TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 437
Hymn: 83_(437)
Verse: 1
Halfverse: a
अछा॑ वद त॒वसं॑ गी॒र्भिरा॒भि स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।
अछा॑ वद त॒वसं॑ गी॒र्भिरा॒भि
अछ+
वद
त॒वस॑म्
गी॒र्भिः
आ॒भिः
अछा
वद
त॒वसं
गी॒र्भिर्
आ॒भिः
Halfverse: b
स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।
स्तु॒हि
प॒र्जन्य॑म्
नम॑सा
आ
वि॑वास
।
स्तु॒हि
प॒र्जन्यं
नम॒सा
वि॑वास
।
Halfverse: c
कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ।।
कनि॑क्रदद्वृष॒भो जी॒रदा॑नू
कनि॑क्रदत्
वृष॒भः
जी॒रदा॑नुः
कनि॑क्रदद्
वृष॒भो
जी॒रदा॑नू
Halfverse: d
रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ।।
रेतः
दधाति
ओष॑धीषु
गर्भ॑म्
।।
रेतो
दधाति
ओष॑धीषु
गर्भ॑म्
।।
Verse: 2
Halfverse: a
वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्व॑म्बिभाय॒ भुव॑नम्म॒हाव॑धात् ।
वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो
वि
वृ॒क्षान्
हन्ति
उ॒त
ह॑न्ति
र॒क्षसः
वि
वृ॒क्षान्
हन्ति
उ॒त
ह॑न्ति
र॒क्षसो
Halfverse: b
विश्व॑म्बिभाय॒ भुव॑नम्म॒हाव॑धात् ।
विश्व॑म्
बिभाय
भुव॑नम्
म॒हाव॑धात्
।
विश्व॑म्
बिभाय
भुव॑नम्
म॒हाव॑धात्
।
Halfverse: c
उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्य॑ स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ।।
उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो
उ॒त
अना॑गाः
ईषते
वृष्ण्या॑वतः
उ॒ताना॑गा
ईषते
वृष्णि॑यावतो
Halfverse: d
यत्प॒र्जन्य॑ स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ।।
यत्
प॒र्जन्यः
स्त॒नय॑न्
हन्ति
दु॒ष्कृतः
।।
यत्
प॒र्जन्य
स्त॒नय॑न्
हन्ति
दु॒ष्कृतः
।।
Verse: 3
Halfverse: a
र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒ अह॑ ।
र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्न्
र॒थी
इ॑व
कश॑या
अश्वा॑न्
अभिक्षि॒पन्
र॒थी
इ॑व
कश॒याश्वाँ
अभिक्षि॒पन्न्
Halfverse: b
आ॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒ अह॑ ।
आ॒विः
दू॒तान्
कृणुते
व॒र्ष्या॑न्
अह
।
आ॒विर्
दू॒तान्
कृणुते
व॒र्षियाँ
अह
।
Halfverse: c
दू॒रात्सिँ॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं॒ नभः॑ ।।
दू॒रात्सिँ॒हस्य॑ स्त॒नथा॒ उदी॑रते
दू॒रात्
सिं॒हस्य
स्त॒नथाः
उत्
ईरते
दू॒रात्
सिं॒हस्य
स्त॒नथा
उद्
ईरते
Halfverse: d
यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं॒ नभः॑ ।।
यत्
प॒र्जन्यः
कृणु॒ते
व॒र्ष्य॑म्
नभः
।।
यत्
प॒र्जन्यः
कृणु॒ते
व॒र्षियं
नभः
।।
Verse: 4
Halfverse: a
प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ ।
प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत
प्र
वाताः
वान्ति
प॒तय॑न्ति
वि॒द्युतः
प्र
वाता
वान्ति
प॒तय॑न्ति
वि॒द्युत
Halfverse: b
उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ ।
उत्
ओष॑धीः
जिह॑ते
पिन्व॑ते
स्व॑र्
।
उद्
ओष॑धीर्
जिह॑ते
पिन्व॑ते
सुवः
।
Halfverse: c
इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ।।
इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते
इरा
विश्व॑स्मै
भुव॑नाय
जायते
इरा
विश्व॑स्मै
भुव॑नाय
जायते
Halfverse: d
यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ।।
यत्
प॒र्जन्यः
पृथि॒वीम्
रेत॑सा
अव॑ति
।।
यत्
प॒र्जन्यः
पृथि॒वीं
रेत॒साव॑ति
।।
Verse: 5
Halfverse: a
यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒पव॒ज्जर्भु॑रीति ।
यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति
यस्य
व्र॒ते
पृ॑थि॒वी
नन्न॑मीति
यस्य
व्र॒ते
पृ॑थि॒वी
नन्न॑मीति
Halfverse: b
यस्य॑ व्र॒ते श॒पव॒ज्जर्भु॑रीति ।
यस्य
व्र॒ते
श॒पव॑त्
जर्भु॑रीति
।
यस्य
व्र॒ते
श॒पव॑ज्
जर्भु॑रीति
।
Halfverse: c
यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यछ ।।
यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पाः
यस्य
व्र॒ते
ओष॑धीः
वि॒श्वरू॑पाः
यस्य
व्र॒त
ओष॑धीर्
वि॒श्वरू॑पाः
Halfverse: d
स नः॑ पर्जन्य॒ महि॒ शर्म॑ यछ ।।
स
नः
पर्जन्य
महि
शर्म
यछ
।।
स
नः
पर्जन्य
महि
शर्म
यछ
।।
Verse: 6
Halfverse: a
दि॒वो नो॑ वृ॒ष्टिम्म॑रुतो ररीध्व॒म्प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।
दि॒वो नो॑ वृ॒ष्टिम्म॑रुतो ररीध्वम्
दि॒वः
नः
वृ॒ष्टिम्
मरुतः
ररीध्वम्
दि॒वो
नो
वृ॒ष्टिम्
मरुतो
ररीध्वम्
Halfverse: b
प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।
प्र
पि॑न्वत
वृष्णः
अश्व॑स्य
धाराः
।
प्र
पि॑न्वत
वृष्णो
अश्व॑स्य
धाराः
।
Halfverse: c
अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ।।
अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य्
अ॒र्वाङ्
ए॒तेन
स्तनयि॒त्नुना
आ
इ॑हि
अ॒र्वाङ्
ए॒तेन
स्तनयि॒त्नुनेहि
Halfverse: d
अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ।।
अ॒पः
नि॑षि॒ञ्चन्
असु॑रः
पि॒ता
नः
।।
अ॒पो
नि॑षि॒ञ्चन्न्
असु॑रः
पि॒ता
नः
।।
Verse: 7
Halfverse: a
अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा
अ॒भि
क्र॑न्द
स्त॒नय
गर्भ॑म्
आ
धाः
अ॒भि
क्र॑न्द
स्त॒नय
गर्भ॑म्
आ
धा
Halfverse: b
उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
उ॑द॒न्वता
परि
दीय+
रथे॑न
।
उ॑द॒न्वता
परि
दीया
रथे॑न
।
Halfverse: c
दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ।।
दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं
दृति॑म्
सु
क॑र्ष
विषि॑तम्
न्य॑ञ्चम्
दृतिं
सु
क॑र्ष
विषि॑तं
निअञ्चं
Halfverse: d
स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ।।
स॒माः
भ॑वन्तु
उ॒द्वतः
निपा॒दाः
।।
स॒मा
भ॑वन्तु
उ॒द्वतो
निपा॒दाः
।।
Verse: 8
Halfverse: a
म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च
म॒हान्त॑म्
कोश॑म्
उत्
अच+
नि
सि॑ञ्च
म॒हान्तं
कोश॑म्
उद्
अचा
नि
षि॑ञ्च
Halfverse: b
स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
स्यन्द॑न्ताम्
कु॒ल्याः
विषि॑ताः
पु॒रस्ता॑त्
।
स्यन्द॑न्तां
कु॒ल्या
विषि॑ताः
पु॒रस्ता॑त्
।
Halfverse: c
घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णम्भ॑वत्व॒घ्न्याभ्यः॑ ।।
घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि
घृ॒तेन
द्यावा॑पृथि॒वी
वि
उ॑न्धि
घृ॒तेन
द्यावा॑पृथि॒वी
वि
उ॑न्धि
Halfverse: d
सुप्रपा॒णम्भ॑वत्व॒घ्न्याभ्यः॑ ।।
सु॑प्रपा॒णम्
भवतु
अ॒घ्न्याभ्यः
।।
सु॑प्रपा॒णम्
भवतु
अघ्नि॒याभ्यः
।।
Verse: 9
Halfverse: a
यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हँसि॑ दु॒ष्कृतः॑ ।
यत्प॑र्जन्य॒ कनि॑क्रदत्
यत्
पर्जन्य
कनि॑क्रदत्
यत्
पर्जन्य
कनि॑क्रदत्
Halfverse: b
स्त॒नय॒न्हँसि॑ दु॒ष्कृतः॑ ।
स्त॒नय॑न्
हंसि
दु॒ष्कृतः
।
स्त॒नय॑न्
हंसि
दु॒ष्कृतः
।
Halfverse: c
प्रती॒दं विश्व॑म्मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ।।
प्रती॒दं विश्व॑म्मोदते
प्रति
इ॒दम्
विश्व॑म्
मोदते
प्रती॒दं
विश्व॑म्
मोदते
Halfverse: d
यत्किं च॑ पृथि॒व्यामधि॑ ।।
यत्
किम्
च
पृथि॒व्याम्
अधि
।।
यत्
किं
च
पृथि॒व्याम्
अधि
।।
Verse: 10
Halfverse: a
अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।
अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भाय
अव॑र्षीः
व॒र्षम्
उत्
उ
सु+
गृ॑भाय
अव॑र्षीर्
व॒र्षम्
उद्
उ
षू
गृ॑भाय
Halfverse: b
अक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।
अक॑र्
धन्वा॑नि
अत्ये॑त॒वै
उ
।
अक॑र्
धन्वा॑नि
अतिए॑त॒वा
उ
।
Halfverse: c
अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ ऽविदो मनी॒षाम् ।।
अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कम्
अजी॑जनः
ओष॑धीः
भोज॑नाय
कम्
अजी॑जन
ओष॑धीर्
भोज॑नाय
कम्
Halfverse: d
उ॒त प्र॒जाभ्यो॑ ऽविदो मनी॒षाम् ।।
उ॒त
प्र॒जाभ्यः
अविदः
मनी॒षाम्
।।
उ॒त
प्र॒जाभ्यो
अविदो
मनी॒षाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.