TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 260
Hymn: 26_(260)
Verse: 1
Halfverse: a
वै॑श्वान॒रम्मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् ।
वै॑श्वान॒रम्मन॑सा॒ग्निं नि॒चाय्या
वैश्वान॒रम्
मन॑सा
अ॒ग्निम्
नि॒चाय्य+
वैश्वान॒रम्
मन॑सा॒ग्निं
नि॒चायि॑या
Halfverse: b
ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् ।
ह॒विष्म॑न्तः
अनुष॒त्यम्
स्व॒र्विद॑म्
।
ह॒विष्म॑न्तो
अनुष॒त्यं
सु॑व॒र्विद॑म्
।
Halfverse: c
सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ।।
सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो
सु॒दानु॑म्
दे॒वम्
रथि॒रम्
वसू॒यवः
सु॒दानुं
दे॒वं
र॑थि॒रं
व॑सू॒यवो
Halfverse: d
गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ।।
गी॒र्भिः
र॒ण्वम्
कुशि॒कासः
हवामहे
।।
गी॒र्भी
र॒ण्वं
कु॑शि॒कासो
हवामहे
।।
Verse: 2
Halfverse: a
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रम्मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् ।
तं शु॒भ्रम॒ग्निमव॑से हवामहे
तम्
शु॒भ्रम्
अ॒ग्निम्
अव॑से
हवामहे
तं
शु॒भ्रम्
अ॒ग्निम्
अव॑से
हवामहे
Halfverse: b
वैश्वान॒रम्मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् ।
वै॑श्वान॒रम्
मात॒रिश्वा॑नम्
उ॒क्थ्य॑म्
।
वै॑श्वान॒रम्
मात॒रिश्वा॑नम्
उ॒क्थिय॑म्
।
Halfverse: c
बृह॒स्पति॒म्मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ।।
बृह॒स्पति॒म्मनु॑षो दे॒वता॑तये
बृह॒स्पति॑म्
मनु॑षः
दे॒वता॑तये
बृह॒स्पति॑म्
मनु॑षो
दे॒वता॑तये
Halfverse: d
विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ।।
विप्र॑म्
श्रोता॑रम्
अति॑थिम्
रघु॒ष्यद॑म्
।।
विप्रं
श्रोता॑रम्
अति॑थिं
रघु॒ष्यद॑म्
।।
Verse: 3
Halfverse: a
अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।
अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते
अश्वः
न
क्रन्द॑न्
जनि॑भिः
सम्
इध्यते
अश्वो
न
क्रन्द॑ञ्
जनि॑भिः
सम्
इध्यते
Halfverse: b
वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।
वै॑श्वान॒रः
कु॑शि॒केभिः
यु॒गेयु॑गे
।
वै॑श्वान॒रः
कु॑शि॒केभि॑र्
यु॒गेयु॑गे
।
Halfverse: c
स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ।।
स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं
स
नः
अ॒ग्निः
सु॒वीर्य॑म्
स्वश्व्य॑म्
स
नो
अ॒ग्निः
सु॒वीरि॑यं
सुअश्वि॑यं
Halfverse: d
दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ।।
दधा॑तु
रत्न॑म्
अ॒मृते॑षु
जागृ॑विः
।।
दधा॑तु
रत्न॑म्
अ॒मृते॑षु
जागृ॑विः
।।
Verse: 4
Halfverse: a
प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत ।
प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः
प्र
य॑न्तु
वाजाः
तवि॑षीभिः
अ॒ग्नयः
प्र
य॑न्तु
वाजा॑स्
तवि॑षीभिर्
अ॒ग्नयः
Halfverse: b
शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत ।
शु॒भे
सम्मि॑श्लाः
पृष॑तीः
अयुक्षत
।
शु॒भे
सम्मि॑श्लाः
पृष॑तीर्
अयुक्षत
।
Halfverse: c
बृ॑ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः॒ प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ।।
बृ॑ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः
बृह॒दुक्षः
म॒रुतः
वि॒श्ववे॑दसः
बृह॒दुक्षो
म॒रुतो
वि॒श्ववे॑दसः
Halfverse: d
प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ।।
प्र
वे॑पयन्ति
पर्व॑तान्
अदा॑भ्याः
।।
प्र
वे॑पयन्ति
पर्व॑ताँ
अदा॑भियाः
।।
Verse: 5
Halfverse: a
अ॑ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ।
अ॑ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय
अग्नि॒श्रियः
म॒रुतः
वि॒श्वकृ॑ष्टयः
अग्नि॒श्रियो
म॒रुतो
वि॒श्वकृ॑ष्टय
Halfverse: b
आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ।
आ
त्वे॒षम्
उ॒ग्रम्
अवः
ईमहे
व॒यम्
।
आ
त्वे॒षम्
उ॒ग्रम्
अव
ईमहे
व॒यम्
।
Halfverse: c
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ।।
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः
ते
स्वा॒निनः
रु॒द्रियाः
व॒र्षनि॑र्णिजः
ते
स्वा॒निनो
रु॒द्रिया
व॒र्षनि॑र्णिजः
Halfverse: d
सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ।।
सिं॒हाः
न
हे॒षक्र॑तवः
सु॒दान॑वः
।।
सिं॒हा
न
हे॒षक्र॑तवः
सु॒दान॑वः
।।
Verse: 6
Halfverse: a
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भाम॑म्म॒रुता॒मोज॑ ईमहे ।
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र्
व्रातं॑व्रातम्
ग॒णंग॑णम्
सुश॒स्तिभिः
व्रातं॑व्रातं
ग॒णंग॑णं
सुश॒स्तिभि॑र्
Halfverse: b
अ॒ग्नेर्भाम॑म्म॒रुता॒मोज॑ ईमहे ।
अ॒ग्नेः
भाम॑म्
म॒रुता॑म्
ओजः
ईमहे
।
अ॒ग्नेर्
भाम॑म्
म॒रुता॑म्
ओज
ईमहे
।
Halfverse: c
पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ।।
पृष॑दश्वासो अनव॒भ्ररा॑धसो
पृष॑दश्वासः
अनव॒भ्ररा॑धसः
पृष॑दश्वासो
अनव॒भ्ररा॑धसो
Halfverse: d
गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ।।
गन्ता॑रः
य॒ज्ञम्
वि॒दथे॑षु
धीराः
।।
गन्ता॑रो
य॒ज्ञं
वि॒दथे॑षु
धीराः
।।
Verse: 7
Halfverse: a
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तम्मे॒ चक्षु॑र॒मृत॑म्म आ॒सन् ।
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा
अ॒ग्निः
अ॑स्मि
जन्म॑ना
जा॒तवे॑दाः
अ॒ग्निर्
अस्मि
जन्म॑ना
जा॒तवे॑दा
Halfverse: b
घृ॒तम्मे॒ चक्षु॑र॒मृत॑म्म आ॒सन् ।
घृ॒तम्
मे
चक्षुः
अ॒मृत॑म्
मे
आ॒सन्
।
घृ॒तम्
मे
चक्षु॑र्
अ॒मृत॑म्
म
आ॒सन्
।
Halfverse: c
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानो ऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ।।
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानो
अ॒र्कः
त्रि॒धातुः
रज॑सः
वि॒मानः
अ॒र्कस्
त्रि॒धातू
रज॑सो
वि॒मानो
Halfverse: d
ऽजस्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ।।
अज॑स्रः
घ॒र्मः
ह॒विः
अ॑स्मि
नाम
।।
अज॑स्रो
घ॒र्मो
ह॒विर्
अस्मि
नाम
।।
Verse: 8
Halfverse: a
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य॒र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य॒र्कं
त्रि॒भिः
प॒वित्रैः
अपु॑पोत्
हि
अ॒र्कम्
त्रि॒भिः
प॒वित्रै॑र्
अपु॑पोद्
धि
अ॒र्कं
Halfverse: b
हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।
हृ॒दा
म॒तिम्
ज्योतिः
अनु
प्रजा॒नन्
।
हृ॒दा
म॒तिं
ज्योति॑र्
अनु
प्रजा॒नन्
।
Halfverse: c
वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ।।
वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॑र्
वर्षि॑ष्ठम्
रत्न॑म्
अकृत
स्व॒धाभिः
वर्षि॑ष्ठं
रत्न॑म्
अकृत
स्व॒धाभि॑र्
Halfverse: d
आदिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ।।
आत्
इत्
द्यावा॑पृथि॒वी
परि
अपश्यत्
।।
आद्
इद्
द्यावा॑पृथि॒वी
पर्य्
अपश्यत्
।।
Verse: 9
Halfverse: a
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चित॑म्पि॒तरं॒ वक्त्वा॑नाम् ।
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं
श॒तधा॑रम्
उत्स॑म्
अक्षी॑यमाणम्
श॒तधा॑रम्
उत्स॑म्
अक्षी॑यमाणं
Halfverse: b
विप॒श्चित॑म्पि॒तरं॒ वक्त्वा॑नाम् ।
वि॑प॒श्चित॑म्
पि॒तर॑म्
वक्त्वा॑नाम्
।
वि॑प॒श्चित॑म्
पि॒तरं
वक्तु॑वानाम्
।
Halfverse: c
मे॒ळिम्मद॑न्तम्पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म् ।।
मे॒ळिम्मद॑न्तम्पि॒त्रोरु॒पस्थे
मे॒ळिम्
मद॑न्तम्
पि॒त्रोः
उ॒पस्थे
मे॒ळिम्
मद॑न्तम्
पित॒रोर्
उ॒पस्थे
Halfverse: d
तं रो॑दसी पिपृतं सत्य॒वाच॑म् ।।
तम्
रोदसी
पिपृतम्
सत्य॒वाच॑म्
।।
तं
रो॑दसी
पिपृतं
सत्य॒वाच॑म्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.