TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 10
Paragraph: 4
{=
ŚBM
14.5.4} {=
ŚBK
16.4.4}
Verse: MK1
Sentence: a
मै॒त्रेयी॒ति होवाच या॒ज्ञवल्क्य,
मै॒त्रेयि
इ॒ति
ह
उवाच
या॒ज्ञवल्क्यस्
Sentence: b
उद्यास्यन्वा॒ अरे ऽह॒मस्मात्स्था॒नादस्मि.
उद्यास्य॒न्
वै
अरे
अह॒म्
अस्माद्
स्था॒नाद्
अस्मि
Sentence: c
ह॒न्त ते ऽन॒या कात्यायन्या॒न्तं कर॒वाणी॒ति.
ह॒न्त
ते
अन॒या
कात्यायन्या
अ॒न्तम्
कर॒वाणि
इ॒ति
Verse: MK2
Sentence: a
सा॒ होवाच मै॒त्रेयी:
सा
ह
उवाच
मै॒त्रेयी
Sentence: b
य॒न्म इयं,
य॒द्
मे
इय॒म्
Sentence: c
भगोः,
भगोस्
Sentence: d
स॒र्वा पृथिवी॒ वित्ते॒न पूर्णा स्या॒त्,
स॒र्वा
पृथिवी
वित्ते॒न
पूर्णा
स्या॒त्
Sentence: e
क॒थं ते॒नामृ॒ता स्यामि॒ति.
क॒थम्
ते॒न
अमृ॒ता
स्याम्
इ॒ति
Sentence: f
ने॒ति होवाच या॒ज्ञवल्क्यो;
न
इ॒ति
ह
उवाच
या॒ज्ञवल्क्यस्
Sentence: g
य॒थै॒वोपकरण॒वतां जीवितं,
य॒था
एव
उपकरण॒वताम्
जीवित॒म्
Sentence: h
त॒थैव॒ ते जीवितँ॒ स्याद्;
त॒था
एव
ते
जीवित॒म्
स्यात्
Sentence: i
अमृतत्व॒स्य तु॒ ना॒शास्ति वित्तेने॒ति.
अमृतत्व॒स्य
तु
न
आशा
अस्ति
वित्ते॒न
इ॒ति
Verse: MK3
Sentence: a
सा॒ होवाच मै॒त्रेयी:
सा
ह
उवाच
मै॒त्रेयी
Sentence: b
ये॒नाहं॒ नामृ॒ता स्यां,
ये॒न
अह॒म्
न
अमृ॒ता
स्या॒म्
Sentence: c
कि॒महं ते॒न कुर्यां.
कि॒म्
अह॒म्
ते॒न
कुर्याम्
Sentence: d
य॒देव भ॒गवान्वे॒द,
य॒द्
एव
भ॒गवान्
वे॒द
Sentence: e
त॒देव॒ मे ब्रूही॒ति.
त॒द्
एव
मे
ब्रूहि
इ॒ति
Verse: MK4
Sentence: a
स॒ होवाच या॒ज्ञवल्क्यः:
स
ह
उवाच
या॒ज्ञवल्क्यस्
Sentence: b
प्रिया
वतारे
K
बतारे
नः सती॒ प्रियं॒ भाषस.
प्रिया
वत
अरे
K
बत
अरे
नस्
सती
प्रिय॒म्
भाषसे
Sentence: c
ए॒ह्य्,
ए॒हि
Sentence: d
आ॒स्व
K
आस्स्व,
आ॒स्व
K
आस्स्व
Sentence: e
व्या॒ख्यास्यामि ते.
व्या॒ख्यास्यामि
ते
Sentence: f
व्याच॒क्षाणस्य तु॒ मे नि॒दिध्यासस्वे॒ति.
व्याच॒क्षाणस्य
तु
मे
नि॒दिध्यासस्व
इ॒ति
Sentence: g
ब्र॒वितु भ॒गवानि॒ति
K
om
.
ब्रवितु....
ब्र॒वितु
भ॒गवान्
इ॒ति
K
om
.
ब्रवितु
...
Verse: MK5
Sentence: a
स॒ होवाच
या॒ज्ञवल्क्यो
K
om.
]:
स
ह
उवाच
या॒ज्ञवल्क्यस्
K
om.
]
Sentence: b
न वा॒ अरे प॒त्युः का॒माय प॒तिः प्रियो॒ भवत्य्,
न
वै
अरे
प॒त्युर्
का॒माय
प॒तिस्
प्रिय॒स्
भवति
Sentence: c
आत्म॒नस्तु का॒माय प॒तिः प्रियो॒ भवति.
आत्म॒नस्
तु
का॒माय
प॒तिस्
प्रिय॒स्
भवति
Sentence: d
न वा॒ अरे जाया॒यै का॒माय जाया॒ प्रिया॒ भवत्य्,
न
वै
अरे
जाया॒यै
का॒माय
जाया
प्रिया
भवति
Sentence: e
आत्म॒नस्तु का॒माय जाया॒ प्रिया॒ भवति.
आत्म॒नस्
तु
का॒माय
जाया
प्रिया
भवति
Sentence: f
न वा॒ अरे पुत्रा॒णां का॒माय पुत्राः॒ प्रिया॒ भवन्त्य्,
न
वै
अरे
पुत्रा॒णाम्
का॒माय
पुत्रा॒स्
प्रिया॒स्
भवन्ति
Sentence: g
आत्म॒नस्तु का॒माय पुत्राः॒ प्रिया॒ भवन्ति.
आत्म॒नस्
तु
का॒माय
पुत्रा॒स्
प्रिया॒स्
भवन्ति
Sentence: h
न वा॒ अरे वित्त॒स्य का॒माय वित्तं॒ प्रियं॒ भवत्य्,
न
वै
अरे
वित्त॒स्य
का॒माय
वित्त॒म्
प्रिय॒म्
भवति
Sentence: i
आत्म॒नस्तु का॒माय वित्तं॒ प्रियं॒ भवति.
आत्म॒नस्
तु
का॒माय
वित्त॒म्
प्रिय॒म्
भवति
Sentence: j
न वा॒ अरे ब्र॒ह्मणः का॒माय ब्र॒ह्म प्रियं॒ भवत्य्,
न
वै
अरे
ब्र॒ह्मणस्
का॒माय
ब्र॒ह्म
प्रिय॒म्
भवति
Sentence: k
आत्म॒नस्तु का॒माय ब्र॒ह्म प्रियं॒ भवति.
आत्म॒नस्
तु
का॒माय
ब्र॒ह्म
प्रिय॒म्
भवति
Sentence: l
न वा॒ अरे क्षत्र॒स्य का॒माय क्षत्रं॒ प्रियं॒ भवत्य्,
न
वै
अरे
क्षत्र॒स्य
का॒माय
क्षत्र॒म्
प्रिय॒म्
भवति
Sentence: m
आत्म॒नस्तु का॒माय क्षत्रं॒ प्रियं॒ भवति.
आत्म॒नस्
तु
का॒माय
क्षत्र॒म्
प्रिय॒म्
भवति
Sentence: n
न वा॒ अरे लोका॒नां का॒माय लोकाः॒ प्रिया॒ भवन्त्य्,
न
वै
अरे
लोका॒नाम्
का॒माय
लोका॒स्
प्रिया॒स्
भवन्ति
Sentence: o
आत्म॒नस्तु का॒माय लोकाः॒ प्रिया॒ भवन्ति.
आत्म॒नस्
तु
का॒माय
लोका॒स्
प्रिया॒स्
भवन्ति
Sentence: p
न वा॒ अरे देवा॒नां का॒माय देवाः॒ प्रिया॒ भवन्त्य्,
न
वै
अरे
देवा॒नाम्
का॒माय
देवा॒स्
प्रिया॒स्
भवन्ति
Sentence: q
आत्म॒नस्तु का॒माय देवाः॒ प्रिया॒ भवन्ति.
आत्म॒नस्
तु
का॒माय
देवा॒स्
प्रिया॒स्
भवन्ति
Sentence: r
न वा॒ अरे भूता॒नां का॒माय भूता॒नि प्रिया॒णि भवन्त्य्,
न
वै
अरे
भूता॒नाम्
का॒माय
भूता॒नि
प्रिया॒णि
भवन्ति
Sentence: s
आत्म॒नस्तु का॒माय भूता॒नि प्रिया॒णि भवन्ति.
आत्म॒नस्
तु
का॒माय
भूता॒नि
प्रिया॒णि
भवन्ति
Sentence: t
न वा॒ अरे स॒र्वस्य का॒माय स॒र्वं प्रियं॒ भवत्य्,
न
वै
अरे
स॒र्वस्य
का॒माय
स॒र्वम्
प्रिय॒म्
भवति
Sentence: u
आत्म॒नस्तु का॒माय स॒र्वं प्रियं॒ भवत्य्.
आत्म॒नस्
तु
का॒माय
स॒र्वम्
प्रिय॒म्
भवति
Sentence: v
आत्मा वा॒ अरे द्रष्ट॒व्यः श्रोत॒व्यो मन्त॒व्यो निदिध्यासित॒व्यो.
आत्मा
वै
अरे
द्रष्ट॒व्यस्
श्रोत॒व्यस्
मन्त॒व्यस्
निदिध्यासित॒व्यस्
Sentence: w
मै॒त्रेय्य्,
मै॒त्रेयि
Sentence: x
आत्म॒नो वा॒ अरे द॒र्शनेन श्र॒वणेन मत्या॒ विज्ञा॒नेनेदँ स॒र्वं विदित॒म्.
आत्म॒नस्
वै
अरे
द॒र्शनेन
श्र॒वणेन
मत्या
विज्ञा॒नेन
इद॒म्
स॒र्वम्
विदित॒म्
Verse: MK6
Sentence: a
ब्र॒ह्म तं प॒रादा॒द्यो ऽन्य॒त्रात्म॒नो ब्र॒ह्म वे॒द;
ब्र॒ह्म
त॒म्
प॒रादात्
य॒स्
अन्य॒त्र
आत्म॒नस्
ब्र॒ह्म
वे॒द
Sentence: b
क्षत्रं तं प॒रादा॒द्यो ऽन्य॒त्रात्म॒नः क्षत्रं वे॒द;
क्षत्र॒म्
त॒म्
प॒रादात्
य॒स्
अन्य॒त्र
आत्म॒नस्
क्षत्र॒म्
वे॒द
Sentence: c
लोकास्तं प॒रादु॒र्यो ऽन्य॒त्रात्म॒नो लोकान्वे॒द;
लोका॒स्
त॒म्
प॒रादुर्
य॒स्
अन्य॒त्र
आत्म॒नस्
लोका॒न्
वे॒द
Sentence: d
देवास्तं प॒रादु॒र्यो ऽन्य॒त्रात्म॒नो देवान्वे॒द;
देवा॒स्
त॒म्
प॒रादुर्
य॒स्
अन्य॒त्र
आत्म॒नस्
देवा॒न्
वे॒द
Sentence: e
भूता॒नि तं प॒रादु॒र्यो ऽन्य॒त्रात्म॒नो भूता॒नि वे॒द;
भूता॒नि
त॒म्
प॒रादुर्
य॒स्
अन्य॒त्र
आत्म॒नस्
भूता॒नि
वे॒द
Sentence: f
स॒र्वं तं प॒रादा॒द्यो ऽन्य॒त्रात्म॒नः स॒र्वं वे॒देदं ब्र॒ह्मेदं॒ क्षत्र॒म्,
स॒र्वम्
त॒म्
प॒रादात्
य॒स्
अन्य॒त्र
आत्म॒नस्
स॒र्वम्
वे॒द
इद॒म्
ब्र॒ह्म
इद॒म्
क्षत्र॒म्
Sentence: g
इमे॒ लोका,
इमे
लोका॒स्
Sentence: h
इमे॒ देवा,
इमे
देवा॒स्
Sentence: i
इमा॒नि भूता॒नीदँ स॒र्वं,
इमा॒नि
भूता॒नि
इद॒म्
स॒र्वम्
Sentence: j
य॒दय॒मात्मा.
य॒द्
अय॒म्
आत्मा
Verse: MK7
Sentence: a
स य॒था दुन्दुभे॒र्हन्य॒मानस्य न बा॒ह्याञ्छ॒ब्दाञ्छक्नुयाद्ग्र॒हणाय,
स
य॒था
दुन्दुभे॒स्
हन्य॒मानस्य
न
बा॒ह्यान्
श॒ब्दान्
शक्नुयात्
ग्र॒हणाय
Sentence: b
दुन्दुभेस्तु ग्र॒हणेन दुन्दुभ्याघात॒स्य वा श॒ब्दो गृहीतः;
दुन्दुभे॒स्
तु
ग्र॒हणेन
दुन्दुभ्याघात॒स्य
वा
श॒ब्दस्
गृहीत॒स्
Verse: M8/K9
Sentence: a
स य॒था वी॒णायै वाद्य॒मानायै न बा॒ह्याञ्छ॒ब्दाञ्छक्नुयाद्ग्र॒हणाय,
स
य॒था
वी॒णायै
वाद्य॒मानायै
न
बा॒ह्यान्
श॒ब्दान्
शक्नुयात्
ग्र॒हणाय
Sentence: b
वी॒णायै तु ग्र॒हणेन वीणावाद॒स्य वा श॒ब्दो ग्र्हीतः;
वी॒णायै
तु
ग्र॒हणेन
वीणावाद॒स्य
वा
श॒ब्दस्
ग्र्हीत॒स्
Verse: M9/K8
Sentence: a
स य॒था शङ्ख॒स्य ध्माय॒मानस्य न बा॒ह्याञ्छ॒ब्दाञ्छक्नुयाद्ग्र॒हणाय,
स
य॒था
शङ्ख॒स्य
ध्माय॒मानस्य
न
बा॒ह्यान्
श॒ब्दान्
शक्नुयात्
ग्र॒हणाय
Sentence: b
शङ्ख॒स्य तु ग्र॒हणेन शङ्खध्म॒स्य वा श॒ब्दो गृहीतः;
शङ्ख॒स्य
तु
ग्र॒हणेन
शङ्खध्म॒स्य
वा
श॒ब्दस्
गृहीत॒स्
Verse: MK10
Sentence: a
स य॒थार्द्रैधाग्ने॒र्
अभ्या॒हितस्य
K
अभ्याहितात्
पृ॒थग्धूमा॒ विनिश्च॒रन्त्य्,
स
य॒था
आर्द्रैधाग्ने॒स्
अभ्या॒हितस्य
K
अभ्याहिताद्
पृ॒थक्
धूमा॒स्
विनिश्च॒रन्ति
Sentence: b
एव वा॒ अरे ऽस्य महतो॒ भूत॒स्य
नि॒श्वसितम्
K
निःश्वसितम्
एतद्य॒दृग्वेदो॒ यजुर्वेदः॒ सामवे॒दो ऽथर्वाङ्गिर॒स इतिहासः॒ पुराणं॒ विद्या॒ उपनिष॒दः श्लो॒काः सू॒त्राण्यनुव्याख्या॒नानि व्याख्या॒नन्य्;
एव
वै
अरे
अस्य
महत॒स्
भूत॒स्य
नि॒श्वसितम्
K
निःश्वसितम्
एत॒द्
य॒द्
ऋग्वेद॒स्
यजुर्वेद॒स्
सामवेद॒स्
अथर्वाङ्गिर॒सस्
इतिहास॒स्
पुराण॒म्
विद्या॒स्
उपनिष॒दस्
श्लो॒कास्
सू॒त्राणि
अनुव्याख्या॒नानि
व्याख्या॒ननि
Sentence: c
अ॒स्यै॒वैता॒नि स॒र्वाणि
नि॒श्वसितानि
क्
निःश्वसितानि.
अस्य
एव
एता॒नि
स॒र्वाणि
नि॒श्वसितानि
क्
निःश्वसितानि
Verse: MK11
Sentence: a
स य॒था स॒र्वासामपाँ॒ समुद्र॒ एकायन॒म्,
स
य॒था
स॒र्वासाम्
अपा॒म्
समुद्र॒स्
एकायन॒म्
Sentence: b
एवँ स॒र्वेषाँ स्पर्शा॒नां त्व॒गेकायन॒म्,
एव॒म्
स॒र्वेषाम्
स्पर्शा॒नाम्
त्व॒क्
एकायन॒म्
Sentence: c
एवँ स॒र्वेषां गन्धा॒नां ना॒सिके एकायन॒म्,
एव॒म्
स॒र्वेषाम्
गन्धा॒नाम्
ना॒सिके
एकायन॒म्
Sentence: d
एवँ स॒र्वेषाँ र॒सानां जि॒ह्वैकायन॒म्,
एव॒म्
स॒र्वेषाम्
र॒सानाम्
जिह्वा
एकायन॒म्
Sentence: e
एवँ स॒र्वेषाँ रूपा॒णां च॒क्षुरेकायन॒म्,
एव॒म्
स॒र्वेषाम्
रूपा॒णाम्
च॒क्षुस्
एकायन॒म्
Sentence: f
एवँ स॒र्वेषँ श॒ब्दानाँ श्रो॒त्रमेकायन॒म्,
एव॒म्
स॒र्वेषम्
श॒ब्दानाम्
श्रो॒त्रम्
एकायन॒म्
Sentence: g
एवँ स॒र्वेषाँ सङ्कल्पा॒नां
म॒न एकायन॒म्,
एव॒म्
स॒र्वेषाम्
सङ्कल्पा॒नाम्
म॒नस्
एकायन॒म्
[
K
variato
ordine
:]
मन एकायनम्,
मनस्
एकायनम्
Sentence: h
एवँ स॒र्वेषां वे॒दानां वा॒गेकायन॒म्,
एव॒म्
स॒र्वेषाम्
वे॒दानाम्
वा॒क्
एकायन॒म्
एवँ सर्वासां विद्यानाँ हृदयमेकायनम्,
एवम्
सर्वासाम्
विद्यानाम्
हृदयम्
एकायनम्
Sentence: i
एवँ स॒र्वेषां क॒र्मणाँ ह॒स्तावेकायन॒म्,
एव॒म्
स॒र्वेषाम्
क॒र्मणाम्
ह॒स्तौ
एकायन॒म्
एवँ सर्वेषां कर्मणाँ हस्तावेकायनम्,
एवम्
सर्वेषाम्
कर्मणाम्
हस्तौ
एकायनम्
Sentence: j
एवँ स॒र्वेषाम॒ध्वनां पा॒दावेकायन॒म्,
एव॒म्
स॒र्वेषाम्
अ॒ध्वनाम्
पा॒दौ
एकायन॒म्
एवँ सर्वेषामानन्दानामुपस्थ एकायनम्,
एवम्
सर्वेषाम्
आनन्दानाम्
उपस्थस्
एकायनम्
Sentence: k
एवँ स॒र्वेषामानन्दा॒नामुप॒स्थ एकायन॒म्,
एव॒म्
स॒र्वेषाम्
आनन्दा॒नाम्
उप॒स्थस्
एकायन॒म्
एवँ सर्वेषां विसर्गाणां पायुरेकायनम्,
एवम्
सर्वेषाम्
विसर्गाणाम्
पायुस्
एकायनम्
Sentence: l
एवँ स॒र्वेषां विसर्गा॒णां पा॒युरेकायन॒म्,
एव॒म्
स॒र्वेषाम्
विसर्गा॒णाम्
पा॒युस्
एकायन॒म्
एवँ सर्वेषामध्वनां पादावेकायनम्,
एवम्
सर्वेषाम्
अध्वनाम्
पादौ
एकायनम्
Sentence: m
एवँ स॒र्वासां विद्या॒नाँ हृ॒दयमेकायन॒म्
एव॒म्
स॒र्वासाम्
विद्या॒नाम्
हृ॒दयम्
एकायन॒म्
एवँ सर्वेषां वदानां वागेकायनम्.
एवम्
सर्वेषाम्
वदानाम्
वाक्
एकायनम्
Verse: MK12
Sentence: a
स य॒था सैन्धवखिल्य॒ उदके प्रा॒स्त उदक॒मे॒वानुविली॒येत,
स
य॒था
सैन्धवखिल्य॒स्
उदके
प्रा॒स्तस्
उदक॒म्
एव
अनुविली॒येत
Sentence: b
ना॒हास्योद्ग्र॒हणायैव
K
न हास्योद्ग्रहणायैव
स्याद्,
न
अ॒ह
अस्य
उद्ग्र॒हणाय
एव
K
न
ह
अस्य
उद्ग्रहणाय
एव
स्यात्
Sentence: c
य॒तोयत॒स्त्वाद॒दीत लव॒णमे॒वैवं वा॒ अर इदं॒ मह॒द्भूत॒मनन्त॒मपारं॒ विज्ञानघन॒ ए॒वैते॒भ्यो भूते॒भ्यः समुत्था॒य,
य॒तोयतस्
तु
आद॒दीत
लव॒णम्
एव
एव॒म्
वै
अरे
इद॒म्
मह॒त्
भूत॒म्
अनन्त॒म्
अपार॒म्
विज्ञानघन॒स्
एव
एते॒भ्यस्
भूते॒भ्यस्
समुत्था॒य
Sentence: d
ता॒न्ये॒वानुवि॒नश्यति;
ता॒नि
एव
अनुवि॒नश्यति
Sentence: e
न प्रे॒त्य सं॒ज्ञास्ती॒त्यरे ब्रवीमी॒ति होवाच या॒ज्ञवल्क्यः.
न
प्रे॒त्य
संज्ञा
अस्ति
इ॒ति
अरे
ब्रवीमि
इ॒ति
ह
उवाच
या॒ज्ञवल्क्यस्
Verse: MK13
Sentence: a
सा॒ होवाच मै॒त्रेय्य्:
सा
ह
उवाच
मै॒त्रेयी
Sentence: b
अ॒त्रैव॒ मा भ॒गवानमूमुहद्:
अ॒त्र
एव
मा
भ॒गवान्
अमूमुहत्
Sentence: c
न प्रे॒त्य सं॒ज्ञास्ती॒ति.
न
प्रे॒त्य
संज्ञा
अस्ति
इ॒ति
Verse: M14/K13
Sentence: a
स॒ होवाच
या॒ज्ञवल्क्यो
[K
om.
]:
स
ह
उवाच
या॒ज्ञवल्क्यस्
[K
om.
]
Sentence: b
न वा॒ अरे ऽहं मो॒हं ब्रवीम्य्;
न
वै
अरे
अह॒म्
मो॒हम्
ब्रवीमि
Sentence: c
अलं वा॒ अर इदं॒ विज्ञा॒नाय.
अल॒म्
वै
अरे
इद॒म्
विज्ञा॒नाय
Verse: M15/K14
Sentence: a
य॒त्र हि॒ द्वैत॒मिव भ॒वति,
य॒त्र
हि
द्वैत॒म्
इव
भ॒वति
[
K
variato
ordine
:]
Sentence: b
तदि॒तर इ॒तरं जिघ्रति,
त॒द्
इ॒तरस्
इ॒तरम्
जिघ्रति
तदितर इतरं पश्यति,
तद्
इतरस्
इतरम्
पश्यति
Sentence: c
तदि॒तर इ॒तरं पश्यति
त॒द्
इ॒तरस्
इ॒तरम्
पश्यति
तदितर इतरं जिघ्रति,
तद्
इतरस्
इतरम्
जिघ्रति
Sentence: d
तदि॒तर इ॒तरँ शृणोति,
त॒द्
इ॒तरस्
इ॒तरम्
शृणोति
Sentence: e
तदि॒तर इ॒तरमभि॒वदति,
त॒द्
इ॒तरस्
इ॒तरम्
अभि॒वदति
Sentence: f
तदि॒तर इ॒तरं मनुते,
त॒द्
इ॒तरस्
इ॒तरम्
मनुते
Sentence: g
तदि॒तर इ॒तरं वि॒जानाति.
त॒द्
इ॒तरस्
इ॒तरम्
वि॒जानाति
Verse: M16/K14
Sentence: a
य॒त्र॒ त्वस्य स॒र्वमा॒त्मैवा॒भूत्,
य॒त्र
तु
अस्य
स॒र्वम्
आत्मा
एव
अ॒भूत्
[
K
variato
ordine
:]
Sentence: b
तत्के॒न कं॒ पश्येत्,
त॒द्
के॒न
क॒म्
पश्येत्
तत्केन कं जिघ्रेत्,
तद्
केन
कम्
जिघ्रेत्
Sentence: c
तत्के॒न कं॒ जिघ्रेत्
त॒द्
के॒न
क॒म्
जिघ्रेत्
तत्केन कं पश्येत्,
तद्
केन
कम्
पश्येत्
Sentence: d
तत्के॒न कँ॒ शृणुयात्,
त॒द्
के॒न
क॒म्
शृणुयात्
Sentence: e
तत्के॒न क॒मभि॒वदेत्,
त॒द्
के॒न
क॒म्
अभि॒वदेत्
Sentence: f
तत्के॒न कं॒ मन्वीत,
त॒द्
के॒न
क॒म्
मन्वीत
Sentence: g
तत्के॒न कं वि॒जानीयाद्.
त॒द्
के॒न
क॒म्
वि॒जानीयात्
Sentence: h
ये॒नेदँ स॒र्वं विजाना॒ति,
ये॒न
इद॒म्
स॒र्वम्
विजाना॒ति
Sentence: i
तं के॒न वि॒जानीयाद्,
त॒म्
के॒न
वि॒जानीयात्
Sentence: j
विज्ञाता॒रमरे के॒न वि॒जानीयादि॒ति.
विज्ञाता॒रम्
अरे
के॒न
वि॒जानीयात्
इ॒ति
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.