TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 294
Hymn: 60_(294)
Verse: 1
Halfverse: a
इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा ।
इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर
इ॒हेह
वः
मन॑सा
ब॒न्धुता
नरः
इ॒हेह
वो
मन॑सा
ब॒न्धुता
नर
Halfverse: b
उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा ।
उ॒शिजः
जग्मुः
अ॒भि
तानि
वेद॑सा
।
उ॒शिजो
जग्मुर्
अ॒भि
तानि
वेद॑सा
।
Halfverse: c
याभि॑र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध॑न्वना य॒ज्ञिय॑म्भा॒गमा॑न॒श ।।
याभि॑र्मा॒याभिः॒ प्रति॑जूतिवर्पसः
याभिः
मा॒याभिः
प्रति॑जूतिवर्पसः
याभि॑र्
मा॒याभिः
प्रति॑जूतिवर्पसः
Halfverse: d
सौध॑न्वना य॒ज्ञिय॑म्भा॒गमा॑न॒श ।।
सौध॑न्वनाः
य॒ज्ञिय॑म्
भा॒गम्
आन॒श
।।
सौध॑न्वना
य॒ज्ञिय॑म्
भा॒गम्
आन॒श
।।
Verse: 2
Halfverse: a
याभिः॒ शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः ।
याभिः॒ शची॑भिश्चम॒साँ अपिं॑शत
याभिः
शची॑भिः
चम॒सान्
अपिं॑शत
याभिः
शची॑भिश्
चम॒साँ
अपिं॑शत
Halfverse: b
यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः ।
यया
धि॒या
गाम्
अरि॑णीत
चर्म॑णः
।
यया
धि॒या
गाम्
अरि॑णीत
चर्म॑णः
।
Halfverse: c
येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा॑नश ।।
येन॒ हरी॒ मन॑सा नि॒रत॑क्षत
येन
हरी
मन॑सा
नि॒रत॑क्षत
येन
हरी
मन॑सा
नि॒रत॑क्षत
Halfverse: d
तेन॑ देव॒त्वमृ॑भवः॒ समा॑नश ।।
तेन
देव॒त्वम्
ऋभवः
सम्
आनश
।।
तेन
देव॒त्वम्
ऋभवः
सम्
आनश
।।
Verse: 3
Halfverse: a
इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे ।
इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा॑नशुर्
इन्द्र॑स्य
स॒ख्यम्
ऋ॒भवः
सम्
आनशुः
इन्द्र॑स्य
स॒ख्यम्
ऋ॒भवः
सम्
आनशुर्
Halfverse: b
मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे ।
मनोः
नपा॑तः
अ॒पसः
दधन्विरे
।
मनो॑र्
नपा॑तो
अ॒पसो
दधन्विरे
।
Halfverse: c
सौ॑धन्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृतः॑ सुकृ॒त्यया॑ ।।
सौ॑धन्व॒नासो॑ अमृत॒त्वमेरि॑रे
सौधन्व॒नासः
अमृत॒त्वम्
आ
ई॑रिरे
सौधन्व॒नासो
अमृत॒त्वम्
एरि॑रे
Halfverse: d
वि॒ष्ट्वी शमी॑भिः सु॒कृतः॑ सुकृ॒त्यया॑ ।।
वि॒ष्ट्वी
शमी॑भिः
सु॒कृतः
सुकृ॒त्यया
।।
वि॒ष्ट्वी
शमी॑भिः
सु॒कृतः
सुकृ॒त्यया
।।
Verse: 4
Halfverse: a
इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नाम्भवथा स॒ह श्रि॒या ।
इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ
इन्द्रे॑ण
याथ
स॒रथ॑म्
सु॒ते
सचा
इन्द्रे॑ण
याथ
स॒रथं
सु॒ते
सचाँ
Halfverse: b
अथो॒ वशा॑नाम्भवथा स॒ह श्रि॒या ।
अथ
उ
वशा॑नाम्
भवथ+
स॒ह
श्रि॒या
।
अथो
वशा॑नाम्
भवथा
स॒ह
श्रि॒या
।
Halfverse: c
न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध॑न्वना ऋभवो वी॒र्या॑णि च ।।
न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः
न
वः
प्रति॒मै
सु॑कृ॒तानि
वाघतः
न
वः
प्रति॒मै
सु॑कृ॒तानि
वाघतः
Halfverse: d
सौध॑न्वना ऋभवो वी॒र्या॑णि च ।।
सौध॑न्वनाः
ऋभवः
वी॒र्या॑णि
च
।।
सौध॑न्वना
ऋभवो
वी॒रिया॑णि
च
।।
Verse: 5
Halfverse: a
इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः ।
इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं
इन्द्र
ऋ॒भुभिः
वाज॑वद्भिः
समु॑क्षितम्
इन्द्र
र्भुभि॑र्
वाज॑वद्भिः
समु॑क्षितं
Halfverse: b
सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः ।
सु॒तम्
सोम॑म्
आ
वृ॑षस्व+
गभ॑स्त्योः
।
सु॒तं
सोम॑म्
आ
वृ॑षस्वा
गभ॑स्तियोः
।
Halfverse: c
धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ।।
धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे
धि॒या
इ॑षि॒तः
म॑घवन्
दा॒शुषः
गृ॒हे
धि॒येषि॒तो
म॑घवन्
दा॒शुषो
गृ॒हे
Halfverse: d
सौ॑धन्व॒नेभिः॑ स॒ह म॑त्स्वा ।।
सौ॑धन्व॒नेभिः
स॒ह
म॑त्स्व+
नृभिः
।।
सौ॑धन्व॒नेभिः
स॒ह
म॑त्सुवा
नृभिः
।।
Verse: 6
Halfverse: a
इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ ऽस्मिन्सव॑ने॒ शच्या॑ पुरुष्टुत ।
इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो
इन्द्र
ऋभु॒मान्
वाज॑वान्
मत्स्व
इ॒ह
नः
इन्द्र
र्भु॒मान्
वाज॑वान्
मत्सुवे॒ह
नो
Halfverse: b
ऽस्मिन्सव॑ने॒ शच्या॑ पुरुष्टुत ।
अ॒स्मिन्
सव॑ने
शच्या
पुरुष्टुत
।
अ॒स्मिन्
सव॑ने
शचि॑या
पुरुष्टुत
।
Halfverse: c
इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वाना॒म्मनु॑षश्च॒ धर्म॑भिः ।।
इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे
इ॒मानि
तुभ्य॑म्
स्वस॑राणि
येमिरे
इ॒मानि
तुभ्यं
स्वस॑राणि
येमिरे
Halfverse: d
व्र॒ता दे॒वाना॒म्मनु॑षश्च॒ धर्म॑भिः ।।
व्र॒ता
दे॒वाना॑म्
मनु॑षः
च
धर्म॑भिः
।।
व्र॒ता
दे॒वाना॑म्
मनु॑षश्
च
धर्म॑भिः
।।
Verse: 7
Halfverse: a
इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् ।
इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह
इन्द्र
ऋ॒भुभिः
वा॒जिभिः
वा॒जय॑न्
इ॒ह
इन्द्र
र्भुभि॑र्
वा॒जिभि॑र्
वा॒जय॑न्न्
इ॒ह
Halfverse: b
स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् ।
स्तोम॑म्
जरि॒तुः
उप
याहि
य॒ज्ञिय॑म्
।
स्तोमं
जरि॒तुर्
उप
याहि
य॒ज्ञिय॑म्
।
Halfverse: c
श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ।।
श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे
श॒तम्
केते॑भिः
इषि॒रेभिः
आ॒यवे
श॒तं
केते॑भिर्
इषि॒रेभि॑र्
आ॒यवे
Halfverse: d
स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ।।
स॒हस्र॑णीथः
अध्व॒रस्य
होम॑नि
।।
स॒हस्र॑णीथो
अध्व॒रस्य
होम॑नि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.