TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 905
Hymn: 68_(894)
Verse: 1
Halfverse: a
उ॑द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ ।
उ॑द॒प्रुतो॒ न वयो॒ रक्ष॑माणा
उद॒प्रुतः
न
वयः
रक्ष॑माणाः
उद॒प्रुतो
न
वयो
रक्ष॑माणा
Halfverse: b
वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ ।
वाव॑दतः
अ॒भ्रिय॑स्य
इव
घोषाः
।
वाव॑दतो
अ॒भ्रिय॑स्येव
घोषाः
।
Halfverse: c
गि॑रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॒र्का अ॑नावन् ।।
गि॑रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो
गिरि॒भ्रजः
न
ऊ॒र्मयः
मद॑न्तः
गिरि॒भ्रजो
न
ऊ॒र्मयो
मद॑न्तो
Halfverse: d
बृह॒स्पति॑म॒भ्य॒र्का अ॑नावन् ।।
बृह॒स्पति॑म्
अ॒भि
अ॒र्काः
अ॑नावन्
।।
बृह॒स्पति॑म्
अ॒भि
अ॒र्का
अ॑नावन्
।।
Verse: 2
Halfverse: a
सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय ।
सं गोभि॑राङ्गिर॒सो नक्ष॑माणो
सम्
गोभिः
आङ्गिर॒सः
नक्ष॑माणः
सं
गोभि॑र्
आङ्गिर॒सो
नक्ष॑माणो
Halfverse: b
भग॑ इ॒वेद॑र्य॒मणं॑ निनाय ।
भगः
इव
इत्
अर्य॒मण॑म्
निनाय
।
भग
इ॒वेद्
अर्य॒मणं
निनाय
।
Halfverse: c
जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ।।
जने॑ मि॒त्रो न दम्प॑ती अनक्ति
जने
मि॒त्रः
न
दम्प॑ती
अनक्ति
जने
मि॒त्रो
न
दम्प॑ती
अनक्ति
Halfverse: d
बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ।।
बृह॑स्पते
वा॒जय
आ॒शून्
इव
आ॒जौ
।।
बृह॑स्पते
वा॒जया॒शूँर्
इवा॒जौ
।।
Verse: 3
Halfverse: a
सा॑ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः ।
सा॑ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा
सा॑ध्व॒र्याः
अ॑ति॒थिनीः
इषि॒राः
सा॑धुअ॒र्या
अ॑ति॒थिनी॑र्
इषि॒रा
Halfverse: b
स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः ।
स्पा॒र्हाः
सु॒वर्णाः
अनव॒द्यरू॑पाः
।
स्पा॒र्हाः
सु॒वर्णा
अनव॒द्यरू॑पाः
।
Halfverse: c
बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ।।
बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या
बृह॒स्पतिः
पर्व॑तेभ्यः
वि॒तूर्य+
बृह॒स्पतिः
पर्व॑तेभ्यो
वि॒तूर्या
Halfverse: d
निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ।।
निः
गाः
ऊ॑पे
यव॑म्
इव
स्थि॒विभ्यः
।।
निर्
गा
ऊ॑पे
यव॑म्
इव
स्थि॒विभ्यः
।।
Verse: 4
Halfverse: a
आ॑प्रुषा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः ।
आ॑प्रुषा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑म्
आप्रुषा॒यन्
मधु॑ना
ऋ॒तस्य
योनि॑म्
आप्रुषा॒यन्
मधु॑न
र्तस्य
योनि॑म्
Halfverse: b
अवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः ।
अ॑वक्षि॒पन्
अ॒र्कः
उ॒ल्काम्
इव
द्योः
।
अ॑वक्षि॒पन्न्
अ॒र्क
उ॒ल्काम्
इव
द्योः
।
Halfverse: c
बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वच॑म्बिभेद ।।
बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा
बृह॒स्पतिः
उ॒द्धर॑न्
अश्म॑नः
गाः
बृह॒स्पति॑र्
उ॒द्धर॑न्न्
अश्म॑नो
गा
Halfverse: d
भूम्या॑ उ॒द्नेव॒ वि त्वच॑म्बिभेद ।।
भूम्याः
उ॒द्ना
इ॑व
वि
त्वच॑म्
बिभेद
।।
भूम्या
उ॒द्नेव
वि
त्वच॑म्
बिभेद
।।
Verse: 5
Halfverse: a
अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत् ।
अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षाद्
अप
ज्योति॑षा
तमः
अ॒न्तरि॑क्षात्
अप
ज्योति॑षा
तमो
अ॒न्तरि॑क्षाद्
Halfverse: b
उ॒द्नः शीपा॑लमिव॒ वात॑ आजत् ।
उ॒द्नः
शीपा॑लम्
इव
वातः
आजत्
।
उ॒द्नः
शीपा॑लम्
इव
वात
आजत्
।
Halfverse: c
बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ।।
बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्य
बृह॒स्पतिः
अनु॒मृश्य+
व॒लस्य
बृह॒स्पति॑र्
अनु॒मृश्या
व॒लस्य
Halfverse: d
॑अ॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ।।
अ॒भ्रम्
इव
वातः
आ
च॑क्रे
आ
गाः
।।
अ॒भ्रम्
इव
वात
आ
च॑क्र
आ
गाः
।।
Verse: 6
Halfverse: a
य॒दा व॒लस्य॒ पीय॑तो॒ जसु॒म्भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः ।
य॒दा व॒लस्य॒ पीय॑तो॒ जसु॒म्भेद्
य॒दा
व॒लस्य
पीय॑तः
जसु॑म्
भेत्
य॒दा
व॒लस्य
पीय॑तो
जसु॑म्
भेद्
Halfverse: b
बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः ।
बृह॒स्पतिः
अग्नि॒तपो॑भिः
अ॒र्कैः
।
बृह॒स्पति॑र्
अग्नि॒तपो॑भिर्
अ॒र्कैः
।
Halfverse: c
द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ।।
द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑द्
द॒द्भिः
न
जि॒ह्वा
परि॑विष्टम्
आ
!
अ॑दत्
!
द॒द्भिर्
न
जि॒ह्वा
परि॑विष्टम्
आद॑द्
Halfverse: d
आ॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ।।
आ॒विः
नि॒धीन्
अकृणोत्
उ॒स्रिया॑णाम्
।।
आ॒विर्
नि॒धीँर्
अकृणोद्
उ॒स्रिया॑णाम्
।।
Verse: 7
Halfverse: a
बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् ।
बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां
बृह॒स्पतिः
अम॑त
हि
त्यत्
आसाम्
बृह॒स्पति॑र्
अम॑त
हि
त्यद्
आसां
Halfverse: b
नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् ।
नाम
स्व॒रीणा॑म्
सद॑ने
गुहा
यत्
।
नाम
स्व॒रीणां
सद॑ने
गुहा
यत्
।
Halfverse: c
आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ।।
आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॑म्
आ॒ण्डा
इ॑व
भि॒त्त्वा
श॑कु॒नस्य
गर्भ॑म्
आ॒ण्डेव
भि॒त्त्वा
श॑कु॒नस्य
गर्भ॑म्
Halfverse: d
उदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ।।
उत्
उ॒स्रियाः
पर्व॑तस्य
त्मना
आजत्
।।
उद्
उ॒स्रियाः
पर्व॑तस्य
त्मना॑जत्
।।
Verse: 8
Halfverse: a
अश्नापि॑नद्ध॒म्मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् ।
अश्नापि॑नद्ध॒म्मधु॒ पर्य॑पश्यन्
अश्ना
अपि॑नद्धम्
मधु
परि
अपश्यत्
अश्नापि॑नद्धम्
मधु
पर्य्
अपश्यन्
Halfverse: b
मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् ।
मत्स्य॑म्
न
दी॒ने
उ॒दनि
क्षि॒यन्त॑म्
।
मत्स्यं
न
दी॒न
उ॒दनि
क्षि॒यन्त॑म्
।
Halfverse: c
निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ।।
निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्
निः
तत्
जभार
चम॒सम्
न
वृ॒क्षात्
निष्
टज्
जभार
चम॒सं
न
वृ॒क्षाद्
Halfverse: d
बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ।।
बृह॒स्पतिः
विर॒वेण+
वि॒कृत्य
।।
बृह॒स्पति॑र्
विर॒वेणा
वि॒कृत्य
।।
Verse: 9
Halfverse: a
सोषाम॑विन्द॒त्स स्वः॒ सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि ।
सोषाम॑विन्द॒त्स स्वः॒ सो अ॒ग्निं
स
उ॒षाम्
अविन्दत्
स
स्व॑र्
सः
।!।
अ॒ग्निम्
सोषाम्
अविन्दत्
स
सुवः
सो
अ॒ग्निं
Halfverse: b
सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि ।
सः
।!।
अ॒र्केण
वि
ब॑बाधे
तमां॑सि
।
सो
अ॒र्केण
वि
ब॑बाधे
तमां॑सि
।
Halfverse: c
बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ।।
बृह॒स्पति॒र्गोव॑पुषो व॒लस्य
बृह॒स्पतिः
गोव॑पुषः
व॒लस्य
बृह॒स्पति॑र्
गोव॑पुषो
व॒लस्य
Halfverse: d
निर्म॒ज्जानं॒ न पर्व॑णो जभार ।।
निः
म॒ज्जान॑म्
न
पर्व॑णः
जभार
।।
निर्
म॒ज्जानं
न
पर्व॑णो
जभार
।।
Verse: 10
Halfverse: a
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः ।
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि
हि॒मा
इ॑व
प॒र्णा
मु॑षि॒ता
वना॑नि
हि॒मेव
प॒र्णा
मु॑षि॒ता
वना॑नि
Halfverse: b
बृह॒स्पति॑नाकृपयद्व॒लो गाः ।
बृह॒स्पति॑ना
अकृपयत्
व॒लः
गाः
।
बृह॒स्पति॑नाकृपयद्
व॒लो
गाः
।
Halfverse: c
अ॑नानुकृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ।।
अ॑नानुकृ॒त्यम॑पु॒नश्च॑कार
अनानुकृ॒त्यम्
अपु॒नर्
चकार
अनानुकृ॒त्यम्
अपु॒नश्
चकार
Halfverse: d
यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ।।
यात्
सूर्या॒मासा
मि॒थः
उ॒च्चरा॑तः
।।
यात्
सूर्या॒मासा
मि॒थ
उ॒च्चरा॑तः
।।
Verse: 11
Halfverse: a
अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् ।
अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं
अ॒भि
श्या॒वम्
न
कृश॑नेभिः
अश्व॑म्
अ॒भि
श्या॒वं
न
कृश॑नेभिर्
अश्वं
Halfverse: b
नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् ।
नक्ष॑त्रेभिः
पि॒तरः
द्याम्
अपिंशन्
।
नक्ष॑त्रेभिः
पि॒तरो
द्याम्
अपिंशन्
।
Halfverse: c
रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ।।
रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॑न्
रात्र्या॑म्
तमः
अद॑धुः
ज्योतिः
अह॑न्
रात्र्यां
तमो
अद॑धुर्
ज्योति॑र्
अह॑न्
Halfverse: d
बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ।।
बृह॒स्पतिः
भि॒नत्
अद्रि॑म्
वि॒दत्
गाः
।।
बृह॒स्पति॑र्
भि॒नद्
अद्रिं
वि॒दद्
गाः
।।
Verse: 12
Halfverse: a
इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति ।
इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय
इ॒दम्
अकर्म
नमः
अभ्रि॒याय
इ॒दम्
अकर्म
नमो
अभ्रि॒याय
Halfverse: b
यः पू॒र्वीरन्वा॒नोन॑वीति ।
यः
पू॒र्वीः
अनु
आ॒नोन॑वीति
।
यः
पू॒र्वीर्
?
अनु
आ॒नोन॑वीति
।
Halfverse: c
बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ।।
बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः
बृह॒स्पतिः
स
हि
गोभिः
सः
।!।
अश्वैः
बृह॒स्पतिः
स
हि
गोभिः
सो
अश्वैः
Halfverse: d
स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ।।
स
वी॒रेभिः
स
नृभिः
नः
वयः
धात्
।।
स
वी॒रेभिः
स
नृभि॑र्
नो
वयो
धात्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.