TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 464
Hymn: 23_(464)
Verse: 1
Halfverse: a
सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे ।
सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे
सु॒ते
इत्
त्वम्
निमि॑श्लः
इन्द्र
सोमे
सु॒त
इत्
त्वं
निमि॑श्ल
इन्द्र
सोमे
Halfverse: b
स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे ।
स्तोमे
ब्रह्म॑णि
श॒स्यमा॑ने
उ॒क्थे
।
स्तोमे
ब्रह्म॑णि
श॒स्यमा॑न
उ॒क्थे
।
Halfverse: c
यद्वा॑ यु॒क्ताभ्या॑म्मघव॒न्हरि॑भ्या॒म्बिभ्र॒द्वज्र॑म्बा॒ह्वोरि॑न्द्र॒ यासि॑ ।।
यद्वा॑ यु॒क्ताभ्या॑म्मघव॒न्हरि॑भ्याम्
यत्
वा
यु॒क्ताभ्या॑म्
मघवन्
हरि॑भ्याम्
यद्
वा
यु॒क्ताभ्या॑म्
मघवन्
हरि॑भ्याम्
Halfverse: d
बिभ्र॒द्वज्र॑म्बा॒ह्वोरि॑न्द्र॒ यासि॑ ।।
बिभ्र॑त्
वज्र॑म्
बा॒ह्वोः
इ॑न्द्र
यासि
।।
बिभ्र॑द्
वज्र॑म्
बाहु॒वोर्
इन्द्र
यासि
।।
Verse: 2
Halfverse: a
यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्ये ऽव॑सि॒ शूर॑सातौ ।
यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र
यत्
वा
दि॒वि
पार्ये
सुष्वि॑म्
इन्द्र
यद्
वा
दि॒वि
पारि॑ये
सुष्वि॑म्
इन्द्र
Halfverse: b
वृत्र॒हत्ये ऽव॑सि॒ शूर॑सातौ ।
वृ॑त्र॒हत्ये
अव॑सि
शूर॑सातौ
।
वृ॑त्र॒हत्ये
अव॑सि
शूर॑सातौ
।
Halfverse: c
यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर॑न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ।।
यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्यद्
यत्
वा
दक्ष॑स्य
बि॒भ्युषः
अबि॑भ्यत्
यद्
वा
दक्ष॑स्य
बि॒भ्युषो
अबि॑भ्यद्
Halfverse: d
अर॑न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ।।
अर॑न्धयः
शर्ध॑तः
इन्द्र
दस्यू॑न्
।।
अर॑न्धयः
शर्ध॑त
इन्द्र
दस्यू॑न्
।।
Verse: 3
Halfverse: a
पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोम॑म्प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती ।
पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोम॑म्
पाता
सु॒तम्
इन्द्रः
अस्तु
सोम॑म्
पाता
सु॒तम्
इन्द॑रो
अस्तु
सोम॑म्
Halfverse: b
प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती ।
प्र॑णे॒नीः
उ॒ग्रः
ज॑रि॒तार॑म्
ऊ॒ती
।
प्र॑णे॒नीर्
उ॒ग्रो
ज॑रि॒तार॑म्
ऊ॒ती
।
Halfverse: c
कर्ता॑ वी॒राय॒ सुष्व॑य उलो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ।।
कर्ता॑ वी॒राय॒ सुष्व॑य उलो॒कं ।!।
कर्ता
वी॒राय
सुष्व॑ये
उलो॒कम्
!
कर्ता
वी॒राय
सुष्व॑ये
उलो॒कं
Halfverse: d
दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ।।
दाता
वसु
स्तुव॒ते
की॒रये
चित्
।।
दाता
वसु
स्तुव॒ते
की॒रये
चित्
।।
Verse: 4
Halfverse: a
गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्याम्ब॒भ्रिर्वज्र॑म्प॒पिः सोमं॑ द॒दिर्गाः ।
गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्याम्
गन्ता
इया॑न्ति
सव॑ना
हरि॑भ्याम्
गन्ता
इया॑न्ति
सव॑ना
हरि॑भ्याम्
Halfverse: b
ब॒भ्रिर्वज्र॑म्प॒पिः सोमं॑ द॒दिर्गाः ।
ब॒भ्रिः
वज्र॑म्
प॒पिः
सोम॑म्
द॒दिः
गाः
।
ब॒भ्रिर्
वज्र॑म्
प॒पिः
सोमं
द॒दिर्
गाः
।
Halfverse: c
कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒त स्तोम॑वाहाः ।।
कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं
कर्ता
वी॒रम्
नर्य॑म्
सर्व॑वीरम्
कर्ता
वी॒रं
नरि॑यं
सर्व॑वीरं
Halfverse: d
श्रोता॒ हवं॑ गृण॒त स्तोम॑वाहाः ।।
श्रोता
हव॑म्
गृण॒तः
स्तोम॑वाहाः
।।
श्रोता
हवं
गृण॒त
स्तोम॑वाहाः
।।
Verse: 5
Halfverse: a
अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः ।
अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म
अस्मै
व॒यम्
यत्
वा॒वान
तत्
विविष्मः
अस्मै
व॒यं
यद्
वा॒वान
तद्
विविष्म
Halfverse: b
इन्द्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः ।
इन्द्रा॑य
यः
नः
प्र॒दिवः
अपः
कर्
।
इन्द्रा॑य
यो
नः
प्र॒दिवो
अप॑स्
कः
।
Halfverse: c
सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ।।
सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्था
सु॒ते
सोमे
स्तु॒मसि
शंस॑त्
उ॒क्था
सु॒ते
सोमे
स्तु॒मसि
शंस॑द्
उ॒क्था
Halfverse: d
इन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ।।
इन्द्रा॑य
ब्रह्म
वर्ध॑नम्
यथा
अस॑त्
।।
इन्द्रा॑य
ब्रह्म
वर्ध॑नं
यथास॑त्
।।
Verse: 6
Halfverse: a
ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि॑र्विविष्मः ।
ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि
ब्रह्मा॑णि
हि
च॑कृ॒षे
वर्ध॑नानि
ब्रह्मा॑णि
हि
च॑कृ॒षे
वर्ध॑नानि
Halfverse: b
ताव॑त्त इन्द्र म॒तिभि॑र्विविष्मः ।
ताव॑त्
ते
इन्द्र
म॒तिभिः
विविष्मः
।
ताव॑त्
त
इन्द्र
म॒तिभि॑र्
विविष्मः
।
Halfverse: c
सु॒ते सोमे॑ सुतपाः॒ शंत॑मानि॒ राण्ड्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ।।
सु॒ते सोमे॑ सुतपाः॒ शंत॑मानि
सु॒ते
सोमे
सुतपाः
शंत॑मानि
सु॒ते
सोमे
सुतपाः
शंत॑मानि
Halfverse: d
राण्ड्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ।।
राण्ड्या
क्रियास्म
वक्ष॑णानि
य॒ज्ञैः
।।
राण्ड्या
क्रियास्म
वक्ष॑णानि
य॒ज्ञैः
।।
Verse: 7
Halfverse: a
स नो॑ बोधि पुरो॒ळाशं॒ ररा॑णः॒ पिबा॒ तु सोमं गोऋजीकमिन्द्र ।
स नो॑ बोधि पुरो॒ळाशं॒ ररा॑णः
स
नः
बोधि
पुरो॒ळाश॑म्
ररा॑णः
स
नो
बोधि
पुरो॒ळाशं
ररा॑णः
Halfverse: b
पिबा॒ तु सोमं गोऋजीकमिन्द्र ।
पिब+
तु
सोम॑म्
गोऋजीकम्
इन्द्र
।
पिबा
तु
सोमं
गोऋजीकम्
इन्द्र
।
Halfverse: c
एदम्ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑लो॒कम् ।।
एदम्ब॒र्हिर्यज॑मानस्य सीद
आ
इ॒दम्
ब॒र्हिः
यज॑मानस्य
सीद
एदम्
ब॒र्हिर्
यज॑मानस्य
सीद
Halfverse: d
उ॒रुं कृ॑धि त्वाय॒त उ॑लो॒कम् ।!। ।।
उ॒रुम्
कृधि
त्वाय॒तः
उ॑लो॒कम्
! ।।
उ॒रुं
कृ॑धि
तुवाय॒त
उ॑लो॒कम्
।।
Verse: 8
Halfverse: a
स म॑न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु ।
स म॑न्दस्वा॒ ह्यनु॒ जोष॑मुग्र
स
म॑न्दस्व+
हि
अनु
जोष॑म्
उग्र
स
म॑न्दस्वा
हि
अनु
जोष॑म्
उग्र
Halfverse: b
प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु ।
प्र
त्वा
य॒ज्ञासः
इ॒मे
अ॑श्नुवन्तु
।
प्र
त्वा
य॒ज्ञास
इ॒मे
अ॑श्नुवन्तु
।
Halfverse: c
प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ।।
प्रेमे हवा॑सः पुरुहू॒तम॒स्मे
प्र
इ॒मे
हवा॑सः
पुरुहू॒तम्
अ॒स्मे
प्रेमे
हवा॑सः
पुरुहू॒तम्
अ॒स्मे
Halfverse: d
आ त्वे॒यं धीरव॑स इन्द्र यम्याः ।।
आ
त्वा
इ॒यम्
धीः
अव॑से
इन्द्र
यम्याः
।।
आ
त्वे॒यं
धीर्
अव॑स
इन्द्र
यम्याः
।।
Verse: 9
Halfverse: a
तं वः॑ सखायः॒ सं यथा॑ सु॒तेषु॒ सोमे॑भिरीम्पृणता भो॒जमिन्द्र॑म् ।
तं वः॑ सखायः॒ सं यथा॑ सु॒तेषु
तम्
वः
सखायः
सम्
यथा
सु॒तेषु
तं
वः
सखायः
सं
यथा
सु॒तेषु
Halfverse: b
सोमे॑भिरीम्पृणता भो॒जमिन्द्र॑म् ।
सोमे॑भिः
ईम्
पृणत+
भो॒जम्
इन्द्र॑म्
।
सोमे॑भिर्
ईम्
पृणता
भो॒जम्
इन्द्र॑म्
।
Halfverse: c
कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रो ऽव॑से मृधाति ।।
कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य
कु॒वित्
तस्मै
अस॑ति
नः
भरा॑य
कु॒वित्
तस्मा
अस॑ति
नो
भरा॑य
Halfverse: d
न सुष्वि॒मिन्द्रो ऽव॑से मृधाति ।।
न
सुष्वि॑म्
इन्द्रः
अव॑से
मृधाति
।।
न
सुष्वि॑म्
इन्द्रो
अव॑से
मृधाति
।।
Verse: 10
Halfverse: a
ए॒वेदिन्द्रः॑ सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑ ।
ए॒वेदिन्द्रः॑ सु॒ते अ॑स्तावि॒ सोमे
ए॒व
इत्
इन्द्रः
सु॒ते
अ॑स्तावि
सोमे
ए॒वेद्
इन्द्रः
सु॒ते
अ॑स्तावि
सोमे
Halfverse: b
भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑ ।
भ॒रद्वा॑जेषु
क्षय॑त्
इत्
म॒घोनः
।
भ॒रद्वा॑जेषु
क्षय॑द्
इन्
म॒घोनः
।
Halfverse: c
अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ।।
अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिर्
अस॑त्
यथा
जरि॒त्रे
उ॒त
सू॒रिः
अस॑द्
यथा
जरि॒त्र
उ॒त
सू॒रिर्
Halfverse: d
इन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ।।
इन्द्रः
रा॒यः
वि॒श्ववा॑रस्य
दा॒ता
।।
इन्द्रो
रा॒यो
वि॒श्ववा॑रस्य
दा॒ता
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.