TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 263
Hymn: 29_(263)
Verse: 1
Halfverse: a
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् ।
अस्ती॒दम॑धि॒मन्थ॑नम्
अस्ति
इ॒दम्
अधि॒मन्थ॑नम्
अस्ती॒दम्
अधि॒मन्थ॑नम्
Halfverse: b
अस्ति॑ प्र॒जन॑नं कृ॒तम् ।
अस्ति
प्र॒जन॑नम्
कृ॒तम्
।
अस्ति
प्र॒जन॑नं
कृ॒तम्
।
Halfverse: c
ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निम्म॑न्थाम पू॒र्वथा॑ ।।
ए॒तां वि॒श्पत्नी॒मा भ॑र
ए॒ताम्
वि॒श्पत्नी॑म्
आ
भ॑र
ए॒तां
वि॒श्पत्नी॑म्
आ
भ॑र
Halfverse: d
अ॒ग्निम्म॑न्थाम पू॒र्वथा॑ ।।
अ॒ग्निम्
मन्थाम
पू॒र्वथा
।।
अ॒ग्निम्
मन्थाम
पू॒र्वथा
।।
Verse: 2
Halfverse: a
अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु ।
अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा
अ॒रण्योः
निहि॑तः
जा॒तवे॑दाः
अ॒रणि॑योर्
निहि॑तो
जा॒तवे॑दा
Halfverse: b
गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु ।
गर्भः
इव
सुधि॑तः
ग॒र्भिणी॑षु
।
गर्भ
इव
सुधि॑तो
ग॒र्भिणी॑षु
।
Halfverse: c
दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ।।
दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्
दि॒वेदि॑वे
ईड्यः
जागृ॒वद्भिः
दि॒वेदि॑व
ईडि॑यो
जागृ॒वद्भि॑र्
Halfverse: d
ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ।।
ह॒विष्म॑द्भिः
मनु॒ष्ये॑भिः
अ॒ग्निः
।।
ह॒विष्म॑द्भिर्
मनु॒षिये॑भिर्
अ॒ग्निः
।।
Verse: 3
Halfverse: a
उ॑त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
उ॑त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्
उत्ता॒नाया॑म्
अव
भर+
चिकि॒त्वान्
उत्ता॒नाया॑म्
अव
भरा
चिकि॒त्वान्
Halfverse: b
स॒द्यः प्रवी॑ता॒ वृष॑णं जजान ।
स॒द्यः
प्रवी॑ता
वृष॑णम्
जजान
।
स॒द्यः
प्रवी॑ता
वृष॑णं
जजान
।
Halfverse: c
अ॑रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ ऽजनिष्ट ।।
अ॑रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज
अरु॒षस्तू॑पः
रुश॑त्
अस्य
पाजः
अरु॒षस्तू॑पो
रुश॑द्
अस्य
पाज
Halfverse: d
इळा॑यास्पु॒त्रो व॒युने॑ ऽजनिष्ट ।।
इळा॑याः
पु॒त्रः
व॒युने
अजनिष्ट
।।
इळा॑यास्
पु॒त्रो
व॒युने
ऽजनिष्ट
।।
Verse: 4
Halfverse: a
इळा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ ।
इळा॑यास्त्वा प॒दे व॒यं
इळा॑याः
त्वा
प॒दे
व॒यम्
इळा॑यास्
त्वा
प॒दे
व॒यं
Halfverse: b
नाभा॑ पृथि॒व्या अधि॑ ।
नाभा
पृथि॒व्याः
अधि
।
नाभा
पृथिवि॒या
अधि
।
Halfverse: c
जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोऴ॑वे ।।
जात॑वेदो॒ नि धी॑मह्य्
जात॑वेदः
नि
धी॑महि
जात॑वेदो
नि
धी॑महि
Halfverse: d
अग्ने॑ ह॒व्याय॒ वोऴ॑वे ।।
अग्ने
ह॒व्याय
वोऴ॑वे
।।
अग्ने
ह॒व्याय
वोऴ॑वे
।।
Verse: 5
Halfverse: a
मन्थ॑ता नरः क॒विमद्व॑यन्त॒म्प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कम् ।
मन्थ॑ता नरः क॒विमद्व॑यन्तम्
मन्थ॑त+
नरः
क॒विम्
अद्व॑यन्तम्
मन्थ॑ता
नरः
क॒विम्
अद्व॑यन्तम्
Halfverse: b
प्रचे॑तसम॒मृतं॑ सु॒प्रती॑कम् ।
प्रचे॑तसम्
अ॒मृत॑म्
सु॒प्रती॑कम्
।
प्रचे॑तसम्
अ॒मृतं
सु॒प्रती॑कम्
।
Halfverse: c
य॒ज्ञस्य॑ के॒तुम्प्र॑थ॒मम्पु॒रस्ता॑द॒ग्निं न॑रो जनयता सु॒शेव॑म् ।।
य॒ज्ञस्य॑ के॒तुम्प्र॑थ॒मम्पु॒रस्ता॑द्
य॒ज्ञस्य
के॒तुम्
प्रथ॒मम्
पु॒रस्ता॑त्
य॒ज्ञस्य
के॒तुम्
प्रथ॒मम्
पु॒रस्ता॑द्
Halfverse: d
अ॒ग्निं न॑रो जनयता सु॒शेव॑म् ।।
अ॒ग्निम्
नरः
जनयत+
सु॒शेव॑म्
।।
अ॒ग्निं
न॑रो
जनयता
सु॒शेव॑म्
।।
Verse: 6
Halfverse: a
यदी॒ मन्थ॑न्ति बा॒हुभि॒र्वि रो॑च॒ते ऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा ।
यदी॒ मन्थ॑न्ति बा॒हुभि॒र्वि रो॑च॒ते
यदि+
मन्थ॑न्ति
बा॒हुभिः
वि
रो॑चते
यदी
मन्थ॑न्ति
बा॒हुभि॑र्
वि
रो॑चते
Halfverse: b
ऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा ।
अश्वः
न
वा॒जी
अ॑रु॒षः
वने॑षु
आ
।
अश्वो
न
वा॒जी
अ॑रु॒षो
वने॑षु
आ
।
Halfverse: c
चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ।।
चि॒त्रो न याम॑न्न॒श्विनो॒रनि॑वृतः
चि॒त्रः
न
याम॑न्
अ॒श्विनोः
अनि॑वृतः
चि॒त्रो
न
याम॑न्
अ॒श्विनो॑र्
अनि॑वृतः
Halfverse: d
परि॑ वृण॒क्त्यश्म॑न॒स्तृणा॒ दह॑न् ।।
परि
वृणक्ति
अश्म॑नः
तृणा
दह॑न्
।।
परि
वृणक्ति
अश्म॑नस्
तृणा
दह॑न्
।।
Verse: 7
Halfverse: a
जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ ।
जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो
जा॒तः
अ॒ग्निः
रो॑चते
चेकि॑तानः
जा॒तो
अ॒ग्नी
रो॑चते
चेकि॑तानो
Halfverse: b
वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ ।
वा॒जी
विप्रः
कविश॒स्तः
सु॒दानुः
।
वा॒जी
विप्रः
कविश॒स्तः
सु॒दानुः
।
Halfverse: c
यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ।।
यं दे॒वास॒ ईड्यं॑ विश्व॒विदं
यम्
दे॒वासः
ईड्य॑म्
विश्व॒विद॑म्
यं
दे॒वास
ईडि॑यं
विश्व॒विदं
Halfverse: d
हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ।।
ह॑व्य॒वाह॑म्
अद॑धुः
अध्व॒रेषु
।।
ह॑व्य॒वाह॑म्
अद॑धुर्
अध्व॒रेषु
।।
Verse: 8
Halfverse: a
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ ।
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्
सीद
होतर्
स्वे
उ॑लो॒के
!
चि॑कि॒त्वान्
सीद
होतः
स्व
उ॑लो॒के
चि॑कि॒त्वान्
Halfverse: b
सा॒दया॑ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ॑ ।
सा॒दय+
य॒ज्ञम्
सुकृ॒तस्य
योनौ
।
सा॒दया
य॒ज्ञं
सु॑कृ॒तस्य
योनौ
।
Halfverse: c
दे॑वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।।
दे॑वा॒वीर्दे॒वान्ह॒विषा॑ यजास्य्
देवा॒वीः
दे॒वान्
ह॒विषा
यजासि
देवा॒वीर्
दे॒वान्
ह॒विषा
यजासि
Halfverse: d
अग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।।
अग्ने
बृ॒हत्
यज॑माने
वयः
धाः
।।
अग्ने
बृ॒हद्
यज॑माने
वयो
धाः
।।
Verse: 9
Halfverse: a
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒यो ऽस्रे॑धन्त इतन॒ वाज॒मछ॑ ।
कृ॒णोत॑ धू॒मं वृष॑णं सखा॒यो
कृ॒णोत
धू॒मम्
वृष॑णम्
सखायः
कृ॒णोत
धू॒मं
वृष॑णं
सखायो
Halfverse: b
ऽस्रेधन्त इतन॒ वाज॒मछ॑ ।
अस्रे॑धन्तः
इतन
वाज॑म्
अछ
।
अस्रे॑धन्त
इतन
वाज॑म्
अछ
।
Halfverse: c
अ॒यम॒ग्निः पृ॑तना॒षाट्सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न् ।।
अ॒यम॒ग्निः पृ॑तना॒षाट्सु॒वीरो
अ॒यम्
अ॒ग्निः
पृ॑तना॒षाट्
सु॒वीरः
अ॒यम्
अ॒ग्निः
पृ॑तना॒षाट्
सु॒वीरो
Halfverse: d
येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न् ।।
येन
दे॒वासः
अस॑हन्त
दस्यू॑न्
।।
येन
दे॒वासो
अस॑हन्त
दस्यू॑न्
।।
Verse: 10
Halfverse: a
अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
अ॒यं ते॒ योनि॑रृ॒त्वियो
अ॒यम्
ते
योनिः
ऋ॒त्वियः
अ॒यं
ते
योनि॑र्
ऋ॒त्वियो
Halfverse: b
यतो॑ जा॒तो अरो॑चथाः ।
यतः
जा॒तः
अरो॑चथाः
।
यतो
जा॒तो
अरो॑चथाः
।
Halfverse: c
तं जा॒नन्न॑ग्न॒ आ सी॒दाथा॑ नो वर्धया॒ गिरः॑ ।।
तं जा॒नन्न॑ग्न॒ आ सी॑द
तम्
जा॒नन्
अग्ने
आ
सी॑द
तं
जा॒नन्न्
अग्न
आ
सी॑द
Halfverse: d
अथा॑ नो वर्धया॒ गिरः॑ ।।
अथ+
नः
वर्धय+
गिरः
।।
अथा
नो
वर्धया
गिरः
।।
Verse: 11
Halfverse: a
तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते ।
तनू॒नपा॑दुच्यते॒ गर्भ॑ आसु॒रो
तनू॒नपा॑त्
उच्यते
गर्भः
आसु॒रः
तनू॒नपा॑द्
उच्यते
गर्भ
आसु॒रो
Halfverse: b
नरा॒शंसो॑ भवति॒ यद्वि॒जाय॑ते ।
नरा॒शंसः
भवति
यत्
वि॒जाय॑ते
।
नरा॒शंसो
भवति
यद्
वि॒जाय॑ते
।
Halfverse: c
मा॑त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ।।
मा॑त॒रिश्वा॒ यदमि॑मीत मा॒तरि
मात॒रिश्वा
यत्
अमि॑मीत
मा॒तरि
मात॒रिश्वा
यद्
अमि॑मीत
मा॒तरि
Halfverse: d
वात॑स्य॒ सर्गो॑ अभव॒त्सरी॑मणि ।।
वात॑स्य
सर्गः
अभवत्
सरी॑मणि
।।
वात॑स्य
सर्गो
अभवत्
सरी॑मणि
।।
Verse: 12
Halfverse: a
सु॑नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः ।
सु॑नि॒र्मथा॒ निर्म॑थितः
सुनि॒र्मथा
निर्म॑थितः
सुनि॒र्मथा
निर्म॑थितः
Halfverse: b
सुनि॒धा निहि॑तः क॒विः ।
सु॑नि॒धा
निहि॑तः
क॒विः
।
सु॑नि॒धा
निहि॑तः
क॒विः
।
Halfverse: c
अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वान्दे॑वय॒ते य॑ज ।।
अग्ने॑ स्वध्व॒रा कृ॑णु
अग्ने
स्वध्व॒रा
कृ॑णु
अग्ने
सुअध्व॒रा
कृ॑णु
Halfverse: d
दे॒वान्दे॑वय॒ते य॑ज ।।
दे॒वान्
देवय॒ते
य॑ज
।।
दे॒वान्
देवय॒ते
य॑ज
।।
Verse: 13
Halfverse: a
अजी॑जनन्न॒मृत॒म्मर्त्या॑सो ऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुज॑म्भम् ।
अजी॑जनन्न॒मृत॒म्मर्त्या॑सो
अजी॑जनन्
अ॒मृत॑म्
मर्त्या॑सः
अजी॑जनन्न्
अ॒मृत॑म्
मर्ति॑यासो
Halfverse: b
ऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुज॑म्भम् ।
अ॑स्रे॒माण॑म्
त॒रणि॑म्
वी॒ळुज॑म्भम्
।
अ॑स्रे॒माणं
त॒रणिं
वी॒ळुज॑म्भम्
।
Halfverse: c
दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भन्ते ।।
दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः
दश
स्वसा॑रः
अ॒ग्रुवः
समी॒चीः
दश
स्वसा॑रो
अ॒ग्रुवः
समी॒चीः
Halfverse: d
पुमां॑सं जा॒तम॒भि सं र॑भन्ते ।।
पुमां॑सम्
जा॒तम्
अ॒भि
सम्
रभन्ते
।।
पुमां॑सं
जा॒तम्
अ॒भि
सं
र॑भन्ते
।।
Verse: 14
Halfverse: a
प्र स॒प्तहो॑ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि ।
प्र स॒प्तहो॑ता सन॒काद॑रोचत
प्र
स॒प्तहो॑ता
सन॒कात्
अरोचत
प्र
स॒प्तहो॑ता
सन॒काद्
अरोचत
Halfverse: b
मा॒तुरु॒पस्थे॒ यदशो॑च॒दूध॑नि ।
मा॒तुः
उ॒पस्थे
यत्
अशो॑चत्
ऊध॑नि
।
मा॒तुर्
उ॒पस्थे
यद्
अशो॑चद्
ऊध॑नि
।
Halfverse: c
न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा॑यत ।।
न नि मि॑षति सु॒रणो॑ दि॒वेदि॑वे
न
नि
मि॑षति
सु॒रणः
दि॒वेदि॑वे
न
नि
मि॑षति
सु॒रणो
दि॒वेदि॑वे
Halfverse: d
यदसु॑रस्य ज॒ठरा॒दजा॑यत ।।
यत्
असु॑रस्य
ज॒ठरा॑त्
अजा॑यत
।।
यद्
असु॑रस्य
ज॒ठरा॑द्
अजा॑यत
।।
Verse: 15
Halfverse: a
अ॑मित्रा॒युधो॑ म॒रुता॑मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः ।
अ॑मित्रा॒युधो॑ म॒रुता॑मिव प्र॒याः
अ॑मित्रा॒युधः
म॒रुता॑म्
इव
प्र॒याः
अ॑मित्रा॒युधो
म॒रुता॑म्
इव
प्र॒याः
Halfverse: b
प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः ।
प्र॑थम॒जाः
ब्रह्म॑णः
विश्व॑म्
इत्
विदुः
।
प्र॑थम॒जा
ब्रह्म॑णो
विश्व॑म्
इद्
विदुः
।
Halfverse: c
द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ।।
द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र
द्यु॒म्नव॑त्
ब्रह्म
कुशि॒कासः
आ
ई॑रिरे
द्यु॒म्नव॑द्
ब्रह्म
कुशि॒कास
एरि॑र
Halfverse: d
एक॑एको॒ दमे॑ अ॒ग्निं समी॑धिरे ।।
एक॑एकः
दमे
अ॒ग्निम्
सम्
ईधिरे
।।
एक॑एको
दमे
अ॒ग्निं
सम्
ईधिरे
।।
Verse: 16
Halfverse: a
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वो ऽवृ॑णीमही॒ह ।
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्
यत्
अ॒द्य
त्वा
प्रय॒ति
य॒ज्ञे
अ॒स्मिन्
यद्
अ॒द्य
त्वा
प्रय॒ति
य॒ज्ञे
अ॒स्मिन्
Halfverse: b
होत॑श्चिकि॒त्वो ऽवृ॑णीमही॒ह ।
होत॑र्
चिकित्वः
अवृ॑णीमहि
इ॒ह
।
होत॑श्
चिकित्वो
अवृ॑णीमही॒ह
।
Halfverse: c
ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ।।
ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः
ध्रु॒वम्
अयाः
ध्रु॒वम्
उ॒त
अ॑शमिष्ठाः
ध्रु॒वम्
अया
ध्रु॒वम्
उ॒ताश॑मिष्ठाः
Halfverse: d
प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ।।
प्र॑जा॒नन्
वि॒द्वान्
उप
याहि
सोम॑म्
।।
प्र॑जा॒नन्
वि॒द्वाँ
उप
याहि
सोम॑म्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.