TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 908
Hymn: 71_(897)
Verse: 1
Halfverse: a
बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः ।
बृह॑स्पते प्रथ॒मं वा॒चो अग्रं
बृह॑स्पते
प्रथ॒मम्
वा॒चः
अग्र॑म्
बृह॑स्पते
प्रथ॒मं
वा॒चो
अग्रं
Halfverse: b
यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः ।
यत्
प्र
ऐर॑त
नाम॒धेय॑म्
दधा॑नाः
।
यत्
प्रैर॑त
नाम॒धेयं
दधा॑नाः
।
Halfverse: c
यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ।।
यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्
यत्
एषाम्
श्रेष्ठ॑म्
यत्
अरि॒प्रम्
आसी॑त्
यद्
एषां
श्रेष्ठं
यद्
अरि॒प्रम्
आसी॑त्
Halfverse: d
प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ।।
प्रे॒णा
तत्
एषाम्
निहि॑तम्
गुहा
आ॒विः
।।
प्रे॒णा
तद्
एषां
निहि॑तं
गुहा॒विः
।।
Verse: 2
Halfverse: a
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
सक्तु॑मिव॒ तित॑उना पु॒नन्तो
सक्तु॑म्
इव
तित॑उना
पु॒नन्तः
सक्तु॑म्
इव
तित॑उना
पु॒नन्तो
Halfverse: b
यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
यत्र
धीराः
मन॑सा
वाच॑म्
अक्र॑त
।
यत्र
धीरा
मन॑सा
वाच॑म्
अक्र॑त
।
Halfverse: c
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ।।
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते
अत्र+
सखा॑यः
स॒ख्यानि
जानते
अत्रा
सखा॑यः
सखि॒यानि
जानते
Halfverse: d
भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ।।
भ॒द्रा
ए॑षाम्
ल॒क्ष्मीः
निहि॑ता
अधि
वा॒चि
।।
भ॒द्रैषां
ल॒क्ष्मीर्
निहि॒ताधि
वा॒चि
।।
Verse: 3
Halfverse: a
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् ।
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑मायन्
य॒ज्ञेन
वा॒चः
प॑द॒वीय॑म्
आयन्
य॒ज्ञेन
वा॒चः
प॑द॒वीय॑म्
आयन्
Halfverse: b
तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् ।
ताम्
अनु
अविन्दन्
ऋषि॑षु
प्रवि॑ष्टाम्
।
ताम्
अन्व्
अविन्दन्न्
ऋषि॑षु
प्रवि॑ष्टाम्
।
Halfverse: c
तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ।।
तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा
ताम्
आ॒भृत्य+
वि
अ॑दधुः
पुरु॒त्रा
ताम्
आ॒भृत्या
वि
अ॑दधुः
पुरु॒त्रा
Halfverse: d
तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ।।
ताम्
स॒प्त
रे॒भाः
अ॒भि
सम्
नवन्ते
।।
तां
स॒प्त
रे॒भा
अ॒भि
सं
न॑वन्ते
।।
Verse: 4
Halfverse: a
उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् ।
उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑म्
उ॒त
त्वः
पश्य॑न्
न
द॑दर्श
वाच॑म्
उ॒त
त्वः
पश्य॑न्
न
द॑दर्श
वाच॑म्
Halfverse: b
उ॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् ।
उ॒त
त्वः
शृ॒ण्वन्
न
शृ॑णोति
एनाम्
।
उ॒त
त्वः
शृ॒ण्वन्
न
शृ॑णोति
एनाम्
।
Halfverse: c
उ॒तो त्व॑स्मै त॒न्वं॒ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।।
उ॒तो त्व॑स्मै त॒न्वं॒ वि स॑स्रे
उ॒त
उ
त्वस्मै
त॒न्व॑म्
वि
स॑स्रे
उ॒तो
तु॑वस्मै
त॒नुवं
वि
स॑स्रे
Halfverse: d
जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।।
जा॒या
इ॑व
पत्ये
उश॒ती
सु॒वासाः
।।
जा॒येव
पत्य
उश॒ती
सु॒वासाः
।।
Verse: 5
Halfverse: a
उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।
उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहुर्
उ॒त
त्व॑म्
स॒ख्ये
स्थि॒रपी॑तम्
आहुः
उ॒त
त्वं
स॒ख्ये
स्थि॒रपी॑तम्
आहुर्
Halfverse: b
नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु ।
न
ए॑नम्
हिन्वन्ति
अपि
वाजि॑नेषु
।
नैनं
हिन्वन्ति
अपि
वाजि॑नेषु
।
Halfverse: c
अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑प॒लाम॑पु॒ष्पाम् ।।
अधे॑न्वा चरति मा॒ययै॒ष
अधे॑न्वा
चरति
मा॒यया
ए॒ष
अधे॑नुवा
चरति
मा॒ययै॒ष
Halfverse: d
वाचं॑ शुश्रु॒वाँ अ॑प॒लाम॑पु॒ष्पाम् ।।
वाच॑म्
शुश्रु॒वान्
अप॒लाम्
अपु॒ष्पाम्
।।
वाचं
शुश्रु॒वाँ
अ॑प॒लाम्
अपु॒ष्पाम्
।।
Verse: 6
Halfverse: a
यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं
यः
ति॒त्याज
सचि॒विद॑म्
सखा॑यम्
यस्
ति॒त्याज
सचि॒विदं
सखा॑यं
Halfverse: b
न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
न
तस्य
वा॒चि
अपि
भा॒गः
अ॑स्ति
।
न
तस्य
वा॒चि
अपि
भा॒गो
अ॑स्ति
।
Halfverse: c
यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ।।
यदीं॑ शृ॒णोत्यल॑कं शृणोति
यत्
ईम्
शृ॒णोति
अल॑कम्
शृणोति
यद्
ईं
शृ॒णोति
अल॑कं
शृणोति
Halfverse: d
न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॑म् ।।
न॒हि
प्र॒वेद
सुकृ॒तस्य
पन्था॑म्
।।
न॒हि
प्र॒वेद
सुकृ॒तस्य
पन्था॑म्
।।
Verse: 7
Halfverse: a
अ॑क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यो मनोज॒वेष्वस॑मा बभूवुः ।
अ॑क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यो
अक्ष॒ण्वन्तः
कर्ण॑वन्तः
सखा॑यः
अक्ष॒ण्वन्तः
कर्ण॑वन्तः
सखा॑यो
Halfverse: b
मनोज॒वेष्वस॑मा बभूवुः ।
म॑नोज॒वेषु
अस॑माः
बभूवुः
।
म॑नोज॒वेषु
अस॑मा
बभूवुः
।
Halfverse: c
आ॑द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ।।
आ॑द॒घ्नास॑ उपक॒क्षास॑ उ त्वे
आद॒घ्नासः
उपक॒क्षासः
उ
त्वे
आद॒घ्नास
उपक॒क्षास
उ
त्वे
Halfverse: d
ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ।।
ह्र॒दाः
इ॑व
स्नात्वाः
उ
त्वे
ददृश्रे
।।
ह्र॒दा
इ॑व
स्नात्वा
उ
त्वे
ददृश्रे
।।
Verse: 8
Halfverse: a
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः ।
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु
हृ॒दा
त॒ष्टेषु
मन॑सः
ज॒वेषु
हृ॒दा
त॒ष्टेषु
मन॑सो
ज॒वेषु
Halfverse: b
यद्ब्रा॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः ।
यत्
ब्राह्म॒णाः
सं॒यज॑न्ते
सखा॑यः
।
यद्
ब्राह्म॒णाः
सं॒यज॑न्ते
सखा॑यः
।
Halfverse: c
अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ।।
अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॑र्
अत्र
अह
त्वम्
वि
ज॑हुः
वे॒द्याभिः
अत्राह
त्वं
वि
ज॑हुर्
वेदि॒याभि॑र्
Halfverse: d
ओह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ।।
ओह॑ब्रह्माणः
वि
च॑रन्ति
उ
त्वे
।।
ओह॑ब्रह्माणो
वि
च॑रन्ति
उ
त्वे
।।
Verse: 9
Halfverse: a
इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।
इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति
इ॒मे
ये
न
अ॒र्वाक्
न
प॒रः
चर॑न्ति
इ॒मे
ये
नार्वाङ्
न
प॒रश्
चर॑न्ति
Halfverse: b
न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।
न
ब्रा॑ह्म॒णासः
न
सु॒तेक॑रासः
।
न
ब्रा॑ह्म॒णासो
न
सु॒तेक॑रासः
।
Halfverse: c
त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ।।
त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया
ते
ए॒ते
वाच॑म्
अभि॒पद्य
पा॒पया
त
ए॒ते
वाच॑म्
अभि॒पद्य
पा॒पया
Halfverse: d
सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ।।
सि॒रीः
तन्त्र॑म्
तन्वते
अप्र॑जज्ञयः
।।
सि॒रीस्
तन्त्रं
तन्वते
अप्र॑जज्ञयः
।।
Verse: 10
Halfverse: a
सर्वे॑ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।
सर्वे॑ नन्दन्ति य॒शसाग॑तेन
सर्वे
नन्दन्ति
य॒शसा
आग॑तेन
सर्वे
नन्दन्ति
य॒शसाग॑तेन
Halfverse: b
सभासा॒हेन॒ सख्या॒ सखा॑यः ।
स॑भासा॒हेन
सख्या
सखा॑यः
।
स॑भासा॒हेन
सखि॑या
सखा॑यः
।
Halfverse: c
कि॑ल्बिष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ।।
कि॑ल्बिष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षाम्
किल्बिष॒स्पृत्
पितु॒षणिः
हि
ए॑षाम्
किल्बिष॒स्पृत्
पितु॒षणि॑र्
हि
ए॑षाम्
Halfverse: d
अरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ।।
अर॑म्
हि॒तः
भव॑ति
वाजि॑नाय
।।
अरं
हि॒तो
भव॑ति
वाजि॑नाय
।।
Verse: 11
Halfverse: a
ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।
ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्
ऋ॒चाम्
त्वः
पोष॑म्
आस्ते
पुपु॒ष्वान्
ऋ॒चां
तु॑वः
पोष॑म्
आस्ते
पुपु॒ष्वान्
Halfverse: b
गाय॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।
गा॑य॒त्रम्
त्वः
गायति
शक्व॑रीषु
।
गा॑य॒त्रं
त्वो
गायति
शक्व॑रीषु
।
Halfverse: c
ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ।।
ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां
ब्र॒ह्मा
त्वः
वद॑ति
जातवि॒द्याम्
ब्र॒ह्मा
तु॑वो
वद॑ति
जातवि॒द्यां
Halfverse: d
य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ।।
य॒ज्ञस्य
मात्रा॑म्
वि
मि॑मीते
उ
त्वः
।।
य॒ज्ञस्य
मात्रां
वि
मि॑मीत
उ
त्वः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.