TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 65
Hymn: 65
Verse: 1
Halfverse: a
प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ।
प॒श्वा न ता॒युं गुहा॒ चत॑न्तं
प॒श्वा
न
ता॒युम्
गुहा
चत॑न्तम्
प॒श्वा
न
ता॒युं
गुहा
चत॑न्तं
Halfverse: b
नमो॑ युजा॒नं नमो॒ वह॑न्तम् ।
नमः
युजा॒नम्
नमः
वह॑न्तम्
।
नमो
युजा॒नं
नमो
वह॑न्तम्
।
Verse: 2
Halfverse: a
स॒जोषा॒ धीराः॑ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ।।
स॒जोषा॒ धीराः॑ प॒दैरनु॑ ग्मन्न्
स॒जोषाः
धीराः
प॒दैः
अनु
ग्मन्
स॒जोषा
धीराः
प॒दैर्
अनु
ग्मन्न्
Halfverse: b
उप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ।।
उप
त्वा
सीदन्
विश्वे
यज॑त्राः
।।
उप
त्वा
सीदन्
विश्वे
यज॑त्राः
।।
Verse: 3
Halfverse: a
ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ।
ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॑र्
ऋ॒तस्य
दे॒वाः
अनु
व्र॒ता
गुः
ऋ॒तस्य
दे॒वा
अनु
व्र॒ता
गु॑र्
Halfverse: b
भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ।
भुव॑त्
परि॑ष्टिः
द्यौः
न
भूम
।
भुव॑त्
परि॑ष्टिर्
दि॒यौर्
न
भूम
।
Verse: 4
Halfverse: a
वर्ध॑न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ।।
वर्ध॑न्ती॒मापः॑ प॒न्वा सुशि॑श्विम्
वर्ध॑न्ति
ईम्
आपः
प॒न्वा
सुशि॑श्विम्
वर्ध॑न्तीम्
आपः
प॒न्वा
सुशि॑श्विम्
Halfverse: b
ऋ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ।।
ऋ॒तस्य
योना
गर्भे
सुजा॑तम्
।।
ऋ॒तस्य
योना
गर्भे
सुजा॑तम्
।।
Verse: 5
Halfverse: a
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ।
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी
पु॒ष्टिः
न
र॒ण्वा
क्षि॒तिः
न
पृ॒थ्वी
पु॒ष्टिर्
न
र॒ण्वा
क्षि॒तिर्
न
पृ॒थ्वी
Halfverse: b
गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ।
गि॒रिः
न
भुज्म
क्षोदः
न
श॒म्भु
।
गि॒रिर्
न
भुज्म
क्षोदो
न
श॒म्भु
।
Verse: 6
Halfverse: a
अत्यो॒ नाज्म॒न्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं॑ वराते ।।
अत्यो॒ नाज्म॒न्सर्ग॑प्रतक्तः
अत्यः
न
अज्म॑न्
सर्ग॑प्रतक्तः
अत्यो
न
अज्म॑न्
सर्ग॑प्रतक्तः
Halfverse: b
सिन्धु॒र्न क्षोदः॒ क ईं॑ वराते ।।
सिन्धुः
न
क्षोदः
कः
ई॑म्
वराते
।।
सिन्धु॑र्
न
क्षोदः
क
ईं
वराते
।।
Verse: 7
Halfverse: a
जा॒मिः सिन्धू॑ना॒म्भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ।
जा॒मिः सिन्धू॑ना॒म्भ्राते॑व॒ स्वस्रा॑म्
जा॒मिः
सिन्धू॑नाम्
भ्राता
इव
स्वस्रा॑म्
जा॒मिः
सिन्धू॑नाम्
भ्राते॑व
स्वस्रा॑म्
Halfverse: b
इभ्या॒न्न राजा॒ वना॑न्यत्ति ।
इभ्या॑न्
न
राजा
वना॑नि
अत्ति
।
इभ्या॑न्
न
राजा
वना॑नि
अत्ति
।
Verse: 8
Halfverse: a
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ।।
यद्वात॑जूतो॒ वना॒ व्यस्था॑द्
यत्
वात॑जूतः
वना
वि
अस्था॑त्
यद्
वात॑जूतो
वना
वि
अस्था॑द्
Halfverse: b
अ॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ।।
अ॒ग्निः
ह
दाति
रोम+
पृथि॒व्याः
।।
अ॒ग्निर्
ह
दाति
रोमा
पृथि॒व्याः
।।
Verse: 9
Halfverse: a
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ।
श्वसि॑त्य॒प्सु हं॒सो न सीद॑न्
श्वसि॑ति
अ॒प्सु
हं॒सः
न
सीद॑न्
श्वसि॑ति
अ॒प्सु
हं॒सो
न
सीद॑न्
Halfverse: b
क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ।
क्रत्वा
चेति॑ष्ठः
वि॒शाम्
उष॒र्भुत्
।
क्रत्वा
चेति॑ष्ठो
वि॒शाम्
उष॒र्भुत्
।
Verse: 10
Halfverse: a
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ।।
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः
सोमः
न
वे॒धाः
ऋ॒तप्र॑जातः
सोमो
न
वे॒धा
ऋ॒तप्र॑जातः
Halfverse: b
प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ।।
प॒शुः
न
शिश्वा
वि॒भुः
दू॒रेभाः
।।
प॒शुर्
न
शिश्वा
वि॒भुर्
दू॒रेभाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.