TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 67
Hymn: 67
Verse: 1
Halfverse: a
वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ।
वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो
वने॑षु
जा॒युः
मर्ते॑षु
मि॒त्रः
वने॑षु
जा॒युर्
मर्ते॑षु
मि॒त्रो
Halfverse: b
वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ।
वृ॑णी॒ते
श्रु॒ष्टिम्
राजा
इव
अजु॒र्यम्
।
वृ॑णी॒ते
श्रु॒ष्टिं
राजे॑वाजु॒र्यम्
।
Verse: 2
Halfverse: a
क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ।।
क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो
क्षेमः
न
सा॒धुः
क्रतुः
न
भ॒द्रः
क्षेमो
न
सा॒धुः
क्रतु॑र्
न
भ॒द्रो
Halfverse: b
भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ।।
भुव॑त्
स्वा॒धीः
होता
हव्य॒वाट्
।।
भुव॑त्
सुआ॒धीर्
होता
हव्य॒वाट्
।।
Verse: 3
Halfverse: a
हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान्धा॒द्गुहा॑ नि॒षीद॑न् ।
हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॑न्य्
हस्ते
दधा॑नः
नृ॒म्णा
विश्वा॑नि
हस्ते
दधा॑नो
नृ॒म्णा
विश्वा॑नि
Halfverse: b
अमे॑ दे॒वान्धा॒द्गुहा॑ नि॒षीद॑न् ।
अमे
दे॒वान्
धात्
गुहा
नि॒षीद॑न्
।
अमे
दे॒वान्
धाद्
गुहा
नि॒षीद॑न्
।
Verse: 4
Halfverse: a
वि॒दन्ती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं॑सन् ।।
वि॒दन्ती॒मत्र॒ नरो॑ धियं॒धा
वि॒दन्ति
ईम्
अत्र
नरः
धियं॒धाः
वि॒दन्ती॑म्
अत्र
नरो
धियं॒धा
Halfverse: b
हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं॑सन् ।।
हृ॒दा
यत्
त॒ष्टान्
मन्त्रा॑न्
अशं॑सन्
।।
हृ॒दा
यत्
त॒ष्टान्
मन्त्राँ
अशं॑सन्
।।
Verse: 5
Halfverse: a
अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्याम्मन्त्रे॑भिः स॒त्यैः ।
अ॒जो न क्षां दा॒धार॑ पृथि॒वीं
अ॒जः
न
क्षाम्
दा॒धार
पृथि॒वीम्
अ॒जो
न
क्षां
दा॒धार
पृथि॒वीं
Halfverse: b
त॒स्तम्भ॒ द्याम्मन्त्रे॑भिः स॒त्यैः ।
त॒स्तम्भ
द्याम्
मन्त्रे॑भिः
स॒त्यैः
।
त॒स्तम्भ
दि॒याम्
मन्त्रे॑भिः
स॒त्यैः
।
Verse: 6
Halfverse: a
प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ।।
प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि
प्रि॒या
प॒दानि
प॒श्वः
नि
पा॑हि
प्रि॒या
प॒दानि
प॒श्वो
नि
पा॑हि
Halfverse: b
वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ।।
वि॒श्वायुः
अग्ने
गु॒हा
गुह॑म्
गाः
।।
वि॒श्वायु॑र्
अग्ने
गु॒हा
गुहं
गाः
।।
Verse: 7
Halfverse: a
य ईं॑ चि॒केत॒ गुहा॒ भव॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ।
य ईं॑ चि॒केत॒ गुहा॒ भव॑न्तम्
यः
ई॑म्
चि॒केत
गुहा
भव॑न्तम्
य
ईं
चि॒केत
गुहा
भव॑न्तम्
Halfverse: b
आ यः स॒साद॒ धारा॑मृ॒तस्य॑ ।
आ
यः
स॒साद
धारा॑म्
ऋ॒तस्य
।
आ
यः
स॒साद
धारा॑म्
ऋ॒तस्य
।
Verse: 8
Halfverse: a
वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ।।
वि ये चृ॒तन्त्यृ॒ता सप॑न्त
वि
ये
चृ॒तन्ति
ऋ॒ता
सप॑न्तः
वि
ये
चृ॒तन्ति
ऋ॒ता
सप॑न्त
Halfverse: b
आदिद्वसू॑नि॒ प्र व॑वाचास्मै ।।
आत्
इत्
वसू॑नि
प्र
व॑वाच
अस्मै
।।
आद्
इद्
वसू॑नि
प्र
व॑वाचास्मै
।।
Verse: 9
Halfverse: a
वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्व॒न्तः ।
वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वा
वि
यः
वी॒रुत्सु
रोध॑त्
महि॒त्वा
वि
यो
वी॒रुत्सु
रोध॑न्
महि॒त्वा
Halfverse: b
उ॒त प्र॒जा उ॒त प्र॒सूष्व॒न्तः ।
उ॒त
प्र॒जाः
उ॒त
प्र॒सूषु
अ॒न्तर्
।
उ॒त
प्र॒जा
उ॒त
प्र॒सूष्व्
अ॒न्तः
।
Verse: 10
Halfverse: a
चित्ति॑र॒पां दमे॑ वि॒श्वायुः॒ सद्मे॑व॒ धीराः॑ स॒म्माय॑ चक्रुः ।।
चित्ति॑र॒पां दमे॑ वि॒श्वायुः
चित्तिः
अ॒पाम्
दमे
वि॒श्वायुः
चित्ति॑र्
अ॒पाअं
दमे
वि॒श्वायुः
Halfverse: b
सद्मे॑व॒ धीराः॑ स॒म्माय॑ चक्रुः ।।
सद्म
इव
धीराः
स॒म्माय
चक्रुः
।।
सद्मे॑व
धीराः
स॒म्माय
चक्रुः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.