TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 72
Hymn: 72
Verse: 1
Halfverse: a
नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
नि काव्या॑ वे॒धसः॒ शश्व॑तस्कर्
नि
काव्या
वे॒धसः
शश्व॑तः
कर्
नि
कावि॑या
वे॒धसः
शश्व॑तस्
कर्
Halfverse: b
हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
हस्ते
दधा॑नः
नर्या
पु॒रूणि
।
हस्ते
दधा॑नो
नरि॑या
पु॒रूणि
।
Halfverse: c
अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ।।
अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां
अ॒ग्निः
भु॑वत्
रयि॒पतिः
रयी॒णाम्
अ॒ग्निर्
भुवद्
रयि॒पती
रयी॒णां
Halfverse: d
स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ।!। ।।
स॒त्रा
च॑क्रा॒णः
अ॒मृता॑नि
विश्वा
।।
स॒त्रा
च॑क्रा॒णो
अ॒मृता॑नि
विश्वा
।।
Verse: 2
Halfverse: a
अ॒स्मे व॒त्सम्परि॒ षन्तं॒ न वि॑न्दन्नि॒छन्तो॒ विश्वे॑ अ॒मृता॒ अमू॑राः ।
अ॒स्मे व॒त्सम्परि॒ षन्तं॒ न वि॑न्दन्न्
अ॒स्मे
व॒त्सम्
परि
सन्त॑म्
न
वि॑न्दन्
अ॒स्मे
व॒त्सम्
परि
षन्तं
न
वि॑न्दन्न्
Halfverse: b
इ॒छन्तो॒ विश्वे॑ अ॒मृता॒ अमू॑राः ।
इ॒छन्तः
विश्वे
अ॒मृताः
अमू॑राः
।
इ॒छन्तो
विश्वे
अ॒मृता
अमू॑राः
।
Halfverse: c
श्र॑म॒युवः॑ पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ।।
श्र॑म॒युवः॑ पद॒व्यो॑ धियं॒धास्
श्रम॒युवः
पद॒व्यः
धियं॒धाः
श्र॑म॒युवः
पद॒वियो
धियं॒धास्
Halfverse: d
त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ।।
त॒स्थुः
प॒दे
प॑र॒मे
चारु
अ॒ग्नेः
।।
त॒स्थुः
प॒दे
प॑र॒मे
चारु
अ॒ग्नेः
।।
Verse: 3
Halfverse: a
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् ।
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्
ति॒स्रः
यत्
अग्ने
श॒रदः
त्वाम्
इत्
ति॒स्रो
यद्
अग्ने
श॒रद॑स्
तु॒वाम्
इच्
Halfverse: b
छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् ।
शुचि॑म्
घृ॒तेन
शुच॑यः
सप॒र्यान्
।
छुचिं
घृ॒तेन
शुच॑यः
सप॒र्यान्
।
Halfverse: c
नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयन्त त॒न्वः॒ सुजा॑ताः ।।
नामा॑नि चिद्दधिरे य॒ज्ञिया॑न्य्
नामा॑नि
चित्
दधिरे
य॒ज्ञिया॑नि
नामा॑नि
चिद्
दधिरे
य॒ज्ञिया॑नि
Halfverse: d
असू॑दयन्त त॒न्वः॒ सुजा॑ताः ।।
असू॑दयन्त
त॒न्वः
सुजा॑ताः
।।
असू॑दयन्त
त॒नुवः
सुजा॑ताः
।।
Verse: 4
Halfverse: a
आ रोद॑सी बृह॒ती वेवि॑दानाः॒ प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः ।
आ रोद॑सी बृह॒ती वेवि॑दानाः
आ
रोद॑सी
बृह॒ती
वेवि॑दानाः
आ
रोद॑सी
बृह॒ती
वेवि॑दानाः
Halfverse: b
प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः ।
प्र
रु॒द्रिया
जभ्रिरे
य॒ज्ञिया॑सः
।
प्र
रु॒द्रिया
जभ्रिरे
य॒ज्ञिया॑सः
।
Halfverse: c
वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निम्प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ।।
वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान्
वि॒दत्
मर्तः
ने॒मधि॑ता
चिकि॒त्वान्
वि॒दन्
मर्तो
ने॒मधि॑ता
चिकि॒त्वान्
Halfverse: d
अ॒ग्निम्प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ।।
अ॒ग्निम्
प॒दे
प॑र॒मे
त॑स्थि॒वांस॑म्
।।
अ॒ग्निम्
प॒दे
प॑र॒मे
त॑स्थि॒वांस॑म्
।।
Verse: 5
Halfverse: a
सं॑जाना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वन्तो नम॒स्यं॑ नमस्यन् ।
सं॑जाना॒ना ।!। उप॑ सीदन्नभि॒ज्ञु
सं॑जाना॒नाः
उप
सीदन्
अभि॒ज्ञु
सं॑जाना॒ना
उप
सीदन्न्
अभि॒ज्ञु
Halfverse: b
पत्नी॑वन्तो नम॒स्यं॑ नमस्यन् ।
पत्नी॑वन्तः
नम॒स्य॑म्
नमस्यन्
।
पत्नी॑वन्तो
नम॒सियं
नमस्यन्
।
Halfverse: c
रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ।।
रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः
रि॑रि॒क्वांसः
त॒न्वः
कृण्वत
स्वाः
रि॑रि॒क्वांस॑स्
त॒नुवः
कृण्वत
स्वाः
Halfverse: d
सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ।।
सखा
सख्युः
नि॒मिषि
रक्ष॑माणाः
।।
सखा
सख्यु॑र्
नि॒मिषि
रक्ष॑माणाः
।।
Verse: 6
Halfverse: a
त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः ।
त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्
त्रिः
स॒प्त
यत्
गुह्या॑नि
त्वे
इत्
त्रिः
स॒प्त
यद्
गुहि॑यानि
तु॒वे
इत्
Halfverse: b
प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः ।
प॒दा
अवि॑दन्
!
निहि॑ता
य॒ज्ञिया॑सः
।
प॒दावि॑दन्
निहि॑ता
य॒ज्ञिया॑सः
।
Halfverse: c
तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषाः॑ प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ।।
तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषाः
तेभिः
रक्षन्ते
अ॒मृत॑म्
स॒जोषाः
तेभी
रक्षन्ते
अ॒मृतं
स॒जोषाः
Halfverse: d
प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ।।
प॒शून्
च
स्था॒तॄन्
च॒रथ॑म्
च
पाहि
।।
प॒शूञ्
च
स्था॒तॄञ्
च॒रथं
च
पाहि
।।
Verse: 7
Halfverse: a
वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः ।
वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां
वि॒द्वान्
अग्ने
व॒युना॑नि
क्षिती॒नाम्
वि॒द्वाँ
अ॑ग्ने
व॒युना॑नि
क्षिती॒नां
Halfverse: b
व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः ।
वि
आ॑नु॒षक्
शु॒रुधः
जी॒वसे
धाः
।
वि
आ॑नु॒षक्
छु॒रुधो
जी॒वसे
धाः
।
Halfverse: c
अ॑न्तर्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ।।
अ॑न्तर्वि॒द्वाँ अध्व॑नो देव॒याना॑न्
अन्तर्वि॒द्वान्
अध्व॑नः
देव॒याना॑न्
अन्तर्वि॒द्वाँ
अध्व॑नो
देव॒याना॑न्
Halfverse: d
अत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ।।
अत॑न्द्रः
दू॒तः
अ॑भवः
हवि॒र्वाट्
।।
अत॑न्द्रो
दू॒तो
अ॑भवो
हवि॒र्वाट्
।।
Verse: 8
Halfverse: a
स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् ।
स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी
स्वा॒ध्यः
दि॒वः
आ
स॒प्त
य॒ह्वीः
सुआ॒धियो
दि॒व
आ
स॒प्त
य॒ह्वी
Halfverse: b
रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् ।
रा॒यः
दुरः
वि
ऋ॑त॒ज्ञाः
अ॑जानन्
।
रा॒यो
दुरो
वि
ऋ॑त॒ज्ञा
अ॑जानन्
।
Halfverse: c
वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ऴमू॒र्वं येना॒ नु क॒म्मानु॑षी॒ भोज॑ते॒ विट् ।।
वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ऴमू॒र्वं
वि॒दत्
गव्य॑म्
स॒रमा
दृ॒ऴम्
ऊ॒र्वम्
वि॒दद्
गव्यं
स॒रमा
दृ॒ऴम्
ऊ॒र्वं
Halfverse: d
येना॒ नु क॒म्मानु॑षी॒ भोज॑ते॒ विट् ।।
येन+
नु
क॑म्
मानु॑षी
भोज॑ते
विट्
।।
येना
नु
क॑म्
मानु॑षी
भोज॑ते
विट्
।।
Verse: 9
Halfverse: a
आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः
आ
ये
विश्वा
स्वप॒त्यानि
त॒स्थुः
आ
ये
विश्वा
स्वपति॒यानि
त॒स्थुः
Halfverse: b
कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
कृ॑ण्वा॒नासः
अमृत॒त्वाय
गा॒तुम्
।
कृ॑ण्वा॒नासो
अमृत॒त्वाय
गा॒तुम्
।
Halfverse: c
म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ।।
म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे
म॒ह्ना
म॒हद्भिः
पृथि॒वी
वि
त॑स्थे
म॒ह्ना
म॒हद्भिः
पृथि॒वी
वि
त॑स्थे
Halfverse: d
मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ।।
मा॒ता
पु॒त्रैः
अदि॑तिः
धाय॑से
वेः
।।
मा॒ता
पु॒त्रैर्
अदि॑तिर्
धाय॑से
वेः
।।
Verse: 10
Halfverse: a
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् ।
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्
अधि
श्रिय॑म्
नि
द॑धुः
चारु॑म्
अस्मिन्
अधि
श्रियं
नि
द॑धुश्
चारु॑म्
अस्मिन्
Halfverse: b
दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् ।
दि॒वः
यत्
अ॒क्षी
अ॒मृताः
अकृ॑ण्वन्
।
दि॒वो
यद्
अ॒क्षी
अ॒मृता
अकृ॑ण्वन्
।
Halfverse: c
अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ।।
अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः
अध
क्षरन्ति
सिन्ध॑वः
न
सृ॒ष्टाः
अध
क्षरन्ति
सिन्ध॑वो
न
सृ॒ष्टाः
Halfverse: d
प्र नीची॑रग्ने॒ अरु॑षीरजानन् ।।
प्र
नीचीः
अग्ने
अरु॑षीः
अजानन्
।।
प्र
नीची॑र्
अग्ने
अरु॑षीर्
अजानन्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.