TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 445
Hymn: 4_(445)
Verse: 1
Halfverse: a
यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि ।
यथा॑ होत॒र्मनु॑षो दे॒वता॑ता
यथा
होतर्
मनु॑षः
दे॒वता॑ता
यथा
होतर्
मनु॑षो
दे॒वता॑ता
Halfverse: b
य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि ।
य॒ज्ञेभिः
सूनो
सहसः
यजा॑सि
।
य॒ज्ञेभिः
सूनो
सहसो
यजा॑सि
।
Halfverse: c
ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ।।
ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नान्
ए॒व+
नः
अ॒द्य
स॑म॒ना
स॑मा॒नान्
ए॒वा
नो
अ॒द्य
स॑म॒ना
स॑मा॒नान्
Halfverse: d
उ॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ।।
उ॒शन्
अग्ने
उश॒तः
य॑क्षि
दे॒वान्
।।
उ॒शन्न्
अग्न
उश॒तो
य॑क्षि
दे॒वान्
।।
Verse: 2
Halfverse: a
स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो॑ धात् ।
स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र्
स
नः
वि॒भावा
च॒क्षणिः
न
वस्तोः
स
नो
वि॒भावा
च॒क्षणि॑र्
न
वस्तो॑र्
Halfverse: b
अ॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो॑ धात् ।
अ॒ग्निः
व॒न्दारु
वेद्यः
चनः
धात्
।
अ॒ग्निर्
व॒न्दारु
वेदि॑यश्
चनो
धात्
।
Halfverse: c
वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ।।
वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षु
वि॒श्वायुः
यः
अ॒मृतः
मर्त्ये॑षु
वि॒श्वायु॑र्
यो
अ॒मृतो
मर्ति॑येषु
Halfverse: d
उष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ।।
उ॑ष॒र्भुत्
भूत्
अति॑थिः
जा॒तवे॑दाः
।।
उ॑ष॒र्भुद्
भूद्
अति॑थिर्
जा॒तवे॑दाः
।।
Verse: 3
Halfverse: a
द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्व॒म्भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।
द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्व॑म्
द्यावः
न
यस्य
प॒नय॑न्ति
अभ्व॑म्
द्यावो
न
यस्य
प॒नय॑न्ति
अभ्व॑म्
Halfverse: b
भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।
भासां॑सि
वस्ते
सूर्यः
न
शु॒क्रः
।
भासां॑सि
वस्ते
सूरि॑यो
न
शु॒क्रः
।
Halfverse: c
वि य इ॒नोत्य॒जरः॑ पाव॒को ऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ।।
वि य इ॒नोत्य॒जरः॑ पाव॒को
वि
यः
इ॒नोति
अ॒जरः
पाव॒कः
वि
य
इ॒नोति
अ॒जरः
पवा॒को
Halfverse: d
ऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ।।
अश्न॑स्य
चित्
शिश्नथत्
पू॒र्व्याणि
।।
अश्न॑स्य
चिच्
छिश्नथत्
पूर्वि॒याणि
।।
Verse: 4
Halfverse: a
व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न॑म् ।
व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा
व॒द्मा
हि
सू॑नो
असि
अद्म॒सद्वा
व॒द्मा
हि
सू॑नो
असि
अद्म॒सद्वा
Halfverse: b
च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न॑म् ।
च॒क्रे
अ॒ग्निः
ज॒नुषा
अज्म
अन्न॑म्
।
च॒क्रे
अ॒ग्निर्
ज॒नुषा
अज्म
अन्न॑म्
।
Halfverse: c
स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्य॒न्तः ।।
स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा
स
त्वम्
नः
ऊर्जसने
ऊर्ज॑म्
धाः
स
तु॒वं
न
ऊर्जसन
ऊर्जं
धा
Halfverse: d
राजे॑व जेरवृ॒के क्षे॑ष्य॒न्तः ।।
राजा
इव
जेः
अवृ॒के
क्षे॑षि
अ॒न्तर्
।।
राजे॑व
जेर्
अवृ॒के
क्षे॑षि
अ॒न्तः
।।
Verse: 5
Halfverse: a
निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् ।
निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति
निति॑क्ति
यः
वा॑र॒णम्
अन्न॑म्
अत्ति
निति॑क्ति
यो
वा॑र॒णम्
अन्न॑म्
अत्ति
Halfverse: b
वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् ।
वा॒युः
न
राष्ट्री
अति
एति
अ॒क्तून्
।
वा॒युर्
न
राष्ट्री
अति
एति
अ॒क्तून्
।
Halfverse: c
तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ।।
तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑तीर्
तु॒र्याम
यः
ते
आ॒दिशा॑म्
अरा॑तीः
तु॒र्याम
यस्
त
आ॒दिशा॑म्
अरा॑तीर्
Halfverse: d
अत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ।।
अत्यः
न
ह्रुतः
पत॑तः
परि॒ह्रुत्
।।
अत्यो
न
ह्रुतः
पत॑तः
परि॒ह्रुत्
।।
Verse: 6
Halfverse: a
आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा ।
आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैर्
आ
सूर्यः
न
भा॑नु॒मद्भिः
अ॒र्कैः
आ
सूरि॑यो
न
भा॑नु॒मद्भि॑र्
अ॒र्कैर्
Halfverse: b
अग्ने॑ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा ।
अग्ने
त॒तन्थ
रोद॑सी
वि
भा॒सा
।
अग्ने
त॒तन्थ
रोद॑सी
वि
भा॒सा
।
Halfverse: c
चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्औशि॒जो न दीय॑न् ।।
चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः
चि॒त्रः
न॑यत्
परि
तमां॑सि
अ॒क्तः
चि॒त्रो
न॑यत्
परि
तमां॑सि
अ॒क्तः
Halfverse: d
शो॒चिषा॒ पत्म॑न्औशि॒जो न दीय॑न् ।।
शो॒चिषा
पत्म॑न्
औशि॒जः
न
दीय॑न्
।।
शो॒चिषा
पत्म॑न्न्
औशि॒जो
न
दीय॑न्
।।
Verse: 7
Halfverse: a
त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने ।
त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्
त्वाम्
हि
म॒न्द्रत॑मम्
अर्कशो॒कैः
तु॒वां
हि
म॒न्द्रत॑मम्
अर्कशो॒कैर्
Halfverse: b
ववृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने ।
व॑वृ॒महे
महि
नः
श्रोषि
अग्ने
।
व॑वृ॒महे
महि
नः
श्रोषि
अग्ने
।
Halfverse: c
इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युम्पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ।।
इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता
इन्द्र॑म्
न
त्वा
शव॑सा
दे॒वता
इन्द्रं
न
त्वा
?
शव॑सा
दे॒वता
Halfverse: d
वा॒युम्पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ।।
वा॒युम्
पृणन्ति
राध॑सा
नृत॑माः
।।
वा॒युम्
पृणन्ति
राध॑सा
नृत॑माः
।।
Verse: 8
Halfverse: a
नू नो॑ अग्ने ऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ ।
नू नो॑ अग्ने ऽवृ॒केभिः॑ स्व॒स्ति
नु+
नः
अग्ने
अवृ॒केभिः
स्व॒स्ति
नू
नो
अग्ने
अवृ॒केभिः
सुअ॒स्ति
Halfverse: b
वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ ।
वेषि
रा॒यः
प॒थिभिः
पर्षि
अंहः
।
वेषि
रा॒यः
प॒थिभिः
पर्षि
अंहः
।
Halfverse: c
ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नम्मदे॑म श॒तहि॑माः सु॒वीराः॑ ।।
ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नम्
ता
सू॒रिभ्यः
गृण॒ते
रा॑सि
सु॒म्नम्
ता
सू॒रिभ्यो
गृण॒ते
रा॑सि
सु॒म्नम्
Halfverse: d
मदे॑म श॒तहि॑माः सु॒वीराः॑ ।।
मदे॑म
श॒तहि॑माः
सु॒वीराः
।।
मदे॑म
?
श॒तहि॑माः
सु॒वीराः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.