TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 8
Paragraph: 2
{=
ŚBM
14.5.2} {=
ŚBK
16.4.2}
Verse: MK1
Sentence: a
यो॒ ह वै शि॒शुँ सा॒धानँ स॒प्रत्याधानँ स॒स्थूणँ स॒दामं वे॒द,
य॒स्
ह
वै
शि॒शुम्
सा॒धानम्
स॒प्रत्याधानम्
स॒स्थूणम्
स॒दामम्
वे॒द
Sentence: b
सप्त॒ ह द्विषतो भ्रा॒तृव्यान॒वरुणद्धि.
सप्त
ह
द्विषत॒स्
भ्रा॒तृव्यान्
अ॒वरुणद्धि
Verse: M2/K1
Sentence: a
अयं वाव शि॒शु॒र्यो ऽयं॒ मध्यमः॒ प्राण॒स्;
अय॒म्
वाव
शि॒शुस्
य॒स्
अय॒म्
मध्यम॒स्
प्राण॒स्
Sentence: b
त॒स्येद॒मे॒वाधा॒नम्,
त॒स्य
इद॒म्
एव
आधा॒नम्
Sentence: c
इदं॒ प्रत्याधा॒नं,
इद॒म्
प्रत्याधा॒नम्
Sentence: d
प्राणः॒ स्थूणा॒न्नं दा॒म.
प्राण॒स्
स्थूणा
अ॒न्नम्
दा॒म
Verse: M2/K2
Sentence: a
त॒मेताः॒ सप्ता॒क्षितय उ॒पतिष्ठन्ते:
त॒म्
एता॒स्
सप्त
अ॒क्षितयस्
उ॒पतिष्ठन्ते
Verse: M3/K2
Sentence: a
तद्या॒ इमा॒ अक्षँल्लो॒हिन्यो रा॒जयस्,
त॒द्
या॒स्
इमा॒स्
अक्ष॒न्
लो॒हिन्यस्
रा॒जयस्
Sentence: b
ता॒भिरेनँ रु॒द्रो ऽन्वा॒यत्तो;
ता॒भिस्
एनम्
रुद्र॒स्
अन्वा॒यत्तस्
Sentence: c
ऽथ या॒ अक्षन्ना॒पस्,
अ॒थ
या॒स्
अक्ष॒न्
आ॒पस्
Sentence: d
ता॒भिः पर्ज॒न्यो;
ता॒भिस्
पर्ज॒न्यस्
Sentence: e
या क॒नीनका,
या
क॒नीनका
Sentence: f
त॒यादित्यो;
त॒या
आदित्य॒स्
Sentence: g
य॒च्
छुक्लं
K
कृष्णं,
य॒द्
शुक्ल॒म्
K
कृष्णं
Sentence: h
ते॒नाग्नि॒र्;
ते॒न
अग्नि॒स्
Sentence: i
य॒च्
कृष्णं
K
शुक्लं,
य॒द्
कृष्ण॒म्
K
शुक्लं
Sentence: j
तेनेन्द्रो.
ते॒न
इ॒न्द्रस्
Sentence: k
ऽधरयैनं वर्तन्या॒ पृथि॒व्यन्वा॒यत्ता,
अ॒धरया
एनम्
वर्तन्या
पृथिवी
अन्वा॒यत्ता
Sentence: l
द्यौरु॒त्तरया.
द्यौ॒स्
उ॒त्तरया
Sentence: m
नास्या॒न्नं क्षीयते,
न
अस्य
अ॒न्नम्
क्षीयते
Sentence: n
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M4/K3
Sentence: a
त॒देष श्लो॒को भवत्य्:
त॒द्
एष
श्लो॒कस्
भवति
Sentence: b
अर्वा॒ग्बिलश्चमस॒ ऊर्ध्व॒बुध्नस्;
अर्वा॒ग्बिलस्
चमस॒स्
ऊर्ध्व॒बुध्नस्
Sentence: c
त॒स्मिन्य॒शो नि॒हितं विश्व॒रूपं.
त॒स्मिन्
य॒शस्
नि॒हितम्
विश्व॒रूपम्!!
Sentence: d
त॒स्यासत ऋ॒षयः सप्त ती॒रे;
त॒स्य
आसते
ऋ॒षयस्
सप्त
ती॒रे
Sentence: e
वा॒गष्टमी ब्र॒ह्मणा संविदाने॒ति.
वा॒क्
अष्टमी
ब्र॒ह्मणा
संविदाना
इ॒ति
Verse: M5/K3
Sentence: a
अर्वा॒ग्बिलश्चमस॒ ऊर्ध्व॒बुध्न इ॒तीदं तच्छ॒रीर,
अर्वा॒ग्बिलस्
चमस॒स्
ऊर्ध्व॒बुध्नस्
इ॒ति
इद॒म्
त॒द्
श॒रीरस्
Sentence: b
एष॒ ह्यर्वा॒ग्बिलश्चमस॒ ऊर्ध्व॒बुध्नस्.
एष
हि
अर्वा॒ग्बिलस्
चमस॒स्
ऊर्ध्व॒बुध्नस्
Sentence: c
त॒स्मिन्य॒शो नि॒हितं विश्व॒रूपमि॒ति,
त॒स्मिन्
य॒शस्
नि॒हितम्
विश्व॒रूपम्
इ॒ति
Sentence: d
प्राणा वै य॒शो नि॒हितं विश्व॒रूपं,
प्राणा॒स्
वै
य॒शस्
नि॒हितम्
विश्व॒रूपम्
Sentence: e
प्राणा॒नेत॒दाह.
प्राणा॒न्
एत॒द्
आह
Sentence: f
त॒स्यासत ऋ॒षयः सप्त ती॒र इ॒ति,
त॒स्य
आसते
ऋ॒षयस्
सप्त
ती॒रे
इ॒ति
Sentence: g
प्राणा वा ऋ॒षयः,
प्राणा॒स्
वै
ऋ॒षयस्
Sentence: h
प्राणा॒णेत॒दाह.
प्राणा॒ण्
एत॒द्
आह
Sentence: i
वा॒गष्टमी ब्र॒ह्मणा संविदाने॒ति,
वा॒क्
अष्टमी
ब्र॒ह्मणा
संविदाना
इ॒ति
Sentence: j
वा॒ग्घ्यष्टमी ब्र॒ह्मणा संवित्ते.
वा॒क्
हि
अष्टमी
ब्र॒ह्मणा
संवित्ते
Verse: M6/K4
Sentence: a
इमा॒वेव॒ गोतमभरद्वाजा॒व्:
इमौ
एव
गोतमभरद्वाजौ
Sentence: b
अय॒मेव गो॒तमो,
अय॒म्
एव
गो॒तमस्
Sentence: c
ऽयं भ॒रद्वाज.
अय॒म्
भ॒रद्वाजस्
Sentence: d
इमा॒वेव॒ विश्वामित्रजमदग्नी:
इमौ
एव
विश्वामित्रजमदग्नी
Sentence: e
अय॒मेव॒ विश्वा॒मित्रो,
अय॒म्
एव
विश्वा॒मित्रस्
Sentence: f
ऽयं॒ जमद॒ग्निर्.
अय॒म्
जमद॒ग्निस्
Sentence: g
इमा॒वेव॒ वसिष्ठकश्यपा॒व्:
इमौ
एव
वसिष्ठकश्यपौ
Sentence: h
अय॒मेव व॒सिष्ठो,
अय॒म्
एव
व॒सिष्ठस्
Sentence: i
ऽयं॒ कश्य॒पो.
अय॒म्
कश्य॒पस्
Sentence: j
वा॒गेवा॒त्रिर्:
वा॒क्
एव
अ॒त्रिस्
Sentence: k
वाचा ह्य॒न्नमद्यते,
वाचा
हि
अ॒न्नम्
अद्य॒ते
Sentence: l
ऽत्तिर्ह वै ना॒मैतद्यद॒त्रिरि॒ति.
अ॒त्तिस्
ह
वै
ना॒म
एत॒द्
य॒द्
अ॒त्रिस्
इ॒ति
Sentence: m
स॒र्वस्यात्ता॒ भवति,
स॒र्वस्य
अत्ता
भवति
Sentence: n
स॒र्वमस्या॒न्नं भवति,
स॒र्वम्
अस्य
अ॒न्नम्
भवति
Sentence: o
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.