TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 401
Hymn: 47_(401)
Verse: 1
Halfverse: a
प्र॑युञ्ज॒ती दि॒व ए॑ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय॑न्ती ।
प्र॑युञ्ज॒ती दि॒व ए॑ति ब्रुवा॒णा
प्र॑युञ्ज॒ती
दि॒वः
ए॑ति
ब्रुवा॒णा
प्र॑युञ्ज॒ती
दि॒व
ए॑ति
ब्रुवा॒णा
Halfverse: b
म॒ही मा॒ता दु॑हि॒तुर्बो॒धय॑न्ती ।
म॒ही
मा॒ता
दु॑हि॒तुः
बो॒धय॑न्ती
।
म॒ही
मा॒ता
दु॑हि॒तुर्
बो॒धय॑न्ती
।
Halfverse: c
आ॒विवा॑सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ।।
आ॒विवा॑सन्ती युव॒तिर्म॑नी॒षा
आ॒विवा॑सन्ती
युव॒तिः
म॑नी॒षा
आ॒विवा॑सन्ती
युव॒तिर्
मनी॒षा
Halfverse: d
पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ।।
पि॒तृभ्यः
आ
सद॑ने
जोहु॑वाना
।।
पि॒तृभ्य
आ
सद॑ने
जोहु॑वाना
।।
Verse: 2
Halfverse: a
अ॑जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वाँसो॑ अ॒मृत॑स्य॒ नाभि॑म् ।
अ॑जि॒रास॒स्तद॑प॒ ईय॑माना
अजि॒रासः
तद॑पः
ईय॑मानाः
अजि॒रास॑स्
तद॑प
ईय॑माना
Halfverse: b
आतस्थि॒वाँसो॑ अ॒मृत॑स्य॒ नाभि॑म् ।
आ॑तस्थि॒वांसः
अ॒मृत॑स्य
नाभि॑म्
।
आ॑तस्थि॒वांसो
अ॒मृत॑स्य
नाभि॑म्
।
Halfverse: c
अ॑न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सी॒म्परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्थाः॑ ।।
अ॑न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सीम्
अन॒न्तासः
उ॒रवः
वि॒श्वतः
सीम्
अन॒न्तास
उ॒रवो
वि॒श्वतः
सीम्
Halfverse: d
परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्थाः॑ ।।
परि
द्यावा॑पृथि॒वी
य॑न्ति
पन्थाः
।।
परि
द्यावा॑पृथि॒वी
य॑न्ति
पन्थाः
।।
Verse: 3
Halfverse: a
उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनि॑म्पि॒तुरा वि॑वेश ।
उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः
उ॒क्षा
स॑मु॒द्रः
अ॑रु॒षः
सु॑प॒र्णः
उ॒क्षा
स॑मु॒द्रो
अ॑रु॒षः
सु॑प॒र्णः
Halfverse: b
पूर्व॑स्य॒ योनि॑म्पि॒तुरा वि॑वेश ।
पूर्व॑स्य
योनि॑म्
पि॒तुः
आ
वि॑वेश
।
पूर्व॑स्य
योनि॑म्
पि॒तुर्
आ
वि॑वेश
।
Halfverse: c
मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ।।
मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा
मध्ये
दि॒वः
निहि॑तः
पृश्निः
अश्मा
मध्ये
दि॒वो
निहि॑तः
पृश्नि॑र्
अश्मा
Halfverse: d
वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ।।
वि
च॑क्रमे
रज॑सः
पाति
अन्तौ
।।
वि
च॑क्रमे
रज॑सस्
पाति
अन्तौ
।।
Verse: 4
Halfverse: a
च॒त्वार॑ ईम्बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं॑ च॒रसे॑ धापयन्ते ।
च॒त्वार॑ ईम्बिभ्रति क्षेम॒यन्तो
च॒त्वारः
ईम्
बिभ्रति
क्षेम॒यन्तः
च॒त्वार
ईम्
बिभ्रति
क्षेम॒यन्तो
Halfverse: b
दश॒ गर्भं॑ च॒रसे॑ धापयन्ते ।
दश
गर्भ॑म्
च॒रसे
धापयन्ते
।
दश
गर्भं
च॒रसे
धापयन्ते
।
Halfverse: c
त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ।।
त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो
त्रि॒धात॑वः
पर॒माः
अ॑स्य
गावः
त्रि॒धात॑वः
पर॒मा
अ॑स्य
गावो
Halfverse: d
दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ।।
दि॒वः
च॑रन्ति
परि
स॒द्यः
अन्ता॑न्
।।
दि॒वश्
चरन्ति
परि
स॒द्यो
अन्ता॑न्
।।
Verse: 5
Halfverse: a
इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चर॑न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ ।
इ॒दं वपु॑र्नि॒वच॑नं जनासश्
इ॒दम्
वपुः
नि॒वच॑नम्
जनासः
इ॒दं
वपु॑र्
नि॒वच॑नं
जनासश्
Halfverse: b
चर॑न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ ।
चर॑न्ति
यत्
न॒द्यः
त॒स्थुः
आपः
।
चर॑न्ति
यन्
न॒दिय॑स्
त॒स्थुर्
आपः
।
Halfverse: c
द्वे यदी॑म्बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒ सब॑न्धू ।।
द्वे यदी॑म्बिभृ॒तो मा॒तुर॒न्ये
द्वे
यत्
ईम्
बिभृ॒तः
मा॒तुः
अ॒न्ये
दु॒वे
यद्
ईम्
बिभृ॒तो
मा॒तुर्
अ॒न्ये
Halfverse: d
इ॒हेह॑ जा॒ते य॒म्या॒ सब॑न्धू ।।
इ॒हेह
जा॒ते
य॒म्या
सब॑न्धू
।।
इ॒हेह
जा॒ते
य॒मिया
सब॑न्धू
।।
Verse: 6
Halfverse: a
वि त॑न्वते॒ धियो॑ अस्मा॒ अपाँ॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयन्ति ।
वि त॑न्वते॒ धियो॑ अस्मा॒ अपाँ॑सि
वि
त॑न्वते
धियः
अस्मै
अपां॑सि
वि
त॑न्वते
धियो
अस्मा
अपां॑सि
Halfverse: b
वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयन्ति ।
वस्त्रा
पु॒त्राय
मा॒तरः
वयन्ति
।
वस्त्रा
पु॒त्राय
मा॒तरो
वयन्ति
।
Halfverse: c
उ॑पप्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ य॒न्त्यछ॑ ।।
उ॑पप्र॒क्षे वृष॑णो॒ मोद॑माना
उपप्र॒क्षे
वृष॑णः
मोद॑मानाः
उपप्र॒क्षे
वृष॑णो
मोद॑माना
Halfverse: d
दि॒वस्प॒था व॒ध्वो॑ य॒न्त्यछ॑ ।।
दि॒वः
प॒था
व॒ध्वः
यन्ति
अछ
।।
दि॒वस्
प॒था
व॒धुवो
यन्ति
अछ
।।
Verse: 7
Halfverse: a
तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् ।
तद॑स्तु मित्रावरुणा॒ तद॑ग्ने
तत्
अस्तु
मित्रावरुणा
तत्
अग्ने
तद्
अस्तु
मित्रावरुणा
तद्
अग्ने
Halfverse: b
शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् ।
शम्
योः
अ॒स्मभ्य॑म्
इ॒दम्
अस्तु
श॒स्तम्
।
शं
योर्
अ॒स्मभ्य॑म्
इ॒दम्
अस्तु
श॒स्तम्
।
Halfverse: c
अ॑शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ।।
अ॑शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां
अ॑शी॒महि
गा॒धम्
उ॒त
प्र॑ति॒ष्ठाम्
अशी॒महि
गा॒धम्
उ॒त
प्र॑ति॒ष्ठां
Halfverse: d
नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ।।
नमः
दि॒वे
बृ॑ह॒ते
साद॑नाय
।।
नमो
दि॒वे
बृ॑ह॒ते
साद॑नाय
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.