TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 58
Hymn: 58
Verse: 1
Halfverse: a
नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः ।
नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते
नु+
चि॑त्
सहो॒जाः
अ॒मृतः
नि
तु॑न्दते
नू
चि॑त्
सहो॒जा
अ॒मृतो
नि
तु॑न्दते
Halfverse: b
होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः ।
होता
यत्
दू॒तः
अभ॑वत्
वि॒वस्व॑तः
।
होता
यद्
दू॒तो
अभ॑वद्
वि॒वस्व॑तः
।
Halfverse: c
वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ।।
वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम
वि
साधि॑ष्ठेभिः
प॒थिभिः
रजः
ममे
वि
साधि॑ष्ठेभिः
प॒थिभी
रजो
मम
Halfverse: d
आ दे॒वता॑ता ह॒विषा॑ विवासति ।।
आ
दे॒वता॑ता
ह॒विषा
विवासति
।।
आ
दे॒वता॑ता
ह॒विषा
विवासति
।।
Verse: 2
Halfverse: a
आ स्वमद्म॑ यु॒वमा॑ नोअ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति ।
आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्
आ
स्वम्
अद्म
यु॒वमा॑नः
अ॒जरः
आ
सु॒वम्
अद्म
यु॒वमा॑नो
अ॒जर॑स्
Halfverse: b
तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति ।
तृ॒षु
अ॑वि॒ष्यन्
अत॒सेषु
तिष्ठति
।
तृ॒षु
अ॑वि॒ष्यन्न्
अत॒सेषु
तिष्ठति
।
Halfverse: c
अत्यो॒ न पृ॒ष्ठम्प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ।।
अत्यो॒ न पृ॒ष्ठम्प्रु॑षि॒तस्य॑ रोचते
अत्यः
न
पृ॒ष्ठम्
प्रुषि॒तस्य
रोचते
अत्यो
न
पृ॒ष्ठम्
प्रुषि॒तस्य
रोचते
Halfverse: d
दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ।।
दि॒वः
न
सानु
स्त॒नय॑न्
अचिक्रदत्
।।
दि॒वो
न
सानु
स्त॒नय॑न्न्
अचिक्रदत्
।।
Verse: 3
Halfverse: a
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः ।
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो
क्रा॒णा
रु॒द्रेभिः
वसु॑भिः
पु॒रोहि॑तः
क्रा॒णा
रु॒द्रेभि॑र्
वसु॑भिः
पु॒रोहि॑तो
Halfverse: b
होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः ।
होता
निष॑त्तः
रयि॒षाट्
अम॑र्त्यः
।
होता
निष॑त्तो
रयि॒षाळ्
अम॑र्तियः
।
Halfverse: c
रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ।।
रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु
रथः
न
वि॒क्षु
ऋ॑ञ्जसा॒नः
आ॒युषु
रथो
न
वि॒क्षु
ऋ॑ञ्जसा॒न
आ॒युषु
Halfverse: d
व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ।।
वि
आ॑नु॒षक्
वार्या
दे॒वः
ऋ॑ण्वति
।।
वि
आ॑नु॒षग्
वारि॑या
दे॒व
ऋ॑ण्वति
।।
Verse: 4
Halfverse: a
वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभिः॒ सृण्या॑ तुवि॒ष्वणिः॑ ।
वि वात॑जूतो अत॒सेषु॑ तिष्ठते
वि
वात॑जूतः
अत॒सेषु
तिष्ठते
वि
वात॑जूतो
अत॒सेषु
तिष्ठते
Halfverse: b
वृथा॑ जु॒हूभिः॒ सृण्या॑ तुवि॒ष्वणिः॑ ।
वृथा
जु॒हूभिः
सृण्या
तुवि॒ष्वणिः
।
वृथा
जु॒हूभिः
सृणि॑या
तुवि॒ष्वणिः
।
Halfverse: c
तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ।।
तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे
तृ॒षु
यत्
अग्ने
व॒निनः
वृषा॒यसे
तृ॒षु
यद्
अग्ने
व॒निनो
वृषा॒यसे
Halfverse: d
कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ।।
कृ॒ष्णम्
ते
एम
रुश॑दूर्मे
अजर
।।
कृ॒ष्णं
त
एम
रुश॑दूर्मे
अजर
।।
Verse: 5
Halfverse: a
तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः ।
तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो
तपु॑र्जम्भः
वने
आ
वात॑चोदितः
तपु॑र्जम्भो
वन
आ
वात॑चोदितो
Halfverse: b
यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः ।
यू॒थे
न
सा॒ह्वान्
अव
वाति
वंस॑गः
।
यू॒थे
न
सा॒ह्वाँ
अव
वाति
वंस॑गः
।
Halfverse: c
अ॑भि॒व्रज॒न्नक्षि॑त॒म्पाज॑सा॒ रज॑ स्था॒तुश्च॒रथ॑म्भयते पत॒त्रिणः॑ ।।
अ॑भि॒व्रज॒न्नक्षि॑त॒म्पाज॑सा॒ रज
अभि॒व्रज॑न्
अक्षि॑तम्
पाज॑सा
रजः
अभि॒व्रज॑न्न्
अक्षि॑तम्
पाज॑सा
रज
Halfverse: d
स्था॒तुश्च॒रथ॑म्भयते पत॒त्रिणः॑ ।।
स्था॒तुः
च॒रथ॑म्
भयते
पत॒त्रिणः
।।
स्था॒तुश्
च॒रथ॑म्
भयते
पत॒त्रिणः
।।
Verse: 6
Halfverse: a
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः ।
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा
द॒धुः
त्वा
भृग॑वः
मानु॑षेषु
आ
द॒धुष्
ट्वा
.
भृग॑वो
मानु॑षेष्व्
आ
Halfverse: b
र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः ।
र॒यिम्
न
चारु॑म्
सु॒हव॑म्
जने॑भ्यः
।
र॒यिं
न
चारुं
सु॒हवं
जने॑भ्यः
।
Halfverse: c
होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यम्मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ।।
होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यम्
होता॑रम्
अग्ने
अति॑थिम्
वरे॑ण्यम्
होता॑रम्
अग्ने
अति॑थिं
वरे॑ण्यम्
Halfverse: d
मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ।।
मि॒त्रम्
न
शेव॑म्
दि॒व्याय
जन्म॑ने
।।
मि॒त्रं
न
शेवं
दिवि॒याय
जन्म॑ने
।।
Verse: 7
Halfverse: a
होता॑रं स॒प्त जु॒ह्वो॒ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ ।
होता॑रं स॒प्त जु॒ह्वो॒ यजि॑ष्ठं
होता॑रम्
स॒प्त
जु॒ह्वः
यजि॑ष्ठम्
होता॑रं
स॒प्त
जु॒हुवो
यजि॑ष्ठं
Halfverse: b
यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ ।
यम्
वा॒घतः
वृ॒णते
अध्व॒रेषु
।
यं
वा॒घतो
वृ॒णते
अध्व॒रेषु
।
Halfverse: c
अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ।।
अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां
अ॒ग्निम्
विश्वे॑षाम्
अर॒तिम्
वसू॑नाम्
अ॒ग्निं
विश्वे॑षाम्
अर॒तिं
वसू॑नां
Halfverse: d
सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ।।
स॑प॒र्यामि
प्रय॑सा
यामि
रत्न॑म्
।।
स॑प॒र्यामि
प्रय॑सा
यामि
रत्न॑म्
।।
Verse: 8
Halfverse: a
अछि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमहः॒ शर्म॑ यछ ।
अछि॑द्रा सूनो सहसो नो अ॒द्य
अछि॑द्रा
सूनो
सहसः
नः
अ॒द्य
अछि॑द्रा
सूनो
सहसो
नो
अ॒द्य
Halfverse: b
स्तो॒तृभ्यो॑ मित्रमहः॒ शर्म॑ यछ ।
स्तो॒तृभ्यः
मित्रमहः
शर्म
यछ
।
स्तो॒तृभ्यो
मित्रमहः
शर्म
यछ
।
Halfverse: c
अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ।।
अग्ने॑ गृ॒णन्त॒मंह॑स उरुष्य
अग्ने
गृ॒णन्त॑म्
अंह॑सः
उरुष्य
अग्ने
गृ॒णन्त॑म्
अंह॑स
उरुष्य
Halfverse: d
ऊर्जो॑ नपात्पू॒र्भिराय॑सीभिः ।।
ऊर्जः
नपात्
पू॒र्भिः
आय॑सीभिः
।।
ऊर्जो
नपात्
.
पू॒र्भिर्
आय॑सीभिः
।।
Verse: 9
Halfverse: a
भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्यः॒ शर्म॑ ।
भवा॒ वरू॑थं गृण॒ते वि॑भावो
भव+
वरू॑थम्
गृण॒ते
वि॑भावः
भवा
वरू॑थं
गृण॒ते
वि॑भावो
Halfverse: b
भवा॑ मघवन्म॒घव॑द्भ्यः॒ शर्म॑ ।
भव+
मघवन्
म॒घव॑द्भ्यः
शर्म
।
भवा
मघवन्
म॒घव॑द्भ्यः
शर्म
।
Halfverse: c
उ॑रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्त॑म्प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
उ॑रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्त॑म्
उरु॒ष्य
अ॑ग्ने
अंह॑सः
गृ॒णन्त॑म्
उरु॒ष्य
अ॑ग्ने
अंह॑सो
गृ॒णन्त॑म्
Halfverse: d
प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ।।
प्रा॒तर्
म॒क्षु+
धि॒याव॑सुः
जगम्यात्
।।
प्रा॒तर्
म॒क्षू
धि॒याव॑सुर्
जगम्यात्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.