TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 439
Hymn: 85_(439)
Verse: 1
Halfverse: a
प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रम्ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ ।
प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रम्
प्र
स॒म्राजे
बृ॒हत्
अर्च+
गभी॒रम्
प्र
स॒म्राजे
बृ॒हद्
अर्चा
गभी॒रम्
Halfverse: b
ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ ।
ब्रह्म
प्रि॒यम्
वरु॑णाय
श्रु॒ताय
।
ब्रह्म
प्रि॒यं
वरु॑णाय
श्रु॒ताय
।
Halfverse: c
वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ।।
वि यो ज॒घान॑ शमि॒तेव॒ चर्म
वि
यः
ज॒घान
शमि॒ता
इ॑व
चर्म
वि
यो
ज॒घान
शमि॒तेव
चर्म
Halfverse: d
॑उप॒स्तिरे॑ पृथि॒वीं सूर्या॑य ।।
उ॑प॒स्तिरे
पृथि॒वीम्
सूर्या॑य
।।
उ॑प॒स्तिरे
पृथि॒वीं
सूरि॑याय
।।
Verse: 2
Halfverse: a
वने॑षु॒ व्य॒न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।
वने॑षु॒ व्य॒न्तरि॑क्षं ततान
वने॑षु
वि
अ॒न्तरि॑क्षम्
ततान
वने॑षु
वि
अ॒न्तरि॑क्षं
ततान
Halfverse: b
वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।
वाज॑म्
अर्व॑त्सु
पयः
उ॒स्रिया॑सु
।
वाज॑म्
अर्व॑त्सु
पय
उ॒स्रिया॑सु
।
Halfverse: c
हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व॒ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ।।
हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व॒ग्निं
हृ॒त्सु
क्रतु॑म्
वरु॑णः
अ॒प्सु
अ॒ग्निम्
हृ॒त्सु
क्रतुं
वरु॑णो
अ॒प्सु
अ॒ग्निं
Halfverse: d
दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ।।
दि॒वि
सूर्य॑म्
अदधात्
सोम॑म्
अद्रौ
।।
दि॒वि
सूर्य॑म्
अदधात्
सोम॑म्
अद्रौ
।।
Verse: 3
Halfverse: a
नी॒चीन॑बारं॒ वरु॑णः॒ कव॑न्ध॒म्प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् ।
नी॒चीन॑बारं॒ वरु॑णः॒ कव॑न्धम्
नी॒चीन॑बारम्
वरु॑णः
कव॑न्धम्
नी॒चीन॑बारं
वरु॑णः
कव॑न्धम्
Halfverse: b
प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् ।
प्र
स॑सर्ज
रोद॑सी
अ॒न्तरि॑क्षम्
।
प्र
स॑सर्ज
रोद॑सी
अ॒न्तरि॑क्षम्
।
Halfverse: c
तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ।।
तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा
तेन
विश्व॑स्य
भुव॑नस्य
राजा
तेन
विश्व॑स्य
भुव॑नस्य
राजा
Halfverse: d
यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ।।
यव॑म्
न
वृ॒ष्टिः
वि
उ॑नत्ति
भूम
।।
यवं
न
वृ॒ष्टिर्
वि
उ॑नत्ति
भूम
।।
Verse: 4
Halfverse: a
उ॒नत्ति॒ भूमि॑म्पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् ।
उ॒नत्ति॒ भूमि॑म्पृथि॒वीमु॒त द्यां
उ॒नत्ति
भूमि॑म्
पृथि॒वीम्
उ॒त
द्याम्
उ॒नत्ति
भूमि॑म्
पृथि॒वीम्
उ॒त
द्यां
Halfverse: b
य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् ।
य॒दा
दु॒ग्धम्
वरु॑णः
वष्टि
आत्
इत्
।
य॒दा
दु॒ग्धं
वरु॑णो
वष्टि
आद्
इत्
।
Halfverse: c
सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ।।
सम॒भ्रेण॑ वसत॒ पर्व॑तासस्
सम्
अ॒भ्रेण
वसत
पर्व॑तासः
सम्
अ॒भ्रेण
वसत
पर्व॑तासस्
Halfverse: d
तविषी॒यन्तः॑ श्रथयन्त वी॒राः ।।
त॑विषी॒यन्तः
श्रथयन्त
वी॒राः
।।
त॑विषी॒यन्तः
श्रथयन्त
वी॒राः
।।
Verse: 5
Halfverse: a
इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीम्मा॒यां वरु॑णस्य॒ प्र वो॑चम् ।
इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य
इ॒माम्
उ+
सु
आ॑सु॒रस्य
श्रु॒तस्य
इ॒माम्
ऊ
षु
आ॑सु॒रस्य
श्रु॒तस्य
Halfverse: b
म॒हीम्मा॒यां वरु॑णस्य॒ प्र वो॑चम् ।
म॒हीम्
मा॒याम्
वरु॑णस्य
प्र
वो॑चम्
।
म॒हीम्
मा॒यां
वरु॑णस्य
प्र
वो॑चम्
।
Halfverse: c
माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ।।
माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे
माने॑न
इव
तस्थि॒वान्
अ॒न्तरि॑क्षे
माने॑नेव
तस्थि॒वाँ
अ॒न्तरि॑क्षे
Halfverse: d
वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ।।
वि
यः
म॒मे
पृ॑थि॒वीम्
सूर्ये॑ण
।।
वि
यो
म॒मे
पृ॑थि॒वीं
सूरि॑येण
।।
Verse: 6
Halfverse: a
इ॒मामू॒ नु क॒वित॑मस्य मा॒याम्म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष ।
इ॒मामू॒ नु क॒वित॑मस्य मा॒याम्
इ॒माम्
उ+
नु
क॒वित॑मस्य
मा॒याम्
इ॒माम्
ऊ
नु
क॒वित॑मस्य
मा॒याम्
Halfverse: b
म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष ।
म॒हीम्
दे॒वस्य
नकिः
आ
द॑धर्ष
।
म॒हीं
दे॒वस्य
नकि॑र्
आ
द॑धर्ष
।
Halfverse: c
एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑रासि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ।।
एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑र्
एक॑म्
यत्
उ॒द्ना
न
पृ॒णन्ति
एनीः
एकं
यद्
उ॒द्ना
न
पृ॒णन्ति
एनी॑र्
Halfverse: d
आसि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ।।
आ॑सि॒ञ्चन्तीः
अ॒वन॑यः
समु॒द्रम्
।।
आ॑सि॒ञ्चन्ती॑र्
अ॒वन॑यः
समु॒द्रम्
।।
Verse: 7
Halfverse: a
अ॑र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा ।
अ॑र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा
अर्य॒म्य॑म्
वरुण
मि॒त्र्य॑म्
वा
अर्य॒मियं
वरुण
मि॒त्रियं
वा
Halfverse: b
सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा ।
सखा॑यम्
वा
सद॑म्
इत्
भ्रात॑रम्
वा
।
सखा॑यं
वा
सद॑म्
इद्
भ्रात॑रं
वा
।
Halfverse: c
वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ।।
वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा
वे॒शम्
वा
नित्य॑म्
वरुण
अर॑णम्
वा
वे॒शं
वा
नित्यं
वरु॒णार॑णं
वा
Halfverse: d
यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ।।
यत्
सीम्
आगः
चकृ॒म+
शि॒श्रथः
तत्
।।
यत्
सीम्
आग॑श्
चकृ॒मा
शि॒श्रथ॑स्
तत्
।।
Verse: 8
Halfverse: a
कि॑त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ।
कि॑त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि
कि॑त॒वासः
यत्
रिरि॒पुः
न
दी॒वि
कि॑त॒वासो
यद्
रिरि॒पुर्
न
दी॒वि
Halfverse: b
यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ।
यत्
वा
घ+
स॒त्यम्
उ॒त
यत्
न
वि॒द्म
।
यद्
वा
घा
स॒त्यम्
उ॒त
यन्
न
वि॒द्म
।
Halfverse: c
सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ।।
सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ देव
सर्वा
ता
वि
स्य
शिथि॒रा
इ॑व
देव
सर्वा
ता
वि
ष्य
शिथि॒रेव
देव
Halfverse: d
अधा॑ ते स्याम वरुण प्रि॒यासः॑ ।।
अध+
ते
स्याम
वरुण
प्रि॒यासः
।।
अधा
ते
स्याम
वरुण
प्रि॒यासः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.