TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 444
Hymn: 3_(444)
Verse: 1
Halfverse: a
अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।
अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा
अग्ने
स
क्षे॑षत्
ऋत॒पाः
ऋ॑ते॒जाः
अग्ने
स
क्षे॑षद्
ऋत॒पा
ऋ॑ते॒जा
Halfverse: b
उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।
उ॒रु
ज्योतिः
नशते
देव॒युः
ते
।
उ॒रु
ज्योति॑र्
नशते
देव॒युष्
टे
।
Halfverse: c
यं त्वम्मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ।।
यं त्वम्मि॒त्रेण॒ वरु॑णः स॒जोषा
यम्
त्वम्
मि॒त्रेण
वरु॑णः
स॒जोषाः
यं
त्वम्
मि॒त्रेण
वरु॑णः
स॒जोषा
Halfverse: d
देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ।।
देव
पासि
त्यज॑सा
मर्त॑म्
अंहः
।।
देव
पासि
त्यज॑सा
मर्त॑म्
अंहः
।।
Verse: 2
Halfverse: a
ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिरृ॒धद्वा॑राया॒ग्नये॑ ददाश ।
ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिर्
ई॒जे
य॒ज्ञेभिः
शश॒मे
शमी॑भिः
ई॒जे
य॒ज्ञेभिः
शश॒मे
शमी॑भिर्
Halfverse: b
ऋ॒धद्वा॑राया॒ग्नये॑ ददाश ।
ऋ॒धद्वा॑राय
अ॒ग्नये
ददाश
।
ऋ॒धद्वा॑राय
अ॒ग्नये
ददाश
।
Halfverse: c
ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ।।
ए॒वा च॒न तं य॒शसा॒मजु॑ष्टिर्
ए॒व+
च॒न
तम्
य॒शसा॑म्
अजु॑ष्टिः
ए॒वा
च॒न
तं
य॒शसा॑म्
अजु॑ष्टिर्
Halfverse: d
नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ।।
न
अंहः
मर्त॑म्
नशते
न
प्रदृ॑प्तिः
।।
नांहो
मर्तं
नशते
न
प्रदृ॑प्तिः
।।
Verse: 3
Halfverse: a
सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।
सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा
सूरः
न
यस्य
दृश॒तिः
अ॑रे॒पाः
सूरो
न
यस्य
दृश॒तिर्
अरे॒पा
Halfverse: b
भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।
भी॒मा
यत्
एति
शुच॒तः
ते
आ
धीः
।
भी॒मा
यद्
एति
शुच॒तस्
त
आ
धीः
।
Halfverse: c
हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ।।
हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः
हेष॑स्वतः
शु॒रुधः
न
अ॒यम्
अ॒क्तोः
हेष॑स्वतः
शु॒रुधो
नायम्
अ॒क्तोः
Halfverse: d
कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ।।
कुत्र+
चित्
र॒ण्वः
व॑स॒तिः
व॑ने॒जाः
।।
कुत्रा
चिद्
र॒ण्वो
व॑स॒तिर्
वने॒जाः
।।
Verse: 4
Halfverse: a
ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।
ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य
ति॒ग्मम्
चित्
एम
महि
वर्पः
अस्य
ति॒ग्मं
चि॑द्
एम
महि
वर्पो
अस्य
Halfverse: b
भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।
भस॑त्
अश्वः
न
य॑मसा॒नः
आ॒सा
।
भस॑द्
अश्वो
न
य॑मसा॒न
आ॒सा
।
Halfverse: c
वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ।।
वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां
वि॒जेह॑मानः
पर॒शुः
न
जि॒ह्वाम्
वि॒जेह॑मानः
पर॒शुर्
न
जि॒ह्वां
Halfverse: d
द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ।।
द्र॒विः
न
द्रा॑वयति
दारु
धक्ष॑त्
।।
द्र॒विर्
न
द्रा॑वयति
दारु
धक्ष॑त्
।।
Verse: 5
Halfverse: a
स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यञ्छिशी॑त॒ तेजो ऽय॑सो॒ न धारा॑म् ।
स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यञ्
सः
।!।
इत्
अस्ता
इव
प्रति
धात्
असि॒ष्यन्
स
इद्
अस्ते॑व
प्रति
धाद्
असि॒ष्यञ्
Halfverse: b
छिशी॑त॒ तेजो ऽय॑सो॒ न धारा॑म् ।
शिशी॑त
तेजः
अय॑सः
न
धारा॑म्
।
छिशी॑त
तेजो
अय॑सो
न
धारा॑म्
।
Halfverse: c
चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ।।
चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्
चि॒त्रध्र॑जतिः
अर॒तिः
यः
अ॒क्तोः
चि॒त्रध्र॑जतिर्
अर॒तिर्
यो
अ॒क्तोर्
Halfverse: d
वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ।।
वेः
न
द्रु॒षद्वा
रघु॒पत्म॑जंहाः
।।
वेर्
न
द्रु॒षद्वा
रघु॒पत्म॑जंहाः
।।
Verse: 6
Halfverse: a
स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः ।
स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः
सः
।!।
ई॑म्
रे॒भः
न
प्रति
वस्ते
उ॒स्राः
स
ईं
रे॒भो
न
प्रति
वस्त
उ॒स्राः
Halfverse: b
शो॒चिषा॑ रारपीति मि॒त्रम॑हाः ।
शो॒चिषा
रारपीति
मि॒त्रम॑हाः
।
शो॒चिषा
रारपीति
मि॒त्रम॑हाः
।
Halfverse: c
नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ।।
नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄन्
नक्त॑म्
यः
ई॑म्
अरु॒षः
यः
दिवा
नॄन्
नक्तं
य
ई॑म्
अरु॒षो
यो
दिवा
नॄन्
Halfverse: d
अम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ।।
अम॑र्त्यः
अरु॒षः
यः
दिवा
नॄन्
।।
अम॑र्तियो
अरु॒षो
यो
दिवा
नॄन्
।।
Verse: 7
Halfverse: a
दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् ।
दि॒वो न यस्य॑ विध॒तो नवी॑नोद्
दि॒वः
न
यस्य
विध॒तः
नवी॑नोत्
दि॒वो
न
यस्य
विध॒तो
नवी॑नोद्
Halfverse: b
वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् ।
वृषा
रु॒क्षः
ओष॑धीषु
नूनोत्
।
वृषा
रु॒क्ष
?
ओष॑धीषु
नूनोत्
।
Halfverse: c
घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ।।
घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्न्
घृणा
न
यः
ध्रज॑सा
पत्म॑ना
यन्
घृणा
न
यो
ध्रज॑सा
पत्म॑ना
यन्न्
Halfverse: d
आ रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ।।
आ
रोद॑सी
वसु॑ना
दम्
सु॒पत्नी
।।
आ
रोद॑सी
वसु॑ना
दं
सु॒पत्नी
।।
Verse: 8
Halfverse: a
धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ ।
धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्
धायो॑भिः
वा
यः
युज्ये॑भिः
अ॒र्कैः
धायो॑भिर्
वा
यो
युजि॑येभिर्
अ॒र्कैर्
Halfverse: b
वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ ।
वि॒द्युत्
न
द॑विद्योत्
स्वेभिः
शुष्मैः
।
वि॒द्युन्
न
द॑विद्योत्
सु॒वेभिः
शुष्मैः
।
Halfverse: c
शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ।।
शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष
शर्धः
वा
यः
म॒रुता॑म्
त॒तक्ष
शर्धो
वा
यो
म॒रुताअं
त॒तक्ष
Halfverse: d
ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ।।
ऋ॒भुः
न
त्वे॒षः
र॑भसा॒नः
अ॑द्यौत्
।।
ऋ॒भुर्
न
त्वे॒षो
र॑भसा॒नो
अ॑द्यौत्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.