TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 309
Hymn: 13_(309)
Verse: 1
Halfverse: a
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेय॑म् ।
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्
प्रति
अ॒ग्निः
उ॒षसा॑म्
अग्र॑म्
अख्यत्
प्रति
अ॒ग्निर्
उ॒षसा॑म्
अग्र॑म्
अख्यद्
Halfverse: b
विभाती॒नां सु॒मना॑ रत्न॒धेय॑म् ।
वि॑भाती॒नाम्
सु॒मनाः
रत्न॒धेय॑म्
।
वि॑भाती॒नां
सु॒मना
रत्न॒धेय॑म्
।
Halfverse: c
या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ।।
या॒तम॑श्विना सु॒कृतो॑ दुरो॒णम्
या॒तम्
अश्विना
सु॒कृतः
दुरो॒णम्
या॒तम्
अश्विना
सु॒कृतो
दुरो॒णम्
Halfverse: d
उत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ।।
उत्
सूर्यः
ज्योति॑षा
दे॒वः
ए॑ति
।।
उत्
सूरि॑यो
ज्योति॑षा
दे॒व
ए॑ति
।।
Verse: 2
Halfverse: a
ऊ॒र्ध्वम्भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ ।
ऊ॒र्ध्वम्भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्
ऊ॒र्ध्वम्
भा॒नुम्
सवि॒ता
दे॒वः
अ॑श्रेत्
ऊ॒र्ध्वम्
भा॒नुं
स॑वि॒ता
दे॒वो
अ॑श्रेद्
Halfverse: b
द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ ।
द्र॒प्सम्
दवि॑ध्वत्
गवि॒षः
न
सत्वा
।
द्र॒प्सं
दवि॑ध्वद्
गवि॒षो
न
सत्वा
।
Halfverse: c
अनु॑ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हय॑न्ति ।।
अनु॑ व्र॒तं वरु॑णो यन्ति मि॒त्रो
अनु
व्र॒तम्
वरु॑णः
यन्ति
मि॒त्रः
अनु
व्र॒तं
वरु॑णो
यन्ति
मि॒त्रो
Halfverse: d
यत्सूर्यं॑ दि॒व्या॑रो॒हय॑न्ति ।।
यत्
सूर्य॑म्
दि॒वि
आ॑रो॒हय॑न्ति
।।
यत्
सूरि॑यं
दि॒वि
आ॑रो॒हय॑न्ति
।।
Verse: 3
Halfverse: a
यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म्।
यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे
यम्
सीम्
अकृ॑ण्वन्
तम॑से
वि॒पृचे
यं
सी॑म्
अकृ॑ण्वन्
तम॑से
वि॒पृचे
Halfverse: b
ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म् ।
ध्रु॒वक्षे॑माः
अन॑वस्यन्तः
अर्थ॑म्
।
ध्रु॒वक्षे॑मा
अन॑वस्यन्तो
अर्थ॑म्
।
Halfverse: c
तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वी स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ।।
तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वी
तम्
सूर्य॑म्
ह॒रितः
स॒प्त
य॒ह्वीः
तं
सूरि॑यं
ह॒रितः
स॒प्त
य॒ह्वी
Halfverse: d
स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ।।
स्पश॑म्
विश्व॑स्य
जग॑तः
वहन्ति
।।
स्पशं
विश्व॑स्य
जग॑तो
वहन्ति
।।
Verse: 4
Halfverse: a
वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ ।
वहि॑ष्ठेभिर्वि॒हर॑न्यासि॒ तन्तु॑म्
वहि॑ष्ठेभिः
वि॒हर॑न्
यासि
तन्तु॑म्
वहि॑ष्ठेभिर्
वि॒हर॑न्
यासि
तन्तु॑म्
Halfverse: b
अव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ ।
अ॑व॒व्यय॑न्
असि॑तम्
देव
वस्म
।
अ॑व॒व्यय॑न्न्
असि॑तं
देव
वस्म
।
Halfverse: c
दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व॒न्तः ।।
दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य
दवि॑ध्वतः
र॒श्मयः
सूर्य॑स्य
दवि॑ध्वतो
र॒श्मयः
सूरि॑यस्य
Halfverse: d
चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व॒न्तः ।।
चर्म
इव
अव
अधुः
तमः
अ॒प्सु
अ॒न्तर्
।।
चर्मे॒वावा॑धुस्
तमो
अ॒प्सु
अ॒न्तः
।।
Verse: 5
Halfverse: a
अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नो ऽव॑ पद्यते॒ न ।
अना॑यतो॒ अनि॑बद्धः क॒थायं
अना॑यतः
अनि॑बद्धः
क॒था
अ॒यम्
अना॑यतो
अनि॑बद्धः
क॒थायं
Halfverse: b
न्य॑ङ्ङुत्ता॒नो ऽव॑ पद्यते॒ न ।
न्य॑ङ्
उत्ता॒नः
अव
पद्यते
न
।
निअ॑ङ्ङ्
उत्ता॒नो
अव
पद्यते
न
।
Halfverse: c
कया॑ याति स्व॒धया॒ को द॑दर्श दि॒व स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ।।
कया॑ याति स्व॒धया॒ को द॑दर्श
कया
याति
स्व॒धया
कः
द॑दर्श
कया
याति
स्व॒धया
को
द॑दर्श
Halfverse: d
दि॒व स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ।।
दि॒वः
स्क॒म्भः
समृ॑तः
पाति
नाक॑म्
।।
दि॒व
स्क॒म्भः
समृ॑तः
पाति
नाक॑म्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.