TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 11
Paragraph: 5
{=
ŚBM
14.5.5} {=
ŚBK
16.4.5}
Verse: MK1
Sentence: a
इयं॒ पृथिवी स॒र्वेषां भूता॒नां म॒ध्व्,
इय॒म्
पृथिवी
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्यै॒ पृथिव्यै स॒र्वाणि भूता॒नि म॒धु;
अस्यै
पृथिव्यै
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्यां॒ पृथिव्यां॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्या॒म्
पृथिव्या॒म्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒स्चाय॒मध्यात्मँ॒ शारीर॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
शारीर॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्म,
इद॒म्
ब्र॒ह्म
Sentence: g
इदँ स॒र्वम्.
इद॒म्
स॒र्वम्
Verse: MK2
Sentence: a
इमा आ॒पः स॒र्वेषां भूता॒नां म॒ध्व्,
इमा॒स्
आ॒पस्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
आसा॒मपाँ स॒र्वाणि भूता॒नि म॒धु;
आसा॒म्
अपा॒म्
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मा॒स्वप्सु॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
आसु
अप्सु
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मँ॒ रैतस॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
रैतस॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्म,
इद॒म्
ब्र॒ह्म
Sentence: g
इदँ स॒र्वम्.
इद॒म्
स॒र्वम्
Verse: MK3
Sentence: a
अय॒मग्निः स॒र्वेषां भूता॒नां म॒ध्व्,
अय॒म्
अग्नि॒स्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्याग्नेः स॒र्वाणि भूता॒नि म॒धु;
अस्य
अग्ने॒स्
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्नग्नौ॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
अग्नौ
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मं॒ वाङ्म॒यस्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
वाङ्म॒यस्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्म,
इद॒म्
ब्र॒ह्म
Sentence: g
इदँ स॒र्वम्.
इद॒म्
स॒र्वम्
Verse: M4/K10
Sentence: a
अय॒माकाशः स॒र्वेषां भूता॒नां म॒ध्व्,
अय॒म्
आकाश॒स्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्याकाश॒स्य स॒र्वाणि भूता॒नि म॒धु;
अस्य
आकाश॒स्य
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्नाकाशे॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
आकाशे
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मँ हृ॒द्याकाश॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
हृ॒दि
आकाश॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: M5/K4
Sentence: a
अयं॒ वायुः स॒र्वेषां भूता॒नां म॒ध्व्,
अय॒म्
वायु॒स्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्य वायोः स॒र्वाणि भूता॒नि म॒धु;
अस्य
वायो॒स्
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्वायौ॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
वायौ
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मं॒ प्राण॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
प्राण॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेदं॒ अमृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: M6/K5
Sentence: a
अय॒मादित्यः स॒र्वेषां भूता॒नां म॒ध्व्,
अय॒म्
आदित्य॒स्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्यादित्य॒स्य स॒र्वाणि भूता॒नि म॒धु;
अस्य
आदित्य॒स्य
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्नादित्ये॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
आदित्ये
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मं॒ चाक्षुष॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
चाक्षुष॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: MK7
Sentence: a
अयं॒ चन्द्रः स॒र्वेषां भूता॒नां म॒ध्व्,
अय॒म्
चन्द्र॒स्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्य चन्द्र॒स्य स॒र्वाणि भूता॒नि म॒धु;
अस्य
चन्द्र॒स्य
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्चन्द्रे॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
चन्द्रे
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मं॒ मानस॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
मानस॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: M8/K6
Sentence: a
इमा दि॒शः स॒र्वेषां भूता॒नां म॒ध्व्,
इमा॒स्
दि॒शस्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
आसां॒ दिशाँ स॒र्वाणि भूता॒नि म॒धु;
आसा॒म्
दिशा॒म्
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मासु॒ दिक्षु॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
आसु
दिक्षु
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मँ॒ श्रौत्रः॒ प्रातिश्रुत्क॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
श्रौत्र॒स्
प्रातिश्रुत्क॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: M9/K8
Sentence: a
इयं॒ विद्युत्स॒र्वेषां भूता॒नं म॒ध्व्,
इय॒म्
विद्यु॒त्
स॒र्वेषाम्
भूता॒नम्
म॒धु
Sentence: b
अस्यै॒ विद्यु॒तः स॒र्वाणि भूता॒नि म॒धु;
अस्यै
विद्यु॒तस्
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्यां॒ विद्यु॒ति तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्या॒म्
विद्यु॒ति
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मं॒ तैजस॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
तैजस॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: M10/K9
Sentence: a
अयँ॒ स्तनयित्नुः स॒र्वेषां भुता॒नां म॒ध्व्,
अय॒म्
स्तनयित्नु॒स्
स॒र्वेषाम्
भुता॒नाम्
म॒धु
Sentence: b
अस्य स्तनयित्नोः स॒र्वाणि भूता॒नि म॒धु;
अस्य
स्तनयित्नो॒स्
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्त्स्तनयित्नौ॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
स्तनयित्नौ
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मँ॒ शाब्दः॒ सौवर॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
शाब्द॒स्
सौवर॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: MK11
Sentence: a
अयं॒ धर्मः स॒र्वेषां भूता॒नां म॒ध्व्,
अय॒म्
धर्म॒स्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्य धर्म॒स्य स॒र्वाणि भूता॒नि म॒धु;
अस्य
धर्म॒स्य
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्धर्मे॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
धर्मे
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मं॒ धार्म॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
धार्म॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: MK12
Sentence: a
इदँ॒ सत्यँ स॒र्वेषां भूता॒नां म॒ध्व्,
इद॒म्
सत्य॒म्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्य सत्य॒स्य स॒र्वाणि भूता॒नि म॒धु;
अस्य
सत्य॒स्य
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्त्सत्ये॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
सत्ये
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मँ॒ सात्य॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
सात्य॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: MK13
Sentence: a
इदं॒ मानुषँ स॒र्वेषां भूता॒नां म॒ध्व्,
इद॒म्
मानुष॒म्
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्य मानुष॒स्य स॒र्वाणि भूता॒नि म॒धु;
अस्य
मानुष॒स्य
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्मानुषे॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
मानुषे
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मध्यात्मं॒ मानुष॒स्तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अध्यात्म॒म्
मानुष॒स्
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: MK14
Sentence: a
अय॒मात्मा स॒र्वेषां भूता॒नां म॒ध्व्,
अय॒म्
आत्मा
स॒र्वेषाम्
भूता॒नाम्
म॒धु
Sentence: b
अस्यात्म॒नः स॒र्वाणि भूता॒नि म॒धु;
अस्य
आत्म॒नस्
स॒र्वाणि
भूता॒नि
म॒धु
Sentence: c
य॒श्चाय॒मस्मि॒न्नात्म॒नि तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
अस्मि॒न्
आत्म॒नि
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: d
य॒श्चाय॒मात्मा॒ तेजोम॒यो ऽमृतम॒यः पु॒रुषो,
य॒स्
च
अय॒म्
आत्मा
तेजोम॒यस्
अमृतम॒यस्
पु॒रुषस्
Sentence: e
ऽय॒मेव स॒ यो ऽय॒मा॒त्मेद॒ममृ॒तम्,
अय॒म्
एव
स
य॒स्
अय॒म्
आत्मा
इद॒म्
अमृ॒तम्
Sentence: f
इदं ब्र॒ह्मेदँ स॒र्वम्.
इद॒म्
ब्र॒ह्म
इद॒म्
स॒र्वम्
Verse: MK15
Sentence: a
स वा॒ अय॒मात्मा स॒र्वेषां अ॒धिपतिः,
स
वै
अय॒म्
आत्मा
स॒र्वेषाम्
अ॒धिपतिस्
Sentence: b
स॒र्वेषां भूता॒नाँ रा॒जा.
स॒र्वेषाम्
भूता॒नाम्
रा॒जा
Sentence: c
तद्य॒था रथनाभौ॒ च रथनेमौ चा॒राः स॒र्वे स॒मर्पिता,
त॒द्
य॒था
रथनाभौ
च
रथनेमौ
च
अ॒रास्
स॒र्वे
स॒मर्पितास्
Sentence: d
एव॒मे॒वास्मि॒न्नात्म॒नि स॒र्वाणि भूता॒नि स॒र्वे देवाः स॒र्वे लोकाः स॒र्वे प्राणाः स॒र्व एत॒ आत्मा॒नः स॒मर्पिताः.
एव॒म्
एव
अस्मि॒न्
आत्म॒नि
स॒र्वाणि
भूता॒नि
स॒र्वे
देवा॒स्
स॒र्वे
लोका॒स्
स॒र्वे
प्राणा॒स्
स॒र्वे
एते
आत्मा॒नस्
स॒मर्पितास्
Verse: MK16
Sentence: a
इदं वै तन्म॒धु दध्य॒ङ्ङाथर्व॒णो ऽश्वि॒भ्यामुवाच.
इद॒म्
वै
त॒द्
म॒धु
दध्य॒ङ्
आथर्वण॒स्
अश्वि॒भ्याम्
उवाच
Sentence: b
त॒देतदृ॒षिः प॒श्यन्नवोचत्
{R̥V
1.116.12}:
त॒द्
एत॒द्
ऋ॒षिस्
प॒श्यन्
अवोचत्
Sentence: c
त॒द्वां,
त॒द्
वाम्
Sentence: d
नरा,
नरा
Sentence: e
सन॒ये दँ॒स उग्र॒म्
सन॒ये
दँ॒सस्
उग्र॒म्
Sentence: f
आवि॒ष्कृणोमि,
आवि॒स्
कृणोमि
Sentence: g
तन्यतुर्न॒ वृष्टिं,
तन्यतु॒स्
न
वृष्टि॒म्
Sentence: h
दध्य॒ङ्ह यन्म॒ध्वाथर्वणो॒ वाम्
दध्य॒ङ्
ह
य॒द्
म॒धु
आथर्वण॒स्
वाम्
Sentence: i
अ॒श्वस्य शीर्ष्णा प्र य॒दीमुवाचे॒ति.
अ॒श्वस्य
शीर्ष्णा
प्र
य॒द्
ईम्
उवा॒च
इ॒ति
Verse: MK17
Sentence: a
इदं वै तन्म॒धु दध्य॒ङ्ङाथर्व॒णो ऽश्वि॒भ्यामुवाच.
इद॒म्
वै
त॒द्
म॒धु
दध्य॒ङ्
आथर्वण॒स्
अश्वि॒भ्याम्
उवाच
Sentence: b
त॒देतदृ॒षिः प॒श्यन्नवोचत्
{R̥V
1.117.22}:
त॒द्
एत॒द्
ऋ॒षिस्
प॒श्यन्
अवोचत्
Sentence: c
आथर्वणा॒याश्विना दधीचे॒ ऽश्व्यँ शि॒रः प्र॒त्ऐरयतं;
आथर्वणा॒य
अश्विना
दधीचे
अ॒श्व्यम्
शि॒रस्
प्र॒ति
ऐरयतम्
Sentence: d
स॒ वां म॒धु प्र॒ वोचदृताय॒न्
स
वाम्
म॒धु
प्र
वोचत्
ऋताय॒न्
Sentence: e
त्वाष्ट्रं य॒द्,
त्वाष्ट्र॒म्
य॒द्
Sentence: f
दस्राव्,
दस्रौ
Sentence: g
अपिक॒क्ष्यं वामि॒ति.
अपिक॒क्ष्यम्
वाम्
इ॒ति
Verse: MK18
Sentence: a
इदं वै तन्म॒धु दध्य॒ङ्ङाथर्व॒णो ऽश्वि॒भ्यामुवाच.
इद॒म्
वै
त॒द्
म॒धु
दध्य॒ङ्
आथर्वण॒स्
अश्वि॒भ्याम्
उवाच
Sentence: b
त॒देतदृ॒षिः प॒श्यन्नवोचत्:
त॒द्
एत॒द्
ऋ॒षिस्
प॒श्यन्
अवोचत्
Sentence: c
पु॒रश्चक्रे द्विप॒दः,
पु॒रस्
चक्रे
द्विप॒दस्
Sentence: d
पु॒रश्चक्रे च॒तुष्पदः;
पु॒रस्
चक्रे
च॒तुष्पदस्
Sentence: e
पु॒रः स,
पु॒रस्
स
Sentence: f
पक्षी॒ भुत्वा,
पक्षी
भुत्वा
Sentence: g
पु॒रः पु॒रुष आ॒विशदि॒ति.
पु॒रस्
पु॒रुषस्
आ॒विशत्
इ॒ति
Sentence: h
स वा॒ अयं पु॒रुषः स॒र्वासु पूर्षु॒ पुरिशयो;
स
वै
अय॒म्
पु॒रुषस्
स॒र्वासु
पूर्षु
पुरिशय॒स्
Sentence: i
नैनेन किं॒ चना॒नावृतं,
न
एनेन
कि॒म्
चन
अ॒नावृतम्
Sentence: j
नैनेन किं॒ चना॒सम्वृतम्.
न
एनेन
कि॒म्
चन
अ॒सम्वृतम्
Verse: MK19
Sentence: a
इदं वै तन्म॒धु दध्य॒ङ्ङाथर्व॒णो ऽश्वि॒भ्यामुवाच.
इद॒म्
वै
त॒द्
म॒धु
दध्य॒ङ्
आथर्वण॒स्
अश्वि॒भ्याम्
उवाच
Sentence: b
त॒देतदृ॒षिः प॒श्यन्नवोचत्
{R̥V
6.47.18}:
त॒द्
एत॒द्
ऋ॒षिस्
प॒श्यन्
अवोचत्
Sentence: c
रूपँ॒रूपं प्र॒तिरूपो बभूव,
रूपँ॒रूपम्
प्र॒तिरूपस्
बभूव
Sentence: d
त॒दस्य रूपं॒ प्रतिच॒क्षणाये
त॒द्
अस्य
रूप॒म्
प्रतिच॒क्षणाय
Sentence: e
न्द्रो माया॒भिः पुरुरू॒प ईयते,
इ॒न्द्रस्
माया॒भिस्
पुरुरू॒पस्
ईयते
Sentence: f
युक्ता॒ ह्यस्य ह॒रयः शता दशे॒त्य्.
युक्ता॒स्
हि
अस्य
ह॒रयस्
शता
द॒श
इ॒ति
Sentence: g
अयं वै ह॒रयो,
अय॒म्
वै
ह॒रयस्
Sentence: h
ऽयं वै॒ दश च सह॒स्रणि बहू॒नि चानन्ता॒नि च.
अय॒म्
वै
द॒श
च
सह॒स्रणि
बहू॒नि
च
अनन्ता॒नि
च
Sentence: i
त॒देतद्ब्र॒ह्मापूर्व॒मनपर॒मनन्तर॒मबाह्य॒म्,
त॒द्
एत॒द्
ब्र॒ह्म
अपूर्व॒म्
अनपर॒म्
अनन्तर॒म्
अबाह्य॒म्
Sentence: j
अय॒मात्मा ब्र॒ह्म स॒र्वानुभूर्.
अय॒म्
आत्मा
ब्र॒ह्म
स॒र्वानुभूस्
Sentence: k
इ॒त्यनुशा॒सनम्.
इ॒ति
अनुशा॒सनम्
Verse: M20
[pro
M
5,20-22
scribit
K
6;
vide
infra]
Sentence: a
अ॒थ वँश॒स्.
अ॒थ
वँश॒स्
Sentence: b
त॒दिदं॒ वयँ
त॒द्
इद॒म्
वय॒म्
Sentence: c
शौ॒र्पणाय्याच्,
शौ॒र्पणाय्याद्
Sentence: d
छौ॒र्पणय्यो गौ॒तमाद्,
शौ॒र्पणय्यस्
गौ॒तमाद्
Sentence: e
गौ॒तमो व॒त्स्याद्,
गौ॒तमस्
व॒त्स्याद्
Sentence: f
व॒त्स्यो वा॒त्स्याच्च पाराशर्या॒च्च,
व॒त्स्यस्
वा॒त्स्याद्
च
पाराशर्या॒द्
च
Sentence: g
पा॒राशर्यः सां॒क्त्याच्च भा॒रद्वाजाच्च,
पा॒राशर्यस्
सां॒क्त्याद्
च
भा॒रद्वाजाद्
च
Sentence: h
भा॒रद्वाज अौदावहे॒श्च शा॒ण्डिल्याच्च,
भा॒रद्वाजस्
अौदावहे॒स्
च
शा॒ण्डिल्याद्
च
Sentence: i
शा॒ण्डिल्यो वै॒जवापाच्च गौतमा॒च्च,
शा॒ण्डिल्यस्
वै॒जवापाद्
च
गौतमा॒द्
च
Sentence: j
गौ॒तमो वै॒जवापायनाच्च वैष्टपुरेया॒च्च,
गौ॒तमस्
वै॒जवापायनाद्
च
वैष्टपुरेया॒द्
च
Sentence: k
वै॒ष्टपुरेयः शा॒ण्डिल्याच्च रौहिणायना॒च्च,
वै॒ष्टपुरेयस्
शा॒ण्डिल्याद्
च
रौहिणायना॒द्
च
Sentence: l
रौ॒हिणायनः शौ॒नकाच्चात्रेया॒च्च रैभ्या॒च्च,
रौ॒हिणायनस्
शौ॒नकाद्
च
आत्रेया॒द्
च
रैभ्या॒द्
च
Sentence: m
रै॒भ्यः पौ॒तिमाष्यायणाच्च कौण्डिन्यायना॒च्च,
रै॒भ्यस्
पौ॒तिमाष्यायणाद्
च
कौण्डिन्यायना॒द्
च
Sentence: n
कौ॒ण्डिन्यायनः कौ॒ण्डिन्यात्,
कौ॒ण्डिन्यायनस्
कौ॒ण्डिन्याद्
Sentence: o
कौ॒ण्डिन्यः कौ॒ण्डिन्यात्,
कौ॒ण्डिन्यस्
कौ॒ण्डिन्याद्
Sentence: p
कौ॒ण्डिन्यः कौण्डिन्या॒च्चाग्निवेश्या॒च्च,
कौ॒ण्डिन्यस्
कौण्डिन्या॒द्
च
आग्निवेश्या॒द्
च
Verse: M21
[pro
M
5,20-22
scribit
K
6;
vide
infra]
,
Sentence: a
आग्निवेश्यः सौ॒तवात्,
आग्निवेश्य॒स्
सौ॒तवाद्
Sentence: b
सौ॒तवः पा॒राशर्यात्,
सौ॒तवस्
पा॒राशर्याद्
Sentence: c
पा॒राशर्यः जा॒तुकर्ण्याज्,
पा॒राशर्यस्
जा॒तुकर्ण्याद्
Sentence: d
जा॒तुकर्ण्यो भा॒रद्वाजाद्,
जा॒तुकर्ण्यस्
भा॒रद्वाजाद्
Sentence: e
भा॒रद्वाजो भारद्वाजा॒च्चासुरायणा॒च्च गौतमा॒च्च,
भा॒रद्वाजस्
भारद्वाजा॒द्
च
आसुरायणा॒द्
च
गौतमा॒द्
च
Sentence: f
गौ॒तमो भा॒रद्वाजाद्,
गौ॒तमस्
भा॒रद्वाजाद्
Sentence: g
भा॒रद्वाजो वैजवापायना॒च्,
भा॒रद्वाजस्
वैजवापायना॒द्
Sentence: h
वै॒जवापायनः कशिकायनेः,
वै॒जवापायनस्
कशिकायने॒स्
Sentence: i
कशिकायनि॒र् घृतकौशिका॒द्,
कशिकायनि॒स्
घृतकौशिका॒द्
Sentence: j
घृतकौशिकः पा॒राशर्यात्,
घृतकौशिक॒स्
पा॒राशर्याद्
Sentence: k
पा॒राशर्यः पा॒राशर्यात्,
पा॒राशर्यस्
पा॒राशर्याद्
Sentence: l
पा॒राशर्यः जा॒तुकर्ण्याज्,
पा॒राशर्यस्
जा॒तुकर्ण्याद्
Sentence: m
जा॒तुकर्ण्यो भा॒रद्वाजाद्,
जा॒तुकर्ण्यस्
भा॒रद्वाजाद्
Sentence: n
भा॒रद्वाजो भारद्वाजा॒च्चासुरायणा॒च्यस्का॒च्च,
भा॒रद्वाजस्
भारद्वाजा॒द्
च
आसुरायणा॒द्
यस्का॒द्
च
Sentence: o
आसुरायण॒स् त्रै॒वणेस्,
आसुरायण॒स्
त्रै॒वणेस्
Sentence: p
त्रै॒वणिर् अौ॒पजन्धनेर्,
त्रै॒वणिस्
अौ॒पजन्धनेस्
Sentence: q
अौ॒पजन्धनिर् आ॒सुरेर्,
अौ॒पजन्धनिस्
आ॒सुरेस्
Sentence: r
आ॒सुरिर् भा॒रद्वाजाद्,
आ॒सुरिस्
भा॒रद्वाजाद्
Sentence: s
भा॒रद्वाजो आत्रेया॒त्,
भा॒रद्वाजस्
आत्रेया॒द्
Verse: M22
[pro
M
5,20-22
scribit
K
6;
vide
infra]
,
Sentence: a
आत्रेयो मा॒ण्टेः,
आत्रेय॒स्
मा॒ण्टेस्
Sentence: b
मा॒ण्टिर् गौ॒तमाद्,
मा॒ण्टिस्
गौ॒तमाद्
Sentence: c
गौ॒तमो गौ॒तमाद्,
गौ॒तमस्
गौ॒तमाद्
Sentence: d
गौ॒तमो वा॒त्स्याद्,
गौ॒तमस्
वा॒त्स्याद्
Sentence: e
वा॒त्स्यः शा॒ण्डिल्याच्,
वा॒त्स्यस्
शा॒ण्डिल्याद्
Sentence: f
छा॒ण्डिल्यः कै॒शोर्यात्का॒प्यात्,
शा॒ण्डिल्यस्
कै॒शोर्याद्
का॒प्याद्
Sentence: g
कै॒शोर्यः का॒प्यः कुमारहरिता॒त्,
कै॒शोर्यस्
का॒प्यस्
कुमारहरिता॒द्
Sentence: h
कुमारहरितो गालवा॒द्,
कुमारहरित॒स्
गालवा॒द्
Sentence: i
गालवो विदर्भीकौण्डिन्या॒द्,
गालव॒स्
विदर्भीकौण्डिन्या॒द्
Sentence: j
विदर्भीकौण्डिन्यो बा॒भवाद्वत्सनपा॒द्,
विदर्भीकौण्डिन्य॒स्
बा॒भवाद्
वत्सनपा॒द्
Sentence: k
बा॒भवः पथः सौ॒भरात्,
बा॒भवस्
पथ॒स्
सौ॒भराद्
Sentence: l
प॒न्थाः सौ॒भरो ऽया॒स्यादाङ्गिरसा॒द्,
प॒न्थास्
सौ॒भरस्
अया॒स्याद्
आङ्गिरसा॒द्
Sentence: m
अया॒स्यो आङ्गिरस आ॒भुतेस्त्वा॒ष्ट्राद्,
अया॒स्यस्
आङ्गिरस॒स्
आ॒भुतेस्
त्वा॒ष्ट्राद्
Sentence: n
आ॒भुतिः त्वा॒ष्ट्रो विश्व॒रूपाद्त्वा॒ष्ट्राद्,
आ॒भुतिस्
त्वा॒ष्ट्रस्
विश्व॒रूपाद्
त्वा॒ष्ट्राद्
Sentence: o
विश्व॒रूपस्त्वा॒ष्ट्रो ऽश्वि॒भ्याम्,
विश्व॒रूपस्
त्वा॒ष्ट्रस्
अश्वि॒भ्याम्
Sentence: p
अश्वि॒नौ दधि॒च आथर्वना॒द्,
अश्वि॒नौ
दधि॒चस्
आथर्वना॒द्
Sentence: q
दध्य॒ङ्ङाथर्वनो ऽथर्वनो दै॒वाद्,
दध्य॒ङ्
आथर्वन॒स्
अ॒थर्वनस्
दै॒वाद्
Sentence: r
अ॒थर्वा दै॒व मृत्योः॒ प्राद्धँ॒सनान्,
अ॒थर्वा
दै॒वस्
मृत्यो॒स्
प्राद्धँ॒सनाद्
Sentence: s
मृत्युः॒ प्राद्धँ॒सनः स॒नगात्,
मृत्यु॒स्
प्राद्धँ॒सनस्
स॒नगाद्
Sentence: t
स॒नगः परेष्टि॒णः
स॒नगस्
परेष्टि॒णस्
Sentence: u
परेष्टी ब्र॒ह्मनो
परेष्टी
ब्र॒ह्मनस्
Sentence: v
ब्र॒ह्म स्व॒यंभु,
ब्र॒ह्म
स्व॒यंभु,
Sentence: w
ब्र॒ह्मणे न॒मः.
ब्र॒ह्मणे
न॒मस्
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.