TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 414
Hymn: 60_(414)
Verse: 1
Halfverse: a
ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ ।
ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिर्
ईळे
अ॒ग्निम्
स्वव॑सम्
नमो॑भिः
ईळे
अ॒ग्निं
सुअव॑सं
नमो॑भिर्
Halfverse: b
इ॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ ।
इ॒ह
प्र॑स॒त्तः
वि
च॑यत्
कृ॒तम्
नः
।
इ॒ह
प्र॑स॒त्तो
वि
च॑यत्
कृ॒तं
नः
।
Halfverse: c
रथै॑रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ।।
रथै॑रिव॒ प्र भ॑रे वाज॒यद्भिः
रथैः
इव
प्र
भ॑रे
वाज॒यद्भिः
रथै॑र्
इव
प्र
भ॑रे
वाज॒यद्भिः
Halfverse: d
प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ।।
प्र॑दक्षि॒णित्
म॒रुता॑म्
स्तोम॑म्
ऋध्याम्
।।
प्र॑दक्षि॒णिन्
म॒रुतां
स्तोम॑म्
ऋध्याम्
।।
Verse: 2
Halfverse: a
आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु ।
आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु
आ
ये
त॒स्थुः
पृष॑तीषु
श्रु॒तासु
आ
ये
त॒स्थुः
पृष॑तीषु
श्रु॒तासु
Halfverse: b
सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु ।
सु॒खेषु
रु॒द्राः
म॒रुतः
रथे॑षु
।
सु॒खेषु
रु॒द्रा
म॒रुतो
रथे॑षु
।
Halfverse: c
वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ।।
वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या
वना
चित्
उग्राः
जिहते
नि
वः
भि॒या
वना
चिद्
उग्रा
जिहते
नि
वो
भि॒या
Halfverse: d
पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ।।
पृ॑थि॒वी
चि॑त्
रेजते
पर्व॑तः
चित्
।।
पृ॑थि॒वी
चि॑द्
रेजते
पर्व॑तश्
चित्
।।
Verse: 3
Halfverse: a
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ ।
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय
पर्व॑तः
चित्
महि
वृ॒द्धः
बि॑भाय
पर्व॑तश्
चिन्
महि
वृ॒द्धो
बि॑भाय
Halfverse: b
दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ ।
दि॒वः
चि॑त्
सानु
रेजत
स्व॒ने
वः
।
दि॒वश्
चित्
सानु
रेजत
स्व॒ने
वः
।
Halfverse: c
यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य॑ञ्चो धवध्वे ।।
यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त
यत्
क्रीळ॑थ
मरुतः
ऋष्टि॒मन्तः
यत्
क्रीळ॑थ
मरुत
ऋष्टि॒मन्त
Halfverse: d
आप॑ इव स॒ध्र्य॑ञ्चो धवध्वे ।।
आपः
इव
स॒ध्र्य॑ञ्चः
धवध्वे
।।
आप
इव
सध्रिअञ्चो
धवध्वे
।।
Verse: 4
Halfverse: a
व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे ।
व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर्
व॒राः
इ॑व
इत्
रैव॒तासः
हिर॑ण्यैः
व॒रा
इ॒वेद्
रैव॒तासो
हिर॑ण्यैर्
Halfverse: b
अ॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे ।
अ॒भि
स्व॒धाभिः
त॒न्वः
पिपिश्रे
।
अ॒भि
स्व॒धाभि॑स्
त॒नुवः
पिपिश्रे
।
Halfverse: c
श्रि॒ये श्रेयाँ॑सस्त॒वसो॒ रथे॑षु स॒त्रा महाँ॑सि चक्रिरे त॒नूषु॑ ।।
श्रि॒ये श्रेयाँ॑सस्त॒वसो॒ रथे॑षु
श्रि॒ये
श्रेयां॑सः
त॒वसः
रथे॑षु
श्रि॒ये
श्रेयां॑सस्
त॒वसो
रथे॑षु
Halfverse: d
स॒त्रा महाँ॑सि चक्रिरे त॒नूषु॑ ।।
स॒त्रा
महां॑सि
चक्रिरे
त॒नूषु
।।
स॒त्रा
महां॑सि
चक्रिरे
त॒नूषु
।।
Verse: 5
Halfverse: a
अ॑ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सम्भ्रात॑रो वावृधुः॒ सौभ॑गाय ।
अ॑ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते
अ॑ज्ये॒ष्ठासः
अक॑निष्ठासः
ए॒ते
अ॑ज्ये॒ष्ठासो
अक॑निष्ठास
ए॒ते
Halfverse: b
सम्भ्रात॑रो वावृधुः॒ सौभ॑गाय ।
सम्
भ्रात॑रः
वावृधुः
सौभ॑गाय
।
सम्
भ्रात॑रो
वावृधुः
सौभ॑गाय
।
Halfverse: c
युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां सु॒दुघा॒ पृश्निः॑ सु॒दिना॑ म॒रुद्भ्यः॑ ।।
युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां
युवा
पि॒ता
स्वपाः
रु॒द्रः
ए॑षाम्
युवा
पि॒ता
सुअपा
रु॒द्र
ए॑षां
Halfverse: d
सु॒दुघा॒ पृश्निः॑ सु॒दिना॑ म॒रुद्भ्यः॑ ।।
सु॒दुघा
पृश्निः
सु॒दिना
म॒रुद्भ्यः
।।
सु॒दुघा
पृश्निः
सु॒दिना
म॒रुद्भ्यः
।।
Verse: 6
Halfverse: a
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ ।
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा
यत्
उत्त॒मे
म॑रुतः
मध्य॒मे
वा
यद्
उत्त॒मे
म॑रुतो
मध्य॒मे
वा
Halfverse: b
यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ ।
यत्
वा
अव॒मे
सु॑भगासः
दि॒वि
स्थ
।
यद्
वाव॒मे
सु॑भगासो
दि॒वि
ष्ठ
।
Halfverse: c
अतो॑ नो रुद्रा उ॒त वा॒ न्व॒स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ।।
अतो॑ नो रुद्रा उ॒त वा॒ न्व॑स्य
अतः
नः
रुद्राः
उ॒त
वा
नु
अ॑स्य
अतो
नो
रुद्रा
उ॒त
वा
नु
अ॑स्य
Halfverse: d
अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ।।
अग्ने
वि॒त्तात्
ह॒विषः
यत्
यजा॑म
।।
अग्ने
वि॒त्ताद्
ध॒विषो
यद्
यजा॑म
।।
Verse: 7
Halfverse: a
अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ ।
अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो
अ॒ग्निः
च
यत्
मरुतः
विश्ववेदसः
अ॒ग्निश्
च
यन्
मरुतो
विश्ववेदसो
Halfverse: b
दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ ।
दि॒वः
वह॑ध्वे
उत्त॑रात्
अधि
स्नुभिः
।
दि॒वो
वह॑ध्व
उत्त॑राद्
अधि
ष्णुभिः
।
Halfverse: c
ते म॑न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ।।
ते म॑न्दसा॒ना धुन॑यो रिशादसो
ते
म॑न्दसा॒नाः
धुन॑यः
रिशादसः
ते
म॑न्दसा॒ना
धुन॑यो
रिशादसो
Halfverse: d
वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ।।
वा॒मम्
धत्त
यज॑मानाय
सुन्व॒ते
।।
वा॒मं
ध॑त्त
यज॑मानाय
सुन्व॒ते
।।
Verse: 8
Halfverse: a
अग्ने॑ म॒रुद्भिः॑ शु॒भय॑द्भि॒रृक्व॑भिः॒ सोम॑म्पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑ ।
अग्ने॑ म॒रुद्भिः॑ शु॒भय॑द्भि॒रृक्व॑भिः
अग्ने
म॒रुद्भिः
शु॒भय॑द्भिः
ऋक्व॑भिः
अग्ने
म॒रुद्भिः
शु॒भय॑द्भिर्
ऋक्व॑भिः
Halfverse: b
सोम॑म्पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑ ।
सोम॑म्
पिब
मन्दसा॒नः
ग॑ण॒श्रिभिः
।
सोम॑म्
पिब
मन्दसा॒नो
ग॑ण॒श्रिभिः
।
Halfverse: c
पा॑व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ।।
पा॑व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॑र्
पाव॒केभिः
विश्वमि॒न्वेभिः
आ॒युभिः
पवा॒केभि॑र्
विश्वमि॒न्वेभि॑र्
आ॒युभि॑र्
Halfverse: d
वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ।।
वैश्वा॑नर
प्र॒दिवा
के॒तुना
स॒जूः
।।
वैश्वा॑नर
प्र॒दिवा
के॒तुना
स॒जूः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.