i
आत्मन्वि॒नी हास्य प्रजा॒ भवति.
आत्मन्वि॒नी
ह
अस्य
प्रजा
भवति
Sentence: j
स॒ ह तूष्णी॒मास गा॒र्ग्यः.
स
ह
तूष्णी॒म्
आस
गा॒र्ग्यस्
Verse: MK14
Sentence: a
स! होवाचा॒जातशत्रुर्:
स
!
ह
उवाच
अ॒जातशत्रुस्
Sentence: b
एता॒वन्न्व्३ इ॒त्य्.
एता॒वन्
नु
इ॒ति
Sentence: c
एता॒वद्धी॒ति.
एता॒वत्
हि
इ॒ति
Sentence: d
नैता॒वता विदितं॒ भवती॒ति.
न
एता॒वता
विदित॒म्
भवति
इ॒ति
Sentence: e
स॒ होवाच गा॒र्ग्य:
स
ह
उवाच
गा॒र्ग्यस्
Sentence: f
उ॒प त्वायानी॒ति.
उ॒प
त्वा
अयानि
इ॒ति
Verse: MK15
Sentence: a
स॒ होवाचा॒जातशत्रुः:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: b
प्र॒तिलोमं वै तद्य॒द्ब्राह्मणः॒ क्षत्रि॒यमुपेया॒द्:
प्र॒तिलोमम्
वै
त॒द्
य॒द्
ब्राह्मण॒स्
क्षत्रि॒यम्
उपेया॒त्
Sentence: c
ब्र॒ह्म मे वक्ष्यती॒ति.
ब्र॒ह्म
मे
वक्ष्यति
इ॒ति
Sentence: d
व्येव॒ त्वा ज्ञपयिष्यामी॒ति.
वि
एव
त्वा
ज्ञपयिष्यामि
इ॒ति
Sentence: e
तं॒ पाणा॒वादायो॒त्तस्थौ.
त॒म्
पाणौ
आदा॒य
उ॒त्तस्थौ
Sentence: f
तौ॒ ह पु॒रुषँ सुप्तमा॒जग्मतुस्.
तौ
ह
पु॒रुषम्
सुप्त॒म्
आ॒जग्मतुस्
Sentence: g
त॒मेतैर्ना॒मभिरामन्त्रयां॒ चक्रे:
त॒म्
एतै॒स्
ना॒मभिस्
आमन्त्रया॒म्
चक्रे
Sentence: h
बृहन्पा॒ण्दरवासः,
बृह॒न्
पा॒ण्दरवासस्
Sentence: i
सो॒म राजन्नि॒ति.
सो॒म
राजन्
इ॒ति
Sentence: j
स नो॒त्तस्थौ.
स
न
उ॒त्तस्थौ
Sentence: k
तं॒ पाणि॒नापे॒षं बोधयां॒ चकार.
त॒म्
पाणि॒ना
आपे॒षम्
बोधया॒म्
चकार
Sentence: l
स हो॒त्तस्थौ.
स
ह
उ॒त्तस्थौ
Verse: MK16
Sentence: a
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: b
य॒त्रैष॒ एत॒त्सुप्तो॒ ऽभूद्,
य॒त्र
एष॒स्
एत॒द्
सुप्त॒स्
अ॒भूत्
Sentence: c
य॒ एष॒ विज्ञानम॒यः पु॒रुषः,
य॒स्
एष
विज्ञानम॒यस्
पु॒रुषस्
Sentence: d
क्वैष॒ तदा॒भूत्,
क्व
एष
तदा
अ॒भूत्
Sentence: e
कु॒त एतदा॒गादि॒ति.
कु॒तस्
एत॒द्
आ॒गात्
इ॒ति
Sentence: f
त॒दु ह न॒ मेने गा॒र्ग्यः.
त॒द्
उ
ह
न
मेने
गा॒र्ग्यस्
Verse: MK17
Sentence: a
स॒ होवाचा॒जातशत्रुर्:
स
ह
उवाच
अ॒जातशत्रुस्
Sentence: b
य॒त्रैष॒ एत॒त्सुप्तो॒ ऽभूद्,
य॒त्र
एष॒स्
एत॒द्
सुप्त॒स्
अ॒भूत्
Sentence: c
य॒ एष॒ विज्ञानम॒यः पु॒रुषस्,
य॒स्
एष
विज्ञानम॒यस्
पु॒रुषस्
Sentence: d
त॒देषां॒ प्राणा॒नां विज्ञा॒नेन विज्ना॒नमादा॒य,
त॒द्
एषा॒म्
प्राणा॒नाम्
विज्ञा॒नेन
विज्ना॒नम्
आदा॒य
Sentence: e
य॒ ए॒षो ऽन्तर्हृ॒दय आकाश॒स्,
य॒स्
एष॒स्
अन्त॒र्
हृ॒दये
आकाश॒स्
Sentence: f
त॒स्मिञ्छेते.
त॒स्मिन्
शेते
Verse: M18/K17
Sentence: a
ता॒नि यदा॒ गृह्णा॒त्य्,
ता॒नि
यदा
गृह्णा॒ति
Sentence: b
अ॒थ हैतत्पु॒रुषः स्व॒पिति ना॒म.
अ॒थ
ह
एत॒द्
पु॒रुषस्
स्व॒पिति
ना॒म
Sentence: c
त॒द्गृहीत॒ एव॒ प्राणो॒ भवति,
त॒द्
गृहीत॒स्
एव
प्राण॒स्
भवति
Sentence: d
गृहीता वा॒ग्,
गृहीता
वा॒क्
Sentence: e
गृहीतं च॒क्षुर्,
गृहीत॒म्
च॒क्षुस्
Sentence: f
गृहीतँ श्रो॒त्रं,
गृहीता॒म्
श्रो॒त्रम्
Sentence: g
गृहीतं म॒नः.
गृहीत॒म्
म॒नस्
Verse: M19/K18
Sentence: a
स य॒त्रैत॒त्स्वप्न्य॒या च॒रति,
स
य॒त्र
एत॒द्
स्वप्न्य॒या
च॒रति
Sentence: b
ते॒ हास्य लोका॒स्.
ते
ह
अस्य
लोका॒स्
Sentence: c
त॒दु॒तेव महाराजो भ॒वत्य्,
त॒द्
उत
इव
महाराज॒स्
भ॒वति
Sentence: d
उ॒तेव महाब्राह्मण,
उत
इव
महाब्राह्मण॒स्
Sentence: e
उ॒तेवोच्चावचं नि॒गच्छति.
उत
इव
उच्चावच॒म्
नि॒गच्छति
Verse: M20/K18
Sentence: a
स य॒था महाराजो जा॒नपदान्गृहीत्वा स्वे॒ जनपदे॒ यथाकामं॒ परिव॒र्तेतैव॒मे॒वैष॒ एत॒त्प्राणा॒न्त्वा स्वे श॒रीरे यथाकामं प॒रिवर्तते.
स
य॒था
महाराज॒स्
जा॒नपदान्
गृहीत्वा
स्वे
जनपदे
यथाकाम॒म्
परिव॒र्तेत
एव॒म्
एव
एष॒स्
एत॒द्
प्राणा॒न्
गृहीत्वा
स्वे
श॒रीरे
यथाकाम॒म्
प॒रिवर्तते
Verse: M21/K19
Sentence: a
अ॒थ यदा सु॒षुप्तो भ॒वति,
अ॒थ
यदा
सु॒षुप्तस्
भ॒वति
Sentence: b
यदा न क॒स्य चन वे॒द,
यदा
न
क॒स्य
चन
वे॒द
Sentence: c
हिता ना॒म ना॒द्यो द्वा॒सप्ततिः सह॒स्राणि हृ॒दयात्पुरीत॒तमभिप्र॒तिष्ठन्ते!.
हिता॒स्
ना॒म
ना॒द्यस्
द्वा॒सप्ततिस्
सह॒स्राणि
हृ॒दयाद्
पुरीत॒तम्
अभिप्र॒तिष्ठन्ते
!
Sentence: d
ता॒भिः प्रत्यवसृ॒प्य पुरीत॒ति शेते.
ता॒भिस्
प्रत्यवसृ॒प्य
पुरीत॒ति
शेते
Verse: M22/K19
Sentence: a
स
K
om
.
य॒था कुमारो
K
add
.
वा महाराजो
स
K
om
.
य॒था
कुमार॒स्
K
add
.
वा
महाराजस्
Sentence: b
वा महाब्राह्मणो॒ वातिघ्नी॒मानन्द॒स्य गत्वा श॒यीतैव॒मे॒वैष॒ एत॒च्छेते.
वा
महाब्राह्मण॒स्
वा
अतिघ्नी॒म्
आनन्द॒स्य
गत्वा
श॒यीत
एव॒म्
एव
एष॒स्
एत॒द्
शेते
Verse: M23/K20
Sentence: a
स य॒थोर्णवा॒भिस्त॒न्तुनोच्च॒रेद्,
स
य॒था
ऊर्णवा॒भिस्
त॒न्तुना
उच्च॒रेत्
Sentence: b
य॒था अग्नेः॒ क्षुद्रा॒ विष्पुलि॒ङ्गा व्युच्च॒रन्त्य्,
य॒था
अग्ने॒स्
क्षुद्रा॒स्
विष्पुलि॒ङ्गास्
व्युच्च॒रन्ति
Sentence: c
एव॒मे॒वास्मादात्म॒नः स॒र्वे प्राणाः स॒र्वे लोकाः स॒र्वे देवाः स॒र्वाणि भूता॒नि
स॒र्व एत॒ आत्म॒नो
K
om
.
सर्व...
व्यु॒च्चरन्ति.
एव॒म्
एव
अस्माद्
आत्म॒नस्
स॒र्वे
प्राणा॒स्
स॒र्वे
लोका॒स्
स॒र्वे
देवा॒स्
स॒र्वाणि
भूता॒नि
स॒र्वे एते॒ आत्म॒नस्
K
om
.
सर्वे
...
व्यु॒च्चरन्ति
Sentence: d
त॒स्योपनिष॒त्सत्य॒स्य सत्य॒मिति:
त॒स्य
उपनिष॒द्
सत्य॒स्य
सत्य॒म्
इति
Sentence: e
प्राणा वै॒ सत्यं,
प्राणा॒स्
वै
सत्य॒म्
Sentence: f
ते॒षामेष॒ सत्य॒म्.
ते॒षाम्
एष
सत्य॒म्
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.