TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 431
Hymn: 77_(431)
Verse: 1
Halfverse: a
प्रा॑त॒र्यावा॑णा प्रथ॒मा य॑जध्वम्पु॒रा गृध्रा॒दर॑रुषः पिबातः ।
प्रा॑त॒र्यावा॑णा प्रथ॒मा य॑जध्वम्
प्रात॒र्यावा॑णा
प्रथ॒मा
य॑जध्वम्
प्रात॒र्यावा॑णा
प्रथ॒मा
य॑जध्वम्
Halfverse: b
पु॒रा गृध्रा॒दर॑रुषः पिबातः ।
पु॒रा
गृध्रा॑त्
अर॑रुषः
पिबातः
।
पु॒रा
गृध्रा॑द्
अर॑रुषः
पिबातः
।
Halfverse: c
प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शँ॑सन्ति क॒वयः॑ पूर्व॒भाजः॑ ।।
प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते
प्रा॒तर्
हि
य॒ज्ञम्
अ॒श्विना
द॒धाते
प्रा॒तर्
हि
य॒ज्ञम्
अ॒श्विना
द॒धाते
Halfverse: d
प्र शँ॑सन्ति क॒वयः॑ पूर्व॒भाजः॑ ।।
प्र
शं॑सन्ति
क॒वयः
पूर्व॒भाजः
।।
प्र
शं॑सन्ति
क॒वयः
पूर्व॒भाजः
।।
Verse: 2
Halfverse: a
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टम् ।
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत
प्रा॒तर्
यजध्वम्
अ॒श्विना
हिनोत
प्रा॒तर्
यजध्वम्
अ॒श्विना
हिनोत
Halfverse: b
न सा॒यम॑स्ति देव॒या अजु॑ष्टम् ।
न
सा॒यम्
अस्ति
देव॒याः
अजु॑ष्टम्
।
न
सा॒यम्
अस्ति
देव॒या
अजु॑ष्टम्
।
Halfverse: c
उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ।।
उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः
उ॒त
अ॒न्यः
अ॒स्मत्
यजते
वि
च
आवः
उ॒तान्यो
अ॒स्मद्
यजते
वि
चावः
Halfverse: d
पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ।।
पूर्वः॑पूर्वः
यज॑मानः
वनी॑यान्
।।
पूर्वः॑पूर्वो
यज॑मानो
वनी॑यान्
।।
Verse: 3
Halfverse: a
हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो॑ वर्तते वाम् ।
हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः
हिर॑ण्यत्वक्
मधु॑वर्णः
घृ॒तस्नुः
हिर॑ण्यत्वङ्
मधु॑वर्णो
घृ॒तस्नुः
Halfverse: b
पृक्षो॒ वह॒न्ना रथो॑ वर्तते वाम् ।
पृक्षः
वह॑न्
आ
रथः
वर्तते
वाम्
।
पृक्षो
वह॑न्न्
आ
रथो
वर्तते
वाम्
।
Halfverse: c
मनो॑जवा अश्विना॒ वात॑रँहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ।।
मनो॑जवा अश्विना॒ वात॑रँहा
मनो॑जवाः
अश्विना
वात॑रंहाः
मनो॑जवा
अश्विना
वात॑रंहा
Halfverse: d
येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ।।
येन
अतिया॒थः
दु॑रि॒तानि
विश्वा
।।
येना॑तिया॒थो
दु॑रि॒तानि
विश्वा
।।
Verse: 4
Halfverse: a
यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठम्पि॒त्वो रर॑ते विभा॒गे ।
यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष
यः
भूयि॑ष्ठम्
नास॑त्याभ्याम्
वि॒वेष
यो
भूयि॑ष्ठं
नास॑त्याभ्यां
वि॒वेष
Halfverse: b
चनि॑ष्ठम्पि॒त्वो रर॑ते विभा॒गे ।
चनि॑ष्ठम्
पि॒त्वः
रर॑ते
विभा॒गे
।
चनि॑ष्ठम्
पि॒त्वो
रर॑ते
विभा॒गे
।
Halfverse: c
स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ।।
स तो॒कम॑स्य पीपर॒च्छमी॑भिर्
स
तो॒कम्
अस्य
पीपरत्
शमी॑भिः
स
तो॒कम्
अस्य
पीपरच्
छमी॑भिर्
Halfverse: d
अनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ।।
अनू॑र्ध्वभासः
सद॑म्
इत्
तुतुर्यात्
।।
अनू॑र्ध्वभासः
सद॑म्
इत्
तुतुर्यात्
।।
Verse: 5
Halfverse: a
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
सम॒श्विनो॒रव॑सा॒ नूत॑नेन
सम्
अ॒श्विनोः
अव॑सा
नूत॑नेन
सम्
अ॒श्विनो॑र्
अव॑सा
नूत॑नेन
Halfverse: b
मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
म॑यो॒भुवा
सु॒प्रणी॑ती
गमेम
।
म॑यो॒भुवा
सु॒प्रणी॑ती
गमेम
।
Halfverse: c
आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ।।
आ नो॑ र॒यिं व॑हत॒मोत वी॒रान्
आ
नः
र॒यिम्
वहतम्
आ
उ॒त
वी॒रान्
आ
नो
र॒यिं
व॑हतम्
ओत
वी॒रान्
Halfverse: d
आ विश्वा॑न्यमृता॒ सौभ॑गानि ।।
आ
विश्वा॑नि
अमृता
सौभ॑गानि
।।
आ
विश्वा॑नि
अमृता
सौभ॑गानि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.