TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 403
Hymn: 49_(403)
Verse: 1
Halfverse: a
दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।
दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे
दे॒वम्
वः
अ॒द्य
स॑वि॒तार॑म्
आ
ई॑षे
दे॒वं
वो
अ॒द्य
स॑वि॒तार॑म्
एषे
Halfverse: b
भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।
भग॑म्
च
रत्न॑म्
वि॒भज॑न्तम्
आ॒योः
।
भगं
च
रत्नं
वि॒भज॑न्तम्
आ॒योः
।
Halfverse: c
आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ।।
आ वां॑ नरा पुरुभुजा ववृत्यां
आ
वा॑म्
नरा
पुरुभुजा
ववृत्याम्
आ
वां
नरा
पुरुभुजा
ववृत्यां
Halfverse: d
दि॒वेदि॑वे चिदश्विना सखी॒यन् ।।
दि॒वेदि॑वे
चित्
अश्विना
सखी॒यन्
।।
दि॒वेदि॑वे
चिद्
अश्विना
सखी॒यन्
।।
Verse: 2
Halfverse: a
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्
प्रति
प्र॒याण॑म्
असु॑रस्य
वि॒द्वान्
प्रति
प्र॒याण॑म्
असु॑रस्य
वि॒द्वान्
Halfverse: b
सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।
सू॒क्तैः
दे॒वम्
सवि॒तार॑म्
दुवस्य
।
सू॒क्तैर्
दे॒वं
स॑वि॒तारं
दुवस्य
।
Halfverse: c
उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।।
उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्
उप
ब्रुवीत
नम॑सा
विजा॒नन्
उप
ब्रुवीत
नम॑सा
विजा॒नञ्
Halfverse: d
ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।।
ज्येष्ठ॑म्
च
रत्न॑म्
वि॒भज॑न्तम्
आ॒योः
।।
ज्येष्ठं
च
रत्नं
वि॒भज॑न्तम्
आ॒योः
।।
Verse: 3
Halfverse: a
अ॑दत्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।
अ॑दत्र॒या द॑यते॒ वार्या॑णि
अदत्र॒या
द॑यते
वार्या॑णि
अदत्र॒या
द॑यते
वारि॑याणि
Halfverse: b
पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।
पू॒षा
भगः
अदि॑तिः
वस्तो
!
उ॒स्रः
।
पू॒षा
भगो
अदि॑तिर्
वस्त
उ॒स्रः
।
Halfverse: c
इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ।।
इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निर्
इन्द्रः
विष्णुः
वरु॑णः
मि॒त्रः
अ॒ग्निः
इन्द्रो
विष्णु॑र्
वरु॑णो
मि॒त्रो
अ॒ग्निर्
Halfverse: d
अहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ।।
अहा॑नि
भ॒द्रा
ज॑नयन्त
द॒स्माः
।।
अहा॑नि
भ॒द्रा
ज॑नयन्त
द॒स्माः
।।
Verse: 4
Halfverse: a
तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् ।
तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं
तत्
नः
अन॒र्वा
स॑वि॒ता
वरू॑थम्
तन्
नो
अन॒र्वा
स॑वि॒ता
वरू॑थं
Halfverse: b
तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् ।
तत्
सिन्ध॑वः
इ॒षय॑न्तः
अनु
ग्मन्
।
तत्
सिन्ध॑व
इ॒षय॑न्तो
अनु
ग्मन्
।
Halfverse: c
उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ।।
उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता
उप
यत्
वोचे
अध्व॒रस्य
होता
उप
यद्
वोचे
अध्व॒रस्य
होता
Halfverse: d
रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ।।
रा॒यः
स्या॑म
पत॑यः
वाज॑रत्नाः
।।
रा॒यः
स्या॑म
पत॑यो
वाज॑रत्नाः
।।
Verse: 5
Halfverse: a
प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।
प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्
प्र
ये
वसु॑भ्यः
ईव॑त्
आ
नमः
दुः
प्र
ये
वसु॑भ्य
ईव॑द्
आ
नमो
दुर्
Halfverse: b
ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।
ये
मि॒त्रे
वरु॑णे
सू॒क्तवा॑चः
।
ये
मि॒त्रे
?
वरु॑णे
सू॒क्तवा॑चः
।
Halfverse: c
अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ।।
अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो
अव
एतु
अभ्व॑म्
कृणु॒त+
वरी॑यः
अवै॑तु
अभ्वं
कृणु॒ता
वरी॑यो
Halfverse: d
दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ।।
दि॒वस्पृ॑थि॒व्योः
अव॑सा
मदेम
।।
दि॒वस्पृ॑थि॒व्योर्
अव॑सा
मदेम
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.