TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 273
Hymn: 39_(273)
Verse: 1
Halfverse: a
इन्द्र॑म्म॒तिर्हृ॒द आ व॒च्यमा॒नाछा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।
इन्द्र॑म्म॒तिर्हृ॒द आ व॒च्यमा॑ना
इन्द्र॑म्
म॒तिः
हृ॒दः
आ
व॒च्यमा॑ना
इन्द्र॑म्
म॒तिर्
हृ॒द
आ
व॒च्यमा॑ना
Halfverse: b
अछा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।
अछ+
पति॑म्
स्तोम॑तष्टा
जिगाति
।
अछा
पतिं
स्तोम॑तष्टा
जिगाति
।
Halfverse: c
या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ।।
या जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना
या
जागृ॑विः
वि॒दथे
श॒स्यमा॑ना
या
जागृ॑विर्
वि॒दथे
श॒स्यमा॑ना
Halfverse: d
इन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ।।
इन्द्र
यत्
ते
जाय॑ते
वि॒द्धि
तस्य
।।
इन्द्र
यत्
ते
जाय॑ते
वि॒द्धि
तस्य
।।
Verse: 2
Halfverse: a
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना
दि॒वः
चि॑त्
आ
पू॒र्व्या
जाय॑माना
दि॒वश्
चिद्
आ
पू॑र्वि॒या
जाय॑माना
Halfverse: b
वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।
वि
जागृ॑विः
वि॒दथे
श॒स्यमा॑ना
।
वि
जागृ॑विर्
वि॒दथे
श॒स्यमा॑ना
।
Halfverse: c
भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ।।
भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना
भ॒द्रा
वस्त्रा॑णि
अर्जु॑ना
वसा॑ना
भ॒द्रा
वस्त्रा॑णि
अर्जु॑ना
वसा॑ना
Halfverse: d
सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ।।
सा
इ॒यम्
अ॒स्मे
स॑न॒जा
पित्र्या
धीः
।।
सेयम्
अ॒स्मे
स॑न॒जा
पित्रि॑या
धीः
।।
Verse: 3
Halfverse: a
य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्र॒म्पत॒दा ह्यस्था॑त् ।
य॒मा चि॒दत्र॑ यम॒सूर॑सूत
य॒मा
चि॑त्
अत्र
यम॒सूः
अ॑सूत
य॒मा
चि॑द्
अत्र
यम॒सूर्
असूत
Halfverse: b
जि॒ह्वाया॒ अग्र॒म्पत॒दा ह्यस्था॑त् ।
जि॒ह्वायाः
अग्र॑म्
पत॑त्
आ
हि
अस्था॑त्
।
जि॒ह्वाया
अग्र॑म्
पत॑द्
आ
हि
अस्था॑त्
।
Halfverse: c
वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ।।
वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते
वपूं॑षि
जा॒ता
मि॑थु॒ना
स॑चेते
वपूं॑षि
जा॒ता
मि॑थु॒ना
स॑चेते
Halfverse: d
तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ।।
त॑मो॒हना
तपु॑षः
बु॒ध्ने
एता
।।
त॑मो॒हना
तपु॑षो
बु॒ध्न
एता
।।
Verse: 4
Halfverse: a
नकि॑रेषां निन्दि॒ता मर्त्ये॑षु॒ ये अ॒स्माक॑म्पि॒तरो॒ गोषु॑ यो॒धाः ।
नकि॑रेषां निन्दि॒ता मर्त्ये॑षु
नकिः
एषाम्
निन्दि॒ता
मर्त्ये॑षु
नकि॑र्
एषां
निन्दि॒ता
मर्ति॑येषु
Halfverse: b
ये अ॒स्माक॑म्पि॒तरो॒ गोषु॑ यो॒धाः ।
ये
अ॒स्माक॑म्
पि॒तरः
गोषु
यो॒धाः
।
ये
अ॒स्माक॑म्
पि॒तरो
गोषु
यो॒धाः
।
Halfverse: c
इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ।।
इन्द्र॑ एषां दृंहि॒ता माहि॑नावान्
इन्द्रः
एषाम्
दृंहि॒ता
माहि॑नावान्
इन्द्र
एषां
दृंहि॒ता
माहि॑नावान्
Halfverse: d
उद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ।।
उत्
गो॒त्राणि
ससृजे
दं॒सना॑वान्
।।
उद्
गो॒त्राणि
ससृजे
दं॒सना॑वान्
।।
Verse: 5
Halfverse: a
सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् ।
सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैर्
सखा
ह
यत्र
सखि॑भिः
नव॑ग्वैः
सखा
ह
यत्र
सखि॑भिर्
नव॑ग्वैर्
Halfverse: b
अभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् ।
अ॑भि॒ज्ञु
आ
सत्व॑भिः
गाः
अ॑नु॒ग्मन्
।
अ॑भि॒ज्ञु
आ
सत्व॑भिर्
गा
अ॑नु॒ग्मन्
।
Halfverse: c
स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म् ।।
स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वैः
स॒त्यम्
तत्
इन्द्रः
द॒शभिः
दश॑ग्वैः
स॒त्यं
तद्
इन्द्रो
द॒शभि॑र्
दश॑ग्वैः
Halfverse: d
सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म् ।।
सूर्य॑म्
विवेद
तम॑सि
क्षि॒यन्त॑म्
।।
सूर्यं
विवेद
तम॑सि
क्षि॒यन्त॑म्
।।
Verse: 6
Halfverse: a
इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया॑याम्प॒द्वद्वि॑वेद श॒पव॒न्नमे॒ गोः ।
इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया॑याम्
इन्द्रः
मधु
सम्भृ॑तम्
उ॒स्रिया॑याम्
इन्द्रो
मधु
सम्भृ॑तम्
उ॒स्रिया॑याम्
Halfverse: b
प॒द्वद्वि॑वेद श॒पव॒न्नमे॒ गोः ।
प॒द्वत्
विवेद
श॒पव॑त्
नमे
गोः
।
प॒द्वद्
विवेद
श॒पव॑न्
नमे
गोः
।
Halfverse: c
गुहा॑ हि॒तं गुह्यं॑ गू॒ऴम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ।।
गुहा॑ हि॒तं गुह्यं॑ गू॒ऴम॒प्सु
गुहा
हि॒तम्
गुह्य॑म्
गू॒ऴम्
अ॒प्सु
गुहा
हि॒तं
गुहि॑यं
गू॒ऴम्
अ॒प्सु
Halfverse: d
हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ।।
हस्ते
दधे
दक्षि॑णे
दक्षि॑णावान्
।।
हस्ते
दधे
दक्षि॑णे
दक्षि॑णावान्
।।
Verse: 7
Halfverse: a
ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ ।
ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्न्
ज्योतिः
वृणीत
तम॑सः
विजा॒नन्
ज्योति॑र्
वृणीत
तम॑सो
विजा॒नन्न्
Halfverse: b
आ॒रे स्या॑म दुरि॒ताद॒भीके॑ ।
आ॒रे
स्या॑म
दुरि॒तात्
अ॒भीके
।
आ॒रे
सि॑याम
दुरि॒ताद्
अ॒भीके
।
Halfverse: c
इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे॑न्द्र पुरु॒तम॑स्य का॒रोः ।।
इ॒मा गिरः॑ सोमपाः सोमवृद्ध
इ॒माः
गिरः
सोमपाः
सोमवृद्ध
इ॒मा
गिरः
सोमपाः
सोमवृद्ध
Halfverse: d
जु॒षस्वे॑न्द्र पुरु॒तम॑स्य का॒रोः ।।
जु॒षस्व
इन्द्र
पुरु॒तम॑स्य
का॒रोः
।।
जु॒षस्वे॑न्द्र
पुरु॒तम॑स्य
का॒रोः
।।
Verse: 8
Halfverse: a
ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरेः॑ ।
ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्याद्
ज्योतिः
य॒ज्ञाय
रोद॑सी
अनु
स्यात्
ज्योति॑र्
य॒ज्ञाय
रोद॑सी
अनु
ष्याद्
Halfverse: b
आ॒रे स्या॑म दुरि॒तस्य॒ भूरेः॑ ।
आ॒रे
स्या॑म
दुरि॒तस्य
भूरेः
।
आ॒रे
सि॑याम
दुरि॒तस्य
भूरेः
।
Halfverse: c
भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ।।
भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य
भूरि
चित्
हि
तु॑ज॒तः
मर्त्य॑स्य
भूरि
चिद्
धि
तु॑ज॒तो
मर्ति॑यस्य
Halfverse: d
सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ।।
सु॑पा॒रासः
वसवः
ब॒र्हणा॑वत्
।।
सु॑पा॒रासो
वसवो
ब॒र्हणा॑वत्
।।
Verse: 9
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.