TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 924
Hymn: 87_(913)
Verse: 1
Halfverse: a
र॑क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रम्प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।
र॑क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि
रक्षो॒हण॑म्
वा॒जिन॑म्
आ
जि॑घर्मि
रक्षो॒हणं
वा॒जिन॑म्
आ
जि॑घर्मि
Halfverse: b
मि॒त्रम्प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।
मि॒त्रम्
प्रथि॑ष्ठम्
उप
यामि
शर्म
।
मि॒त्रम्
प्रथि॑ष्ठम्
उप
यामि
शर्म
।
Halfverse: c
शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ।।
शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः
शिशा॑नः
अ॒ग्निः
क्रतु॑भिः
समि॑द्धः
शिशा॑नो
अ॒ग्निः
क्रतु॑भिः
समि॑द्धः
Halfverse: d
स नो॒ दिवा॒ स ।!। रि॒षः पा॑तु॒ नक्त॑म् ।।
स
नः
दिवा
स
रि॒षः
पा॑तु
नक्त॑म्
।।
स
नो
दिवा
स
रि॒षः
पा॑तु
नक्त॑म्
।।
Verse: 2
Halfverse: a
अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः ।
अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॑न्
अयो॑दंष्ट्रः
अ॒र्चिषा
यातु॒धाना॑न्
अयो॑दंष्ट्रो
अ॒र्चिषा
यातु॒धाना॑न्
Halfverse: b
उप॑ स्पृश जातवेदः॒ समि॑द्धः ।
उप
स्पृश
जातवेदः
समि॑द्धः
।
उप
स्पृश
जातवेदः
समि॑द्धः
।
Halfverse: c
आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ।।
आ जि॒ह्वया॒ मूर॑देवान्रभस्व
आ
जि॒ह्वया
मूर॑देवान्
रभस्व
आ
जि॒ह्वया
मूर॑देवान्
रभस्व
Halfverse: d
क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ।।
क्र॒व्यादः
वृ॒क्त्वी
अपि
धत्स्व
आ॒सन्
।।
क्र॒व्यादो
वृ॒क्त्वी
अपि
धत्स्व
आ॒सन्
।।
Verse: 3
Halfverse: a
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नो ऽव॑र॒म्परं॑ च ।
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा
उ॒भा
उ॑भयाविन्
उप
धेहि
दंष्ट्रा
उ॒भोभ॑याविन्न्
उप
धेहि
दंष्ट्रा
Halfverse: b
हिं॒स्रः शिशा॒नो ऽव॑र॒म्परं॑ च ।
हिं॒स्रः
शिशा॑नः
अव॑रम्
पर॑म्
च
।
हिं॒स्रः
शिशा॑नो
अव॑रम्
परं
च
।
Halfverse: c
उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ।।
उ॒तान्तरि॑क्षे॒ परि॑ याहि राजञ्
उ॒त
अ॒न्तरि॑क्षे
परि
याहि
राजन्
उ॒तान्तरि॑क्षे
परि
याहि
राजञ्
Halfverse: d
जम्भैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ।।
जम्भैः
सम्
धेहि
अ॒भि
या॑तु॒धाना॑न्
।।
जम्भैः
सं
धे॑हि
अ॒भि
या॑तु॒धाना॑न्
।।
Verse: 4
Halfverse: a
य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः ।
य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने
य॒ज्ञैः
इषूः
सं॒नम॑मानः
अग्ने
य॒ज्ञैर्
इषूः
सं॒नम॑मानो
अग्ने
Halfverse: b
वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः ।
वा॒चा
श॒ल्यान्
अ॒शनि॑भिः
दिहा॒नः
।
वा॒चा
श॒ल्याँ
अ॒शनि॑भिर्
दिहा॒नः
।
Halfverse: c
ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ।।
ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्
ताभिः
विध्य
हृद॑ये
यातु॒धाना॑न्
ताभि॑र्
विध्य
हृद॑ये
यातु॒धाना॑न्
Halfverse: d
प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ।।
प्र॑ती॒चः
बा॒हून्
प्रति
भङ्धि
एषाम्
।।
प्र॑ती॒चो
बा॒हून्
प्रति
भङ्धि
एषाम्
।।
Verse: 5
Halfverse: a
अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् ।
अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि
अग्ने
त्वच॑म्
यातु॒धान॑स्य
भिन्धि
अग्ने
त्वचं
यातु॒धान॑स्य
भिन्धि
Halfverse: b
हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् ।
हिं॒स्रा
अ॒शनिः
हर॑सा
हन्तु
एनम्
।
हिं॒स्राशनि॑र्
हर॑सा
हन्तु
एनम्
।
Halfverse: c
प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ।।
प्र पर्वा॑णि जातवेदः शृणीहि
प्र
पर्वा॑णि
जातवेदः
शृणीहि
प्र
पर्वा॑णि
जातवेदः
शृणीहि
Halfverse: d
क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ।।
क्र॒व्यात्
क्रवि॒ष्णुः
वि
चि॑नोतु
वृ॒क्णम्
।।
क्र॒व्यात्
क्रवि॒ष्णुर्
वि
चि॑नोतु
वृ॒क्णम्
।।
Verse: 6
Halfverse: a
यत्रे॒दानी॒म्पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् ।
यत्रे॒दानी॒म्पश्य॑सि जातवेदस्
यत्र
इ॒दानी॑म्
पश्य॑सि
जातवेदः
यत्रे॒दानी॑म्
पश्य॑सि
जातवेदस्
Halfverse: b
तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् ।
तिष्ठ॑न्तम्
अग्ने
उ॒त
वा
चर॑न्तम्
।
तिष्ठ॑न्तम्
अग्न
उ॒त
वा
चर॑न्तम्
।
Halfverse: c
यद्वा॒न्तरि॑क्षे प॒थिभिः॒ पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ।।
यद्वा॒न्तरि॑क्षे प॒थिभिः॒ पत॑न्तं
यत्
वा
अ॒न्तरि॑क्षे
प॒थिभिः
पत॑न्तम्
यद्
वा॒न्तरि॑क्षे
प॒थिभिः
पत॑न्तं
Halfverse: d
तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ।।
तम्
अस्ता
विध्य
शर्वा
शिशा॑नः
।।
तम्
अस्ता
विध्य
शरु॑वा
शिशा॑नः
।।
Verse: 7
Halfverse: a
उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् ।
उ॒ताल॑ब्धं स्पृणुहि जातवेद
उ॒त
आल॑ब्धम्
स्पृणुहि
जातवेदः
उ॒ताल॑ब्धं
स्पृणुहि
जातवेद
Halfverse: b
आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् ।
आ॑लेभा॒नात्
ऋ॒ष्टिभिः
यातु॒धाना॑त्
।
आ॑लेभा॒नाद्
ऋ॒ष्टिभि॑र्
यातु॒धाना॑त्
।
Halfverse: c
अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ।।
अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान
अग्ने
पूर्वः
नि
ज॑हि
शोशु॑चानः
अग्ने
पूर्वो
नि
ज॑हि
शोशु॑चान
Halfverse: d
आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ।।
आ॒मादः
क्ष्विङ्काः
तम्
अदन्तु
एनीः
।।
आ॒मादः
क्ष्विङ्का॑स्
तम्
अदन्तु
एनीः
।।
Verse: 8
Halfverse: a
इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ ।
इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने
इ॒ह
प्र
ब्रू॑हि
यत॒मः
सः
।!।
अ॑ग्ने
इ॒ह
प्र
ब्रू॑हि
यत॒मः
सो
अ॑ग्ने
Halfverse: b
यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ ।
यः
या॑तु॒धानः
यः
इ॒दम्
कृ॒णोति
।
यो
या॑तु॒धानो
य
इ॒दं
कृ॒णोति
।
Halfverse: c
तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ।।
तमा र॑भस्व स॒मिधा॑ यविष्ठ
तम्
आ
र॑भस्व
स॒मिधा
यविष्ठ
तम्
आ
र॑भस्व
स॒मिधा
यविष्ठ
Halfverse: d
नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ।।
नृ॒चक्ष॑सः
चक्षु॑षे
रन्धय
एनम्
।।
नृ॒चक्ष॑सश्
चक्षु॑षे
रन्धयैनम्
।।
Verse: 9
Halfverse: a
ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञम्प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः ।
ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञम्
ती॒क्ष्णेन
अग्ने
चक्षु॑षा
रक्ष
य॒ज्ञम्
ती॒क्ष्णेना॑ग्ने
चक्षु॑षा
रक्ष
य॒ज्ञम्
Halfverse: b
प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः ।
प्राञ्च॑म्
वसु॑भ्यः
प्र
न॑य
प्रचेतः
।
प्राञ्चं
वसु॑भ्यः
प्र
ण॑य
प्रचेतः
।
Halfverse: c
हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चान॒म्मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ।।
हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानम्
हिं॒स्रम्
रक्षां॑सि
अ॒भि
शोशु॑चानम्
हिं॒स्रं
रक्षां॑सि
अ॒भि
शोशु॑चानम्
Halfverse: d
मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ।।
मा
त्वा
दभन्
यातु॒धानाः
नृचक्षः
।।
मा
त्वा
दभन्
यातु॒धाना
नृचक्षः
।।
Verse: 10
Halfverse: a
नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ ।
नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु
नृ॒चक्षाः
रक्षः
परि
पश्य
वि॒क्षु
नृ॒चक्षा
रक्षः
परि
पश्य
वि॒क्षु
Halfverse: b
तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ ।
तस्य
त्रीणि
प्रति
शृणीहि
अग्रा
।
तस्य
त्रीणि
प्रति
शृणीहि
अग्रा
।
Halfverse: c
तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ।।
तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि
तस्य
अग्ने
पृ॒ष्टीः
हर॑सा
शृणीहि
तस्या॑ग्ने
पृ॒ष्टीर्
हर॑सा
शृणीहि
Halfverse: d
त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ।।
त्रे॒धा
मूल॑म्
यातु॒धान॑स्य
वृश्च
।।
त्रे॒धा
मूलं
यातु॒धान॑स्य
वृश्च
।।
Verse: 11
Halfverse: a
त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ ।
त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्व्
त्रिः
या॑तु॒धानः
प्रसि॑तिम्
ते
एतु
त्रिर्
यातु॒धानः
प्रसि॑तिं
त
एतु
Halfverse: b
ऋ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ ।
ऋ॒तम्
यः
अ॑ग्ने
अनृ॑तेन
हन्ति
।
ऋ॒तं
यो
अ॑ग्ने
अनृ॑तेन
हन्ति
।
Halfverse: c
तम॒र्चिषा॑ स्पू॒र्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ।।
तम॒र्चिषा॑ स्पू॒र्जय॑ञ्जातवेदः
तम्
अ॒र्चिषा
स्पू॒र्जय॑न्
जातवेदः
तम्
अ॒र्चिषा
स्पू॒र्जय॑ञ्
जातवेदः
Halfverse: d
सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ।।
स॑म॒क्षम्
एनम्
गृण॒ते
नि
वृ॑ङ्धि
।।
स॑म॒क्षम्
एनं
गृण॒ते
नि
वृ॑ङ्धि
।।
Verse: 12
Halfverse: a
तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑पा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् ।
तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे
तत्
अग्ने
चक्षुः
प्रति
धे॒हि
रे॒भे
तद्
अग्ने
चक्षुः
प्रति
धेहि
रे॒भे
Halfverse: b
श॑पा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान॑म् ।
श॑पा॒रुज॑म्
येन
पश्य॑सि
यातु॒धान॑म्
।
श॑पा॒रुजं
येन
पश्य॑सि
यातु॒धान॑म्
।
Halfverse: c
अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ।।
अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न
अथर्व॒वत्
ज्योति॑षा
दैव्ये॑न
अथर्व॒वज्
ज्योति॑षा
दैवि॑येन
Halfverse: d
स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो॑ष ।।
स॒त्यम्
धूर्व॑न्तम्
अ॒चित॑म्
नि
ओ॑ष
।।
स॒त्यं
धूर्व॑न्तम्
अ॒चितं
नि
ओ॑ष
।।
Verse: 13
Halfverse: a
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः ।
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो
यत्
अग्ने
अ॒द्य
मि॑थु॒ना
शपा॑तः
यद्
अग्ने
अ॒द्य
मि॑थु॒ना
शपा॑तो
Halfverse: b
यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः ।
यत्
वा॒चः
तृ॒ष्टम्
ज॒नय॑न्त
रे॒भाः
।
यद्
वा॒चस्
तृ॒ष्टं
ज॒नय॑न्त
रे॒भाः
।
Halfverse: c
म॒न्योर्मन॑सः शर॒व्या॒ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ।।
म॒न्योर्मन॑सः शर॒व्या॒ जाय॑ते॒ या
म॒न्योः
मन॑सः
शर॒व्या
जाय॑ते
या
म॒न्योर्
मन॑सः
शर॒व्या
जाय॑ते
या
Halfverse: d
तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ।।
तया
विध्य
हृद॑ये
यातु॒धाना॑न्
।।
तया
विध्य
हृद॑ये
यातु॒धाना॑न्
।।
Verse: 14
Halfverse: a
परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि ।
परा॑ शृणीहि॒ तप॑सा यातु॒धाना॑न्
परा
शृणीहि
तप॑सा
यातु॒धाना॑न्
परा
शृणीहि
तप॑सा
यातु॒धाना॑न्
Halfverse: b
परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि ।
परा
अग्ने
रक्षः
हर॑सा
शृणीहि
।
परा॑ग्ने
रक्षो
हर॑सा
शृणीहि
।
Halfverse: c
परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ।।
परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि
परा
अ॒र्चिषा
मूर॑देवान्
शृणीहि
परा॒र्चिषा
मूर॑देवाञ्
छृणीहि
Halfverse: d
परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ।।
परा
असु॒तृपः
अ॒भि
शोशु॑चानः
।।
परा॑सु॒तृपो
अ॒भि
शोशु॑चानः
।।
Verse: 15
Halfverse: a
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु तृ॒ष्टाः ।
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु
परा
अ॒द्य
दे॒वाः
वृ॑जि॒नम्
शृणन्तु
परा॒द्य
दे॒वा
वृ॑जि॒नं
शृ॑णन्तु
Halfverse: b
प्र॒त्यगे॑नं श॒पथा॑ यन्तु तृ॒ष्टाः ।
प्र॒त्यक्
एनम्
श॒पथाः
यन्तु
तृ॒ष्टाः
।
प्र॒त्यग्
एनं
श॒पथा
यन्तु
तृ॒ष्टाः
।
Halfverse: c
वा॒चास्ते॑नं॒ शर॑व ऋछन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ।।
वा॒चास्ते॑नं॒ शर॑व ऋछन्तु॒ मर्म॑न्
वा॒चास्ते॑नम्
शर॑वः
ऋछन्तु
मर्म॑न्
वा॒चास्ते॑नं
शर॑व
र्छन्तु
मर्म॑न्
Halfverse: d
विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ।।
विश्व॑स्य
एतु
प्रसि॑तिम्
यातु॒धानः
।।
विश्व॑स्यैतु
प्रसि॑तिं
यातु॒धानः
।।
Verse: 16
Halfverse: a
यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ ।
यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते
यः
पौरु॑षेयेण
क्र॒विषा
सम॒ङ्क्ते
यः
पौरु॑षेयेण
क्र॒विषा
सम॒ङ्क्ते
Halfverse: b
यो अश्व्ये॑न ।!। प॒शुना॑ यातु॒धानः॑ ।
यः
अश्व्ये॑न
प॒शुना
यातु॒धानः
।
यो
अश्व्ये॑न
प॒शुना
यातु॒धानः
।
Halfverse: c
यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ।।
यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने
यः
अ॒घ्न्यायाः
भर॑ति
क्षी॒रम्
अग्ने
यो
अ॒घ्न्याया
भर॑ति
क्षी॒रम्
अग्ने
Halfverse: d
तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ।।
तेषा॑म्
शी॒र्षाणि
हर॑सा
अपि
वृश्च
।।
तेषां
शी॒र्षाणि
हर॒सापि
वृश्च
।।
Verse: 17
Halfverse: a
सं॑वत्स॒रीण॒म्पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।
सं॑वत्स॒रीण॒म्पय॑ उ॒स्रिया॑यास्
संवत्स॒रीण॑म्
पयः
उ॒स्रिया॑याः
संवत्स॒रीण॑म्
पय
उ॒स्रिया॑यास्
Halfverse: b
तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।
तस्य
मा
अ॑शीत्
यातु॒धानः
नृचक्षः
।
तस्य
माशी॑द्
यातु॒धानो
नृचक्षः
।
Halfverse: c
पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तम्प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ।।
पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सात्
पी॒यूष॑म्
अग्ने
यत॒मः
तितृ॑प्सात्
पी॒यूष॑म्
अग्ने
यत॒मस्
तितृ॑प्सात्
Halfverse: d
तम्प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ।।
तम्
प्र॒त्यञ्च॑म्
अ॒र्चिषा
विध्य
मर्म॑न्
।।
तम्
प्र॒त्यञ्च॑म्
अ॒र्चिषा
विध्य
मर्म॑न्
।।
Verse: 18
Halfverse: a
वि॒षं गवां॑ यातु॒धानाः॑ पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवाः॑ ।
वि॒षं गवां॑ यातु॒धानाः॑ पिबन्त्व्
वि॒षम्
गवा॑म्
यातु॒धानाः
पिबन्तु
वि॒षं
गवां
यातु॒धानाः
पिबन्तु
Halfverse: b
आ वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवाः॑ ।
आ
वृ॑श्च्यन्ताम्
अदि॑तये
दु॒रेवाः
।
आ
वृ॑श्च्यन्ताम्
अदि॑तये
दु॒रेवाः
।
Halfverse: c
परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ।।
परै॑नान्दे॒वः स॑वि॒ता द॑दातु
परा
एनान्
दे॒वः
स॑वि॒ता
द॑दातु
परै॑नान्
दे॒वः
स॑वि॒ता
द॑दातु
Halfverse: d
परा॑ भा॒गमोष॑धीनां जयन्ताम् ।।
परा
भा॒गम्
ओष॑धीनाम्
जयन्ताम्
।।
परा
भा॒गम्
ओष॑धीनां
जयन्ताम्
।।
Verse: 19
Halfverse: a
स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।
स॒नाद॑ग्ने मृणसि यातु॒धाना॑न्
स॒नात्
अग्ने
मृणसि
यातु॒धाना॑न्
स॒नाद्
अग्ने
मृणसि
यातु॒धाना॑न्
Halfverse: b
न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।
न
त्वा
रक्षां॑सि
पृत॑नासु
जिग्युः
।
न
त्वा
रक्षां॑सि
पृत॑नासु
जिग्युः
।
Halfverse: c
अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ।।
अनु॑ दह स॒हमू॑रान्क्र॒व्यादो
अनु
दह
स॒हमू॑रान्
क्र॒व्यादः
अनु
दह
स॒हमू॑रान्
क्र॒व्यादो
Halfverse: d
मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ।।
मा
ते
हे॒त्याः
मु॑क्षत
दैव्या॑याः
।।
मा
ते
हे॒त्या
मु॑क्षत
दैवि॑यायाः
।।
Verse: 20
Halfverse: a
त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वम्प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् ।
त्वं नो॑ अग्ने अध॒रादुद॑क्तात्
त्वम्
नः
अग्ने
अध॒रात्
उद॑क्तात्
तु॒वं
नो
अग्ने
अध॒राद्
उद॑क्तात्
Halfverse: b
त्वम्प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् ।
त्वम्
प॒श्चात्
उ॒त
र॑क्ष+
पु॒रस्ता॑त्
।
तु॒वम्
प॒श्चाद्
उ॒त
र॑क्षा
पु॒रस्ता॑त्
।
Halfverse: c
प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ।।
प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा
प्रति
ते
ते
अ॒जरा॑सः
तपि॑ष्ठाः
प्रति
ते
ते
अ॒जरा॑सस्
तपि॑ष्ठा
Halfverse: d
अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ।।
अ॒घशं॑सम्
शोशु॑चतः
दहन्तु
।।
अ॒घशं॑सं
शोशु॑चतो
दहन्तु
।।
Verse: 21
Halfverse: a
प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् ।
प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्
प॒श्चात्
पु॒रस्ता॑त्
अध॒रात्
उद॑क्तात्
प॒श्चात्
पु॒रस्ता॑द्
अध॒राद्
उद॑क्तात्
Halfverse: b
क॒विः काव्ये॑न॒ परि॑ पाहि राजन् ।
क॒विः
काव्ये॑न
परि
पाहि
राजन्
।
क॒विः
काव्ये॑न
परि
पाहि
राजन्
।
Halfverse: c
सखे॒ सखा॑यम॒जरो॑ जरि॒म्णे ऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ।।
सखे॒ सखा॑यम॒जरो॑ जरि॒म्णे
सखे
सखा॑यम्
अ॒जरः
जरि॒म्णे
सखे
सखा॑यम्
अ॒जरो
जरि॒म्णे
Halfverse: d
ऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ।।
अग्ने
मर्ता॑न्
अम॑र्त्यः
त्वम्
नः
।।
अग्ने
मर्ताँ
अम॑र्तियस्
तु॒वं
नः
।।
Verse: 22
Halfverse: a
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि ।
परि॑ त्वाग्ने॒ पुरं॑ व॒यं
परि
त्वा
अग्ने
पुर॑म्
व॒यम्
परि
त्वाग्ने
पुरं
व॒यं
Halfverse: b
विप्रं॑ सहस्य धीमहि ।
विप्र॑म्
सहस्य
धीमहि
।
विप्रं
सहस्य
धीमहि
।
Halfverse: c
धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तार॑म्भङ्गु॒राव॑ताम् ।।
धृ॒षद्व॑र्णं दि॒वेदि॑वे
धृ॒षद्व॑र्णम्
दि॒वेदि॑वे
धृ॒षद्व॑र्णं
दि॒वेदि॑वे
Halfverse: d
ह॒न्तार॑म्भङ्गु॒राव॑ताम् ।।
ह॒न्तार॑म्
भङ्गु॒राव॑ताम्
।।
ह॒न्तार॑म्
भङ्गु॒राव॑ताम्
।।
Verse: 23
Halfverse: a
वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो॑ दह ।
वि॒षेण॑ भङ्गु॒राव॑तः
वि॒षेण
भङ्गु॒राव॑तः
वि॒षेण
भङ्गु॒राव॑तः
Halfverse: b
प्रति॑ ष्म र॒क्षसो॑ दह ।
प्रति
स्म
र॒क्षसः
दह
।
प्रति
ष्म
र॒क्षसो
दह
।
Halfverse: c
अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभिः॑ ।।
अग्ने॑ ति॒ग्मेन॑ शो॒चिषा
अग्ने
ति॒ग्मेन
शो॒चिषा
अग्ने
ति॒ग्मेन
शो॒चिषा
Halfverse: d
तपु॑रग्राभिरृ॒ष्टिभिः॑ ।।
तपु॑रग्राभिः
ऋ॒ष्टिभिः
।।
तपु॑रग्राभिर्
ऋ॒ष्टिभिः
।।
Verse: 24
Halfverse: a
प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ ।
प्रत्य॑ग्ने मिथु॒ना द॑ह
प्रति
अग्ने
मिथु॒ना
द॑ह
प्रत्य्
अग्ने
मिथु॒ना
द॑ह
Halfverse: b
यातु॒धाना॑ किमी॒दिना॑ ।
या॑तु॒धाना
किमी॒दिना
।
या॑तु॒धाना
किमी॒दिना
।
Halfverse: c
सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ।।
सं त्वा॑ शिशामि जागृह्य्
सम्
त्वा
शिशामि
जागृ॒हि
सं
त्वा
शिशामि
जागृहि
Halfverse: d
अद॑ब्धं विप्र॒ मन्म॑भिः ।।
अद॑ब्धम्
विप्र
मन्म॑भिः
।।
अद॑ब्धं
विप्र
मन्म॑भिः
।।
Verse: 25
Halfverse: a
प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ ।
प्रत्य॑ग्ने॒ हर॑सा॒ हरः
प्रति
अग्ने
हर॑सा
हरः
प्रत्य्
अग्ने
हर॑सा
हरः
Halfverse: b
शृणी॒हि वि॒श्वतः॒ प्रति॑ ।
शृ॑णी॒हि
वि॒श्वतः
प्रति
।
शृ॑णी॒हि
वि॒श्वतः
प्रति
।
Halfverse: c
या॑तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ।।
या॑तु॒धान॑स्य र॒क्षसो
यातु॒धान॑स्य
र॒क्षसः
यातु॒धान॑स्य
र॒क्षसो
Halfverse: d
बलं॒ वि रु॑ज वी॒र्य॑म् ।।
बल॑म्
वि
रु॑ज
वी॒र्य॑म्
।।
बलं
वि
रु॑ज
वी॒रिय॑म्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.