TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 314
Hymn: 18_(314)
Verse: 1
Halfverse: a
अ॒यम्पन्था॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यन्त॒ विश्वे॑ ।
अ॒यम्पन्था॒ अनु॑वित्तः पुरा॒णो
अ॒यम्
पन्थाः
अनु॑वित्तः
पुरा॒णः
अ॒यम्
पन्था
अनु॑वित्तः
पुरा॒णो
Halfverse: b
यतो॑ दे॒वा उ॒दजा॑यन्त॒ विश्वे॑ ।
यतः
दे॒वाः
उ॒दजा॑यन्त
विश्वे
।
यतो
दे॒वा
उ॒दजा॑यन्त
विश्वे
।
Halfverse: c
अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ।।
अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो
अतः
चित्
आ
ज॑निषीष्ट
प्रवृ॑द्धः
अत॑श्
चिद्
आ
ज॑निषीष्ट
प्रवृ॑द्धो
Halfverse: d
मा मा॒तर॑ममु॒या पत्त॑वे कः ।।
मा
मा॒तर॑म्
अमु॒या
पत्त॑वे
कर्
।।
मा
मा॒तर॑म्
अमु॒या
पत्त॑वे
कः
।।
Verse: 2
Halfverse: a
नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि ।
नाहमतो॒ निर॑या दु॒र्गहै॒तत्
न
अ॒हम्
अतः
निः
अ॑या
!
दु॒र्गहा
ए॒तत्
नाहम्
अतो
निर्
अया
दु॒र्गहै॒तत्
Halfverse: b
तिर॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि ।
ति॑र॒श्चता
पा॒र्श्वात्
निः
ग॑मानि
।
ति॑र॒श्चता
पार्शु॒वान्
निर्
गमाणि
।
Halfverse: c
ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृछै ।।
ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि
ब॒हूनि
मे
अकृ॑ता
कर्त्वा॑नि
ब॒हूनि
मे
अकृ॑ता
कर्तु॑वानि
Halfverse: d
युध्यै॑ त्वेन॒ सं त्वे॑न पृछै ।।
युध्यै
त्वेन
सम्
त्वेन
पृछै
।।
युध्यै
तुवेन
सं
तु॑वेन
पृछै
।।
Verse: 3
Halfverse: a
प॑राय॒तीम्मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि ।
प॑राय॒तीम्मा॒तर॒मन्व॑चष्ट
पराय॒तीम्
मा॒तर॑म्
अनु
अचष्ट
पराय॒तीम्
मा॒तर॑म्
अन्व्
अचष्ट
Halfverse: b
न नानु॑ गा॒न्यनु॒ नू ग॑मानि ।
न
न
अनु
गानि
अनु
नु+
ग॑मानि
।
न
नानु
गानि
अनु
नू
ग॑मानि
।
Halfverse: c
त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ।।
त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्रः
त्वष्टुः
गृ॒हे
अ॑पिबत्
सोम॑म्
इन्द्रः
त्वष्टु॑र्
गृ॒हे
अ॑पिबत्
सोम॑म्
इन्द्रः
Halfverse: d
शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ।।
श॑तध॒न्य॑म्
च॒म्वोः
सु॒तस्य
।।
श॑तध॒नियं
च॒मुवोः
सु॒तस्य
।।
Verse: 4
Halfverse: a
किं स ऋध॑क्कृणव॒द्यं स॒हस्र॑म्मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः ।
किं स ऋध॑क्कृणव॒द्यं स॒हस्र॑म्
किम्
सः
।!।
ऋध॑क्
कृणवत्
यम्
स॒हस्र॑म्
किं
स
ऋध॑क्
कृणवद्
यं
स॒हस्र॑म्
Halfverse: b
मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः ।
मा॒सः
ज॒भार
श॒रदः
च
पू॒र्वीः
।
मा॒सो
ज॒भार
श॒रद॑श्
च
पू॒र्वीः
।
Halfverse: c
न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ।।
न॒ही न्व॑स्य प्रति॒मान॒मस्त्य्
न॒हि+
नु
अ॑स्य
प्रति॒मान॑म्
अस्ति
न॒ही
नु
अ॑स्य
प्रति॒मान॑म्
अस्ति
Halfverse: d
अ॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ।।
अ॒न्तर्
जा॒तेषु
उ॒त
ये
जनि॑त्वाः
।।
अ॒न्तर्
जा॒तेषु
उ॒त
ये
जनि॑त्वाः
।।
Verse: 5
Halfverse: a
अ॑व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिन्द्र॑म्मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टम् ।
अ॑व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑कर्
अव॒द्यम्
इव
मन्य॑माना
गुहा
अकर्
अव॒द्यम्
ऽव
%
मन्य॑माना
गुहा॑कर्
Halfverse: b
इन्द्र॑म्मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टम् ।
इन्द्र॑म्
मा॒ता
वी॒र्ये॑ण+
न्यृ॑ष्टम्
।
इन्द्र॑म्
मा॒ता
वी॒रिये॑णा
निऋष्टम्
।
Halfverse: c
अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।।
अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न
अथ
उत्
अस्थात्
स्व॒यम्
अत्क॑म्
वसा॑नः
अथोद्
अस्थात्
स्व॒यम्
अत्कं
वसा॑न
Halfverse: d
आ रोद॑सी अपृणा॒ज्जाय॑मानः ।।
आ
रोद॑सी
अपृणात्
जाय॑मानः
।।
आ
रोद॑सी
अपृणाज्
जाय॑मानः
।।
Verse: 6
Halfverse: a
ए॒ता अ॑र्षन्त्यलला॒भव॑न्तीरृ॒ताव॑रीरिव सं॒क्रोश॑मानाः ।
ए॒ता अ॑र्षन्त्यलला॒भव॑न्तीर्
ए॒ताः
अ॑र्षन्ति
अलला॒भव॑न्तीः
ए॒ता
अ॑र्षन्ति
अलला॒भव॑न्तीर्
Halfverse: b
ऋ॒ताव॑रीरिव सं॒क्रोश॑मानाः ।
ऋ॒ताव॑रीः
इव
सं॒क्रोश॑मानाः
।
ऋ॒ताव॑रीर्
इव
सं॒क्रोश॑मानाः
।
Halfverse: c
ए॒ता वि पृ॑छ॒ किमि॒दम्भ॑नन्ति॒ कमापो॒ अद्रि॑म्परि॒धिं रु॑जन्ति ।।
ए॒ता वि पृ॑छ॒ किमि॒दम्भ॑नन्ति
ए॒ताः
वि
पृ॑छ
किम्
इ॒दम्
भनन्ति
ए॒ता
वि
पृ॑छ
किम्
इ॒दम्
भनन्ति
Halfverse: d
कमापो॒ अद्रि॑म्परि॒धिं रु॑जन्ति ।।
कम्
आपः
अद्रि॑म्
परि॒धिम्
रुजन्ति
।।
कम्
आपो
अद्रि॑म्
परि॒धिं
रु॑जन्ति
।।
Verse: 7
Halfverse: a
किमु॑ ष्विदस्मै नि॒विदो॑ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ ।
किमु॑ ष्विदस्मै नि॒विदो॑ भनन्त
किम्
उ
स्वित्
अस्मै
नि॒विदः
भनन्त
किम्
उ
ष्विद्
अस्मै
नि॒विदो
भनन्त
Halfverse: b
इन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ ।
इन्द्र॑स्य
अव॒द्यम्
दिधिषन्ते
आपः
।
इन्द्र॑स्याव॒द्यं
दि॑धिषन्त
आपः
।
Halfverse: c
ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ।।
ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन
मम
ए॒तान्
पु॒त्रः
म॑ह॒ता
व॒धेन
ममै॒तान्
पु॒त्रो
म॑ह॒ता
व॒धेन
Halfverse: d
वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ।।
वृ॒त्रम्
जघ॒न्वान्
असृजत्
वि
सिन्धू॑न्
।।
वृ॒त्रं
ज॑घ॒न्वाँ
अ॑सृजद्
वि
सिन्धू॑न्
।।
Verse: 8
Halfverse: a
मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ ।
मम॑च्च॒न त्वा॑ युव॒तिः प॒रास
मम॑त्
च॒न
त्वा
युव॒तिः
प॒रास
मम॑च्
च॒न
त्वा
युव॒तिः
प॒रास
Halfverse: b
मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ ।
मम॑त्
च॒न
त्वा
कु॒षवा
ज॒गार
।
मम॑च्
च॒न
त्वा
कु॒षवा
ज॒गार
।
Halfverse: c
मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ।।
मम॑च्चि॒दापः॒ शिश॑वे ममृड्युर्
मम॑त्
चित्
आपः
शिश॑वे
ममृड्युः
मम॑च्
चिद्
आपः
शिश॑वे
ममृड्युर्
Halfverse: d
मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ।।
मम॑त्
चित्
इन्द्रः
सह॑सा
उत्
अतिष्ठत्
।।
मम॑च्
चिद्
इन्द्रः
सह॒सोद्
अतिष्ठत्
।।
Verse: 9
Halfverse: a
मम॑च्च॒न ते॑ मघव॒न्व्यँ॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ ।
मम॑च्च॒न ते॑ मघव॒न्व्यँ॑सो
मम॑त्
च॒न
ते
मघवन्
व्यं॑सः
मम॑च्
च॒न
ते
मघवन्
विअंसो
Halfverse: b
निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ ।
नि॑विवि॒ध्वान्
अप
हनू
ज॒घान
।
नि॑विवि॒ध्वाँ
अप
हनू
ज॒घान
।
Halfverse: c
अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सम्पि॑णग्व॒धेन॑ ।।
अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्
अध+
निवि॑द्धः
उत्त॑रः
बभू॒वान्
अधा
निवि॑द्ध
उत्त॑रो
बभू॒वाञ्
Halfverse: d
छिरो॑ दा॒सस्य॒ सम्पि॑णग् ।!। व॒धेन॑ ।।
शिरः
दा॒सस्य
सम्
पिणक्
व॒धेन
।।
छिरो
दा॒सस्य
सम्
पिणग्
व॒धेन
।।
Verse: 10
Halfverse: a
गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र॑म् ।
गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम्
गृ॒ष्टिः
स॑सूव
स्थवि॑रम्
तवा॒गाम्
गृ॒ष्टिः
स॑सूव
स्थवि॑रं
तवा॒गाम्
Halfverse: b
अनाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र॑म् ।
अ॑नाधृ॒ष्यम्
वृष॒भम्
तुम्र॑म्
इन्द्र॑म्
।
अ॑नाधृ॒ष्यं
वृ॑ष॒भं
तुम्र॑म्
इन्द्र॑म्
।
Halfverse: c
अरी॑ऴं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒छमा॑नम् ।।
अरी॑ऴं व॒त्सं च॒रथा॑य मा॒ता
अरी॑ऴम्
व॒त्सम्
च॒रथा॑य
मा॒ता
अरी॑ऴं
व॒त्सं
च॒रथा॑य
मा॒ता
Halfverse: d
स्व॒यं गा॒तुं त॒न्व॑ इ॒छमा॑नम् ।।
स्व॒यम्
गा॒तुम्
त॒न्वे
इ॒छमा॑नम्
।।
स्व॒यं
गा॒तुं
त॒नुव
इ॒छमा॑नम्
।।
Verse: 11
Halfverse: a
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः ।
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद्
उ॒त
मा॒ता
म॑हि॒षम्
अनु
अवेनत्
उ॒त
मा॒ता
म॑हि॒षम्
अन्व्
अवेनद्
Halfverse: b
अ॒मी त्वा॑ जहति पुत्र दे॒वाः ।
अ॒मी
त्वा
जहति
पुत्र
दे॒वाः
।
अ॒मी
तु॑वा
जहति
पुत्र
दे॒वाः
।
Halfverse: c
अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ।।
अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्
अथ
अब्रवीत्
वृ॒त्रम्
इन्द्रः
हनि॒ष्यन्
अथा॑ब्रवीद्
वृ॒त्रम्
इन्द्रो
हनि॒ष्यन्
Halfverse: d
सखे॑ विष्णो वित॒रं वि क्र॑मस्व ।।
सखे
विष्णो
वित॒रम्
वि
क्र॑मस्व
।।
सखे
विष्णो
वित॒रं
वि
क्र॑मस्व
।।
Verse: 12
Halfverse: a
कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघाँस॒च्चर॑न्तम् ।
कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्
कः
ते
मा॒तर॑म्
वि॒धवा॑म्
अचक्रत्
कस्
ते
मा॒तरं
वि॒धवा॑म्
अचक्रच्
Halfverse: b
छ॒युं कस्त्वाम॑जिघाँस॒च्चर॑न्तम् ।
श॒युम्
कः
त्वाम्
अजिघांसत्
चर॑न्तम्
।
छ॒युं
कस्
त्वाम्
अजिघांसच्
चर॑न्तम्
।
Halfverse: c
कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तर॑म्पाद॒गृह्य॑ ।।
कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सीद्
कः
ते
दे॒वः
अधि
मार्डी॒के
आ॑सीत्
कस्
ते
दे॒वो
अधि
मार्डी॒क
आ॑सीद्
Halfverse: d
यत्प्राक्षि॑णाः पि॒तर॑म्पाद॒गृह्य॑ ।।
यत्
प्र
अक्षि॑णाः
पि॒तर॑म्
पाद॒गृह्य
।।
यत्
प्राक्षि॑णाः
पि॒तर॑म्
पाद॒गृह्य
।।
Verse: 13
Halfverse: a
अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार॑म् ।
अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे
अव॑र्त्या
शुनः
आ॒न्त्राणि
पेचे
अव॑र्तिया
शुन
आ॒न्त्राणि
पेचे
Halfverse: b
न दे॒वेषु॑ विविदे मर्डि॒तार॑म् ।
न
दे॒वेषु
विविदे
मर्डि॒तार॑म्
।
न
दे॒वेषु
विविदे
मर्डि॒तार॑म्
।
Halfverse: c
अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ।।
अप॑श्यं जा॒यामम॑हीयमानाम्
अप॑श्यम्
जा॒याम्
अम॑हीयमानाम्
अप॑श्यं
जा॒याम्
अम॑हीयमानाम्
Halfverse: d
अधा॑ मे श्ये॒नो मध्वा ज॑भार ।।
अध+
मे
श्ये॒नः
मधु
आ
ज॑भार
।।
अधा
मे
श्ये॒नो
मधु
आ
ज॑भार
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.