TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 71
Hymn: 71
Verse: 1
Halfverse: a
उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्त॒म्पतिं॒ न नित्यं॒ जन॑यः॒ सनी॑ळाः ।
उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्त॑म्
उप
प्र
जि॑न्वन्
उश॒तीः
उ॒शन्त॑म्
उप
प्र
जि॑न्वन्न्
उश॒तीर्
उ॒शन्त॑म्
Halfverse: b
पतिं॒ न नित्यं॒ जन॑यः॒ सनी॑ळाः ।
पति॑म्
न
नित्य॑म्
जन॑यः
सनी॑ळाः
।
पतिं
न
नित्यं
जन॑यः
सनी॑ळाः
।
Halfverse: c
स्वसा॑रः॒ श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒छन्ती॑मु॒षसं॒ न गावः॑ ।।
स्वसा॑रः॒ श्यावी॒मरु॑षीमजुष्रञ्
स्वसा॑रः
श्यावी॑म्
अरु॑षीम्
अजुष्रन्
स्वसा॑रः
श्यावी॑म्
अरु॑षीम्
अजुष्रञ्
Halfverse: d
चि॒त्रमु॒छन्ती॑मु॒षसं॒ न गावः॑ ।।
चि॒त्रम्
उ॒छन्ती॑म्
उ॒षस॑म्
न
गावः
।।
चि॒त्रम्
उ॒छन्ती॑म्
उ॒षसं
न
गावः
।।
Verse: 2
Halfverse: a
वी॒ळु चि॑द्दृ॒ऴा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण ।
वी॒ळु चि॑द्दृ॒ऴा पि॒तरो॑ न उ॒क्थैर्
वी॒ळु
चि॑त्
दृ॒ऴा
पि॒तरः
नः
उ॒क्थैः
वी॒ळु
चि॑द्
दृ॒ऴा
पि॒तरो
न
उ॒क्थैर्
Halfverse: b
अद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण ।
अद्रि॑म्
रुजन्
अङ्गि॑रसः
रवे॑ण
।
अद्रिं
रुजन्न्
अङ्गि॑रसो
रवे॑ण
।
Halfverse: c
च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अहः॒ स्व॑र्विविदुः के॒तुमु॒स्राः ।।
च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे
च॒क्रुः
दि॒वः
बृ॑ह॒तः
गा॒तुम्
अ॒स्मे
च॒क्रुर्
दि॒वो
बृ॑ह॒तो
गा॒तुम्
अ॒स्मे
Halfverse: d
अहः॒ स्व॑र्विविदुः के॒तुमु॒स्राः ।।
अह॑र्
स्व॑र्
विविदुः
के॒तुम्
उ॒स्राः
।।
अहः
सुव॑र्
विविदुः
के॒तुम्
उ॒स्राः
।।
Verse: 3
Halfverse: a
दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒ विभृ॑त्राः ।
दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिम्
दध॑न्
ऋ॒तम्
ध॒नय॑न्
अस्य
धी॒तिम्
दध॑न्न्
ऋ॒तं
ध॒नय॑न्न्
अस्य
धी॒तिम्
Halfverse: b
आदिद॒र्यो दि॑धि॒ष्वो॒ विभृ॑त्राः ।
आत्
इत्
अ॒र्यः
दि॑धि॒ष्वः
विभृ॑त्राः
।
आद्
इद्
अ॒र्यो
दि॑धि॒षुवो
विभृ॑त्राः
।
Halfverse: c
अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यछा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ।।
अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यछा
अतृ॑ष्यन्तीः
अ॒पसः
यन्ति
अछ+
अतृ॑ष्यन्तीर्
अ॒पसो
यन्ति
अछा
Halfverse: d
दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ।।
दे॒वान्
जन्म
प्रय॑सा
व॒र्धय॑न्तीः
।।
दे॒वाञ्
जन्म
प्रय॑सा
व॒र्धय॑न्तीः
।।
Verse: 4
Halfverse: a
मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् ।
मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा
मथी॑त्
यत्
ईम्
विभृ॑तः
मात॒रिश्वा
मथी॑द्
यद्
ईं
विभृ॑तो
मात॒रिश्वा
Halfverse: b
गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् ।
गृ॒हेगृ॑हे
श्ये॒तः
जेन्यः
भूत्
।
गृ॒हेगृ॑हे
.
श्ये॒तो
जेनि॑यो
भूत्
।
Halfverse: c
आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्य॒म्भृग॑वाणो विवाय ।।
आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्न्
आत्
ईम्
राज्ञे
न
सही॑यसे
सचा
सन्
आद्
ईं
राज्ञे
न
सह्य॑से*
सचा
सन्न्
Halfverse: d
आ दू॒त्य॒म्भृग॑वाणो विवाय ।।
आ
दू॒त्य॑म्
भृग॑वाणः
विवाय
।।
आ
दू॒तिय॑म्
भृग॑वाणो
विवाय
।।
Verse: 5
Halfverse: a
म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् ।
म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे कर्
म॒हे
यत्
पि॒त्रे
ई॑म्
रस॑म्
दि॒वे
कर्
म॒हे
यत्
पि॒त्र
ईं
रसं
दि॒वे
कर्
Halfverse: b
अव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् ।
अव
त्सरत्
पृश॒न्यः
चिकि॒त्वान्
।
अव
त्सरत्
पृश॒निय॑श्
चिकि॒त्वान्
।
Halfverse: c
सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ।।
सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै
सृ॒जत्
अस्ता
धृष॒ता
दि॒द्युम्
अस्मै
सृ॒जद्
अस्ता
धृष॒ता
दि॒द्युम्
अस्मै
Halfverse: d
स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ।।
स्वाया॑म्
दे॒वः
दु॑हि॒तरि
त्विषि॑म्
धात्
।।
स्वायां
दे॒वो
दु॑हि॒तरि
त्विषिं
धात्
।।
Verse: 6
Halfverse: a
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् ।
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति
स्वे
आ
यः
तुभ्य॑म्
दमे
आ
वि॒भाति
स्व
आ
यस्
तुभ्यं
दम
आ
वि॒भाति
Halfverse: b
नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् ।
नमः
वा
दाशा॑त्
उश॒तः
अनु
द्यून्
।
नमो
वा
दाशा॑द्
उश॒तो
अनु
द्यून्
।
Halfverse: c
वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ।।
वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा
वर्ध
उ
अग्ने
वयः
अस्य
द्वि॒बर्हाः
वर्धो
अग्ने
वयो
अस्य
द्वि॒बर्हा
Halfverse: d
यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ।।
यास॑त्
रा॒या
स॒रथ॑म्
यम्
जु॒नासि
।।
यास॑द्
रा॒या
स॒रथं
यं
जु॒नासि
।।
Verse: 7
Halfverse: a
अ॒ग्निं विश्वा॑ अ॒भि पृक्षः॑ सचन्ते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः ।
अ॒ग्निं विश्वा॑ अ॒भि ।!। पृक्षः॑ सचन्ते
अ॒ग्निम्
विश्वाः
अ॒भि
पृक्षः
सचन्ते
अ॒ग्निं
विश्वा
अ॒भि
पृक्षः
सचन्ते
Halfverse: b
समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः ।
स॑मु॒द्रम्
न
स्र॒वतः
स॒प्त
य॒ह्वीः
।
स॑मु॒द्रं
न
स्र॒वतः
स॒प्त
य॒ह्वीः
।
Halfverse: c
न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ।।
न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो
न
जा॒मिभिः
वि
चि॑किते
वयः
नः
न
जा॒मिभि॑र्
वि
चि॑किते
वयो
नो
Halfverse: d
वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ।।
वि॒दाः
दे॒वेषु
प्रम॑तिम्
चिकि॒त्वान्
।।
वि॒दा
दे॒वेषु
प्रम॑तिं
चिकि॒त्वान्
।।
Verse: 8
Halfverse: a
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॑ट्
आ
यत्
इ॒षे
नृ॒पति॑म्
तेजः
आन॑ट्
आ
यद्
इ॒षे
नृ॒पतिं
तेज
आन॑ट्
Halfverse: b
छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।
शुचि
रेतः
निषि॑क्तम्
द्यौः
अ॒भीके
।
छुचि
रेतो
निषि॑क्तं
द्यौर्
अ॒भीके
।
Halfverse: c
अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ।।
अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं
अ॒ग्निः
शर्ध॑म्
अनव॒द्यम्
युवा॑नम्
अ॒ग्निः
शर्ध॑म्
अनव॒द्यं
युवा॑नं
Halfverse: d
स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ।।
स्वा॒ध्य॑म्
जनयत्
सू॒दय॑त्
च
।।
सुआ॒धियं
जनयत्
सू॒दय॑च्
च
।।
Verse: 9
Halfverse: a
मनो॒ न यो ऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे ।
मनो॒ न यो ऽध्व॑नः स॒द्य एत्य्
मनः
न
यः
अध्व॑नः
स॒द्यः
एति
मनो
न
यो
अध्व॑नः
स॒द्य
एति
Halfverse: b
एकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे ।
एकः
स॒त्रा
सूरः
वस्वः
ईशे
।
एकः
स॒त्रा
सूउरो
वस्व
ईशे
।
Halfverse: c
राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ।।
राजा॑ना मि॒त्रावरु॑णा सुपा॒णी
राजा॑ना
मि॒त्रावरु॑णा
सुपा॒णी
राजा॑ना
मि॒त्रावरु॑णा
सुपा॒णी
Halfverse: d
गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ।।
गोषु
प्रि॒यम्
अ॒मृत॑म्
रक्ष॑माणा
।।
गोषु
प्रि॒यम्
अ॒मृतं
रक्ष॑माणा
।।
Verse: 10
Halfverse: a
मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् ।
मा नो॑ अग्ने स॒ख्या पित्र्या॑णि
मा
नः
अग्ने
स॒ख्या
पित्र्या॑णि
मा
नो
अग्ने
सखि॒या
पित्रि॑याणि
Halfverse: b
प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् ।
प्र
म॑र्षिष्ठाः
अ॒भि
वि॒दुः
क॒विः
सन्
।
प्र
म॑र्षिष्ठा
अ॒भि
वि॒दुष्
क॒विः
सन्
।
Halfverse: c
नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ।।
नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति
नभः
न
रू॒पम्
जरि॒मा
मि॑नाति
नभो
न
रू॒पं
ज॑रि॒मा
मि॑नाति
Halfverse: d
पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ।।
पु॒रा
तस्याः
अ॒भिश॑स्तेः
अधि
इहि
।।
पु॒रा
तस्या
अ॒भिश॑स्तेर्
अधी॑हि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.