TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 293
Hymn: 59_(293)
Verse: 1
Halfverse: a
मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
मि॒त्रो जना॑न्यातयति ब्रुवा॒णो
मि॒त्रः
जना॑न्
यातयति
ब्रुवा॒णः
मि॒त्रो
जना॑न्
यातयति
ब्रुवा॒णो
Halfverse: b
मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
मि॒त्रः
दा॑धार
पृथि॒वीम्
उ॒त
द्याम्
।
मि॒त्रो
दा॑धार
पृथि॒वीम्
उ॒त
द्याम्
।
Halfverse: c
मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ।।
मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे
मि॒त्रः
कृ॒ष्टीः
अनि॑मिषा
अ॒भि
च॑ष्टे
मि॒त्रः
कृ॒ष्टीर्
अनि॑मिषा॒भि
च॑ष्टे
Halfverse: d
मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ।।
मि॒त्राय
ह॒व्यम्
घृ॒तव॑त्
जुहोत
।।
मि॒त्राय
ह॒व्यं
घृ॒तव॑ज्
जुहोत
।।
Verse: 2
Halfverse: a
प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वान्
प्र
स
मि॑त्र
मर्तः
अस्तु
प्रय॑स्वान्
प्र
स
मि॑त्र
मर्तो
अस्तु
प्रय॑स्वान्
Halfverse: b
यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
यः
ते
आदित्य
शिक्ष॑ति
व्र॒तेन
।
यस्
त
आदित्य
शिक्ष॑ति
व्र॒तेन
।
Halfverse: c
न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ।।
न ह॑न्यते॒ न जी॑यते॒ त्वोतो
न
ह॑न्यते
न
जी॑यते
त्वोतः
न
ह॑न्यते
न
जी॑यते
तु॒वोतो
Halfverse: d
नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ।।
न
ए॑नम्
अंहः
अश्नोति
अन्ति॑तः
न
दू॒रात्
।।
नैन॑म्
अंहो
अश्नोत्य्
अन्ति॑तो
न
दू॒रात्
।।
Verse: 3
Halfverse: a
अ॑नमी॒वास॒ इळ॑या॒ मद॑न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
अ॑नमी॒वास॒ इळ॑या॒ मद॑न्तो
अनमी॒वासः
इळ॑या
मद॑न्तः
अनमी॒वास
इळ॑या
मद॑न्तो
Halfverse: b
मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
मि॒तज्ञ॑वः
वरि॑मन्
आ
पृ॑थि॒व्याः
।
मि॒तज्ञ॑वो
वरि॑मन्न्
आ
पृ॑थि॒व्याः
।
Halfverse: c
आ॑दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यन्तो॑ व॒यम्मि॒त्रस्य॑ सुम॒तौ स्या॑म ।।
आ॑दि॒त्यस्य॑ व्र॒तमु॑पक्षि॒यन्तो
आदि॒त्यस्य
व्र॒तम्
उपक्षि॒यन्तः
आदि॒त्यस्य
व्र॒तम्
उपक्षि॒यन्तो
Halfverse: d
व॒यम्मि॒त्रस्य॑ सुम॒तौ स्या॑म ।।
व॒यम्
मि॒त्रस्य
सुम॒तौ
स्या॑म
।।
व॒यम्
मि॒त्रस्य
सुम॒तौ
सि॑याम
।।
Verse: 4
Halfverse: a
अ॒यम्मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।
अ॒यम्मि॒त्रो न॑म॒स्यः॑ सु॒शेवो
अ॒यम्
मि॒त्रः
न॑म॒स्यः
सु॒शेवः
अ॒यम्
मि॒त्रो
न॑म॒सियः
सु॒शेवो
Halfverse: b
राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः ।
राजा
सुक्ष॒त्रः
अ॑जनिष्ट
वे॒धाः
।
राजा
सुक्ष॒त्रो
अ॑जनिष्ट
वे॒धाः
।
Halfverse: c
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।।
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॑स्य
तस्य
व॒यम्
सुम॒तौ
य॒ज्ञिय॑स्य
तस्य
व॒यं
सु॑म॒तौ
य॒ज्ञिय॑स्य
Halfverse: d
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।।
अपि
भ॒द्रे
सौ॑मन॒से
स्या॑म
।।
अपि
भ॒द्रे
सौ॑मन॒से
सि॑याम
।।
Verse: 5
Halfverse: a
म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।
म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो
म॒हान्
आदि॒त्यः
नम॑सा
उप॒सद्यः
म॒हाँ
आ॑दि॒त्यो
नम॑सोप॒सद्यो
Halfverse: b
यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।
या॑त॒यज्ज॑नः
गृण॒ते
सु॒शेवः
।
या॑त॒यज्ज॑नो
गृण॒ते
सु॒शेवः
।
Halfverse: c
तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ।।
तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म्
तस्मै
ए॒तत्
पन्य॑तमाय
जुष्ट॑म्
तस्मा
ए॒तत्
पन्य॑तमाय
जुष्ट॑म्
Halfverse: d
अ॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ।।
अ॒ग्नौ
मि॒त्राय
ह॒विः
आ
जु॑होत
।।
अ॒ग्नौ
मि॒त्राय
ह॒विर्
आ
जु॑होत
।।
Verse: 6
Halfverse: a
मि॒त्रस्य॑ चर्षणी॒धृतो ऽवो॑ दे॒वस्य॑ सान॒सि ।
मि॒त्रस्य॑ चर्षणी॒धृतो
मि॒त्रस्य
चर्षणी॒धृतः
मि॒त्रस्य
चर्षणी॒धृतो
Halfverse: b
ऽवो दे॒वस्य॑ सान॒सि ।
अवः
दे॒वस्य
सान॒सि
।
अवो
दे॒वस्य
सान॒सि
।
Halfverse: c
द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ।।
द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ।।
द्यु॒म्नम्
चि॒त्रश्र॑वस्तमम्
।।
द्यु॒म्नं
चि॒त्रश्र॑वस्तमम्
।।
Verse: 7
Halfverse: a
अ॒भि यो म॑हि॒ना दिव॑म्मि॒त्रो ब॒भूव॑ स॒प्रथाः॑ ।
अ॒भि यो म॑हि॒ना दिव॑म्
अ॒भि
यः
म॑हि॒ना
दिव॑म्
अ॒भि
यो
म॑हि॒ना
दिव॑म्
Halfverse: b
मि॒त्रो ब॒भूव॑ स॒प्रथाः॑ ।
मि॒त्रः
ब॒भूव
स॒प्रथाः
।
मि॒त्रो
ब॒भूव
स॒प्रथाः
।
Halfverse: c
अ॒भि श्रवो॑भिः पृथि॒वीम् ।।
अ॒भि श्रवो॑भिः पृथि॒वीम् ।।
अ॒भि
श्रवो॑भिः
पृथि॒वीम्
।।
अ॒भि
श्रवो॑भिः
पृथि॒वीम्
।।
Verse: 8
Halfverse: a
मि॒त्राय॒ पञ्च॑ येमिरे॒ जना॑ अ॒भिष्टि॑शवसे ।
मि॒त्राय॒ पञ्च॑ येमिरे
मि॒त्राय
पञ्च
येमिरे
मि॒त्राय
पञ्च
येमिरे
Halfverse: b
जना॑ अ॒भिष्टि॑शवसे ।
जनाः
अ॒भिष्टि॑शवसे
।
जना
अ॒भिष्टि॑शवसे
।
Halfverse: c
स दे॒वान्विश्वा॑न्बिभर्ति ।।
स दे॒वान्विश्वा॑न्बिभर्ति ।।
स
दे॒वान्
विश्वा॑न्
बिभर्ति
।।
स
दे॒वान्
विश्वा॑न्
बिभर्ति
।।
Verse: 9
Halfverse: a
मि॒त्रो दे॒वेष्वा॒युषु॒ जना॑य वृ॒क्तब॑र्हिषे ।
मि॒त्रो दे॒वेष्वा॒युषु
मि॒त्रः
दे॒वेषु
आ॒युषु
मि॒त्रो
दे॒वेषु
आ॒युषु
Halfverse: b
जना॑य वृ॒क्तब॑र्हिषे ।
जना॑य
वृ॒क्तब॑र्हिषे
।
जना॑य
वृ॒क्तब॑र्हिषे
।
Halfverse: c
इष॑ इ॒ष्टव्र॑ता अकः ।।
इष॑ इ॒ष्टव्र॑ता अकः ।।
इषः
इ॒ष्टव्र॑ताः
अकर्
।।
इष
इ॒ष्टव्र॑ता
अकः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.