TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 296
Hymn: 62_(296)
Verse: 1
Halfverse: a
इ॒मा उ॑ वाम्भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् ।
इ॒मा उ॑ वाम्भृ॒मयो॒ मन्य॑माना
इ॒माः
उ
वाम्
भृ॒मयः
मन्य॑मानाः
इ॒मा
उ
वाम्
भृ॒मयो
मन्य॑माना
Halfverse: b
यु॒वाव॑ते॒ न तुज्या॑ अभूवन् ।
यु॒वाव॑ते
न
तुज्याः
अभूवन्
।
यु॒वाव॑ते
न
तुजि॑या
अभूवन्
।
Halfverse: c
क्व॒ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिन॒म्भर॑थः॒ सखि॑भ्यः ।।
क्व॒ त्यदि॑न्द्रावरुणा॒ यशो॑ वां
क्व
त्यत्
इन्द्रावरुणा
यशः
वाम्
कुव
त्यद्
इन्द्रावरुणा
यशो
वां
Halfverse: d
येन॑ स्मा॒ सिन॒म्भर॑थः॒ सखि॑भ्यः ।।
येन
स्म+
सिन॑म्
भर॑थः
सखि॑भ्यः
।।
येन
स्मा
सिन॑म्
भर॑थः
सखि॑भ्यः
।।
Verse: 2
Halfverse: a
अ॒यमु॑ वाम्पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति ।
अ॒यमु॑ वाम्पुरु॒तमो॑ रयी॒यञ्
अ॒यम्
उ
वाम्
पुरु॒तमः
रयी॒यन्
अ॒यम्
उ
वाम्
पुरु॒तमो
रयी॒यञ्
Halfverse: b
छश्वत्त॒ममव॑से जोहवीति ।
श॑श्वत्त॒मम्
अव॑से
जोहवीति
।
छ॑श्वत्त॒मम्
अव॑से
जोहवीति
।
Halfverse: c
स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हव॑म्मे ।।
स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्
स॒जोषौ
इन्द्रावरुणा
म॒रुद्भिः
स॒जोषा॑व्
इन्द्रावरुणा
म॒रुद्भि॑र्
Halfverse: d
दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हव॑म्मे ।।
दि॒वा
पृ॑थि॒व्या
शृ॑णुतम्
हव॑म्
मे
।।
दि॒वा
पृ॑थि॒व्या
शृ॑णुतं
हव॑म्
मे
।।
Verse: 3
Halfverse: a
अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः ।
अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद्
अ॒स्मे
तत्
इन्द्रावरुणा
वसु
स्यात्
अ॒स्मे
तद्
इन्द्रावरुणा
वसु
ष्याद्
Halfverse: b
अ॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः ।
अ॒स्मे
र॒यिः
म॑रुतः
सर्व॑वीरः
।
अ॒स्मे
र॒यिर्
मरुतः
सर्व॑वीरः
।
Halfverse: c
अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ।।
अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व्
अ॒स्मान्
वरू॑त्रीः
शर॒णैः
अ॑वन्तु
अ॒स्मान्
वरू॑त्रीः
शर॒णैर्
अवन्तु
Halfverse: d
अ॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ।।
अ॒स्मान्
होत्रा
भार॑ती
दक्षि॑णाभिः
।।
अ॒स्मान्
होत्रा
भार॑ती
दक्षि॑णाभिः
।।
Verse: 4
Halfverse: a
बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य ।
बृह॑स्पते जु॒षस्व॑ नो
बृह॑स्पते
जु॒षस्व
नः
बृह॑स्पते
जु॒षस्व
नो
Halfverse: b
ह॒व्यानि॑ विश्वदेव्य ।
ह॒व्यानि
विश्वदेव्य
।
ह॒व्यानि
विश्वदेविय
।
Halfverse: c
रास्व॒ रत्ना॑नि दा॒शुषे॑ ।।
रास्व॒ रत्ना॑नि दा॒शुषे॑ ।।
रास्व
रत्ना॑नि
दा॒शुषे
।।
रास्व
रत्ना॑नि
दा॒शुषे
।।
Verse: 5
Halfverse: a
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत ।
शुचि॑म॒र्कैर्बृह॒स्पति॑म्
शुचि॑म्
अ॒र्कैः
बृह॒स्पति॑म्
शुचि॑म्
अ॒र्कैर्
बृह॒स्पति॑म्
Halfverse: b
अध्व॒रेषु॑ नमस्यत ।
अ॑ध्व॒रेषु
नमस्यत
।
अ॑ध्व॒रेषु
नमस्यत
।
Halfverse: c
अना॒म्योज॒ आ च॑के ।।
अना॒म्योज॒ आ च॑के ।।
अना॑मि
ओजः
आ
च॑के
।।
अना॑मि
ओज
आ
च॑के
।।
Verse: 6
Halfverse: a
वृ॑ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम् ।
वृ॑ष॒भं च॑र्षणी॒नां
वृ॑ष॒भम्
चर्षणी॒नाम्
वृष॒भं
च॑र्षणी॒नाअं
Halfverse: b
वि॒श्वरू॑प॒मदा॑भ्यम् ।
वि॒श्वरू॑पम्
अदा॑भ्यम्
।
वि॒श्वरू॑पम्
अदा॑भियम्
।
Halfverse: c
बृह॒स्पतिं॒ वरे॑ण्यम् ।।
बृह॒स्पतिं॒ वरे॑ण्यम् ।।
बृह॒स्पति॑म्
वरे॑ण्यम्
।।
बृह॒स्पतिं
वरे॑णियम्
।।
Verse: 7
Halfverse: a
इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी ।
इ॒यं ते॑ पूषन्नाघृणे
इ॒यम्
ते
पूषन्
आघृणे
इ॒यं
ते
पूषन्न्
आघृणे
Halfverse: b
सुष्टु॒तिर्दे॑व॒ नव्य॑सी ।
सु॑ष्टु॒तिः
दे॑व
नव्य॑सी
।
सु॑ष्टु॒तिर्
देव
नव्य॑सी
।
Halfverse: c
अ॒स्माभि॒स्तुभ्यं॑ शस्यते ।।
अ॒स्माभि॒स्तुभ्यं॑ शस्यते ।।
अ॒स्माभिः
तुभ्य॑म्
शस्यते
।।
अ॒स्माभि॑स्
तुभ्य
%
शस्यते
।।
Verse: 8
Halfverse: a
तां जु॑षस्व॒ गिर॒म्मम॑ वाज॒यन्ती॑मवा॒ धिय॑म् ।
तां जु॑षस्व॒ गिर॒म्मम
ताम्
जुषस्व
गिर॑म्
मम
तां
जु॑षस्व
गिर॑म्
मम
Halfverse: b
वाज॒यन्ती॑मवा॒ धिय॑म् ।
वा॑ज॒यन्ती॑म्
अव+
धिय॑म्
।
वा॑ज॒यन्ती॑म्
अवा
धिय॑म्
।
Halfverse: c
व॑धू॒युरि॑व॒ योष॑णाम् ।।
व॑धू॒युरि॑व॒ योष॑णाम् ।।
व॑धू॒युः
इ॑व
योष॑णाम्
।।
व॑धू॒युर्
इव
योष॑णाम्
।।
Verse: 9
Halfverse: a
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
यो विश्वा॒भि वि॒पश्य॑ति
यः
विश्वा
अ॒भि
वि॒पश्य॑ति
यो
विश्वा॒भि
वि॒पश्य॑ति
Halfverse: b
भुव॑ना॒ सं च॒ पश्य॑ति ।
भुव॑ना
सम्
च
पश्य॑ति
।
भुव॑ना
सं
च
पश्य॑ति
।
Halfverse: c
स नः॑ पू॒षावि॒ता भु॑वत् ।।
स नः॑ पू॒षावि॒ता भु॑वत् ।।
स
नः
पू॒षा
अ॑वि॒ता
भु॑वत्
।।
स
नः
पू॒षावि॒ता
भु॑वत्
।।
Verse: 10
Halfverse: a
तत्स॑वि॒तुर्वरे॑ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि ।
तत्स॑वि॒तुर्वरे॑ण्यम्
तत्
सवि॒तुः
वरे॑ण्यम्
तत्
सवि॒तुर्
वरे॑णियम्
Halfverse: b
भर्गो॑ दे॒वस्य॑ धीमहि ।
भर्गः
दे॒वस्य
धीमहि
।
भर्गो
दे॒वस्य
धीमहि
।
Halfverse: c
धियो॒ यो नः॑ प्रचो॒दया॑त् ।।
धियो॒ यो नः॑ प्रचो॒दया॑त् ।।
धियः
यः
नः
प्रचो॒दया॑त्
।।
धियो
यो
नः
प्रचो॒दया॑त्
।।
Verse: 11
Halfverse: a
दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्तः॒ पुरं॑ध्या ।
दे॒वस्य॑ सवि॒तुर्व॒यं
दे॒वस्य
सवि॒तुः
व॒यम्
दे॒वस्य
सवि॒तुर्
व॒यं
Halfverse: b
वा॑ज॒यन्तः॒ पुरं॑ध्या ।
वा॑ज॒यन्तः
पुरं॑ध्या
।
वा॑ज॒यन्तः
पुरं॑धिया
।
Halfverse: c
भग॑स्य रा॒तिमी॑महे ।।
भग॑स्य रा॒तिमी॑महे ।।
भग॑स्य
रा॒तिम्
ईमहे
।।
भग॑स्य
रा॒तिम्
ईमहे
।।
Verse: 12
Halfverse: a
दे॒वं नरः॑ सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ ।
दे॒वं नरः॑ सवि॒तारं
दे॒वम्
नरः
सवि॒तार॑म्
दे॒वं
नरः
सवि॒तारं
Halfverse: b
विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ ।
विप्राः
य॒ज्ञैः
सु॑वृ॒क्तिभिः
।
विप्रा
य॒ज्ञैः
सु॑वृ॒क्तिभिः
।
Halfverse: c
न॑म॒स्यन्ति॑ धि॒येषि॒ताः ।।
न॑म॒स्यन्ति॑ धि॒येषि॒ताः ।।
न॑म॒स्यन्ति
धि॒या
इ॑षि॒ताः
।।
न॑म॒स्यन्ति
धि॒येषि॒ताः
।।
Verse: 13
Halfverse: a
सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् ।
सोमो॑ जिगाति गातु॒विद्
सोमः
जिगाति
गातु॒वित्
सोमो
जिगाति
गातु॒विद्
Halfverse: b
दे॒वाना॑मेति निष्कृ॒तम् ।
दे॒वाना॑म्
एति
निष्कृ॒तम्
।
दे॒वाना॑म्
एति
निष्कृ॒तम्
।
Halfverse: c
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ।।
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ।।
ऋ॒तस्य
योनि॑म्
आ॒सद॑म्
।।
ऋ॒तस्य
योनि॑म्
आ॒सद॑म्
।।
Verse: 14
Halfverse: a
सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ ।
सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे
सोमः
अ॒स्मभ्य॑म्
द्वि॒पदे
सोमो
अ॒स्मभ्यं
द्वि॒पदे
Halfverse: b
चतु॑ष्पदे च प॒शवे॑ ।
चतु॑ष्पदे
च
प॒शवे
।
चतु॑ष्पदे
च
प॒शवे
।
Halfverse: c
अ॑नमी॒वा इष॑स्करत् ।।
अ॑नमी॒वा इष॑स्करत् ।।
अ॑नमी॒वाः
इषः
करत्
।।
अ॑नमी॒वा
इष॑स्
करत्
।।
Verse: 15
Halfverse: a
अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑तीः॒ सह॑मानः ।
अ॒स्माक॒मायु॑र्व॒र्धय॑न्न्
अ॒स्माक॑म्
आयुः
व॒र्धय॑न्
अ॒स्माक॑म्
आयु
%
व॒र्धय॑न्न्
Halfverse: b
अ॒भिमा॑तीः॒ सह॑मानः ।
अ॒भिमा॑तीः
सह॑मानः
।
अ॒भिमा॑तीः
सह॑मानः
।
Halfverse: c
सोमः॑ स॒धस्थ॒मास॑दत् ।।
सोमः॑ स॒धस्थ॒मास॑दत् ।।
सोमः
स॒धस्थ॑म्
आ
अ॑सदत्
।।
सोमः
स॒धस्थ॑म्
आस॑दत्
।।
Verse: 16
Halfverse: a
आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् ।
आ नो॑ मित्रावरुणा
आ
नः
मित्रावरुणा
आ
नो
मित्रावरुणा
Halfverse: b
घृ॒तैर्गव्यू॑तिमुक्षतम् ।
घृ॒तैः
गव्यू॑तिम्
उक्षतम्
।
घृ॒तैर्
गव्यू॑तिम्
उक्षतम्
।
Halfverse: c
मध्वा॒ रजां॑सि सुक्रतू ।।
मध्वा॒ रजां॑सि सुक्रतू ।।
मध्वा
रजां॑सि
सुक्रतू
।।
मध्वा
रजां॑सि
सुक्रतू
।।
Verse: 17
Halfverse: a
उ॑रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः ।
उ॑रु॒शंसा॑ नमो॒वृधा
उरु॒शंसा
नमो॒वृधा
उरु॒शंसा
नमो॒वृधा
Halfverse: b
म॒ह्ना दक्ष॑स्य राजथः ।
म॒ह्ना
दक्ष॑स्य
राजथः
।
म॒ह्ना
दक्ष॑स्य
राजथः
।
Halfverse: c
द्राघि॑ष्ठाभिः शुचिव्रता ।।
द्राघि॑ष्ठाभिः शुचिव्रता ।।
द्राघि॑ष्ठाभिः
शुचिव्रता
।।
द्राघि॑ष्ठाभिः
शुचिव्रता
।।
Verse: 18
Halfverse: a
गृ॑णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम् ।
गृ॑णा॒ना ज॒मद॑ग्निना
गृणा॒ना
ज॒मद॑ग्निना
गृणा॒ना
ज॒मद॑ग्निना
Halfverse: b
योना॑वृ॒तस्य॑ सीदतम् ।
योनौ
ऋ॒तस्य
सीदतम्
।
योना॑व्
ऋ॒तस्य
सीदतम्
।
Halfverse: c
पा॒तं सोम॑मृतावृधा ।।
पा॒तं सोम॑मृतावृधा ।।
पा॒तम्
सोम॑म्
ऋतावृधा
।।
पा॒तं
सोम॑म्
ऋतावृधा
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.