TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 467
Hymn: 26_(467)
Verse: 1
Halfverse: a
श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः ।
श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा
श्रु॒धि+
नः
इन्द्र
ह्वया॑मसि
त्वा
श्रु॒धी
न
इन्द्र
ह्वया॑मसि
त्वा
Halfverse: b
म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः ।
म॒हः
वाज॑स्य
सा॒तौ
वा॑वृषा॒णाः
।
म॒हो
वाज॑स्य
सा॒तौ
वा॑वृषा॒णाः
।
Halfverse: c
सं यद्विशो ऽय॑न्त॒ शूर॑साता उ॒ग्रं नो ऽवः॒ पार्ये॒ अह॑न्दाः ।।
सं यद्विशो ऽय॑न्त॒ शूर॑साता
सम्
यत्
विशः
अय॑न्त
शूर॑सातौ
सं
यद्
विशो
अय॑न्त
शूर॑साता
Halfverse: d
उ॒ग्रं नो ऽवः॒ पार्ये॒ अह॑न्दाः ।।
उ॒ग्रम्
नः
अवः
पार्ये
अह॑न्
दाः
।।
उ॒ग्रं
नो
अवः
पारि॑ये
अह॑न्
दाः
।।
Verse: 2
Halfverse: a
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ ।
त्वां वा॒जी ह॑वते वाजिने॒यो
त्वाम्
वा॒जी
ह॑वते
वाजिने॒यः
तु॒वां
वा॒जी
ह॑वते
वाजिने॒यो
Halfverse: b
म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ ।
म॒हः
वाज॑स्य
गध्य॑स्य
सा॒तौ
।
म॒हो
वाज॑स्य
गधि॑यस्य
सा॒तौ
।
Halfverse: c
त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ।।
त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं
त्वाम्
वृ॒त्रेषु
इन्द्र
सत्प॑तिम्
तरु॑त्रम्
त्वां
वृ॒त्रेष्व्
इन्द्र
सत्प॑तिं
तरु॑त्रं
Halfverse: d
त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ।।
त्वाम्
चष्टे
मुष्टि॒हा
गोषु
युध्य॑न्
।।
तु॒वां
च॑ष्टे
मुष्टि॒हा
गोषु
युध्य॑न्
।।
Verse: 3
Halfverse: a
त्वं क॒विं चो॑दयो॒ ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् ।
त्वं क॒विं चो॑दयो॒ ऽर्कसा॑तौ
त्वम्
क॒विम्
चोदयः
अ॒र्कसा॑तौ
तु॒वं
क॒विं
चो॑दयो
अ॒र्कसा॑तौ
Halfverse: b
त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् ।
त्वम्
कुत्सा॑य
शुष्ण॑म्
दा॒शुषे
वर्क्
।
तु॒वं
कुत्सा॑य
शुष्णं
दा॒शुषे
वर्क्
।
Halfverse: c
त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ।।
त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्न्
त्वम्
शिरः
अम॒र्मणः
परा
अहन्
तु॒वं
शिरो
अम॒र्मणः
परा॑हन्न्
Halfverse: d
अतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ।।
अ॑तिथि॒ग्वाय
शंस्य॑म्
करि॒ष्यन्
।।
अ॑तिथि॒ग्वाय
शंसि॑यं
करि॒ष्यन्
।।
Verse: 4
Halfverse: a
त्वं रथ॒म्प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् ।
त्वं रथ॒म्प्र भ॑रो यो॒धमृ॒ष्वम्
त्वम्
रथ॑म्
प्र
भ॑रः
यो॒धम्
ऋ॒ष्वम्
तु॒वं
रथ॑म्
प्र
भ॑रो
यो॒धम्
ऋ॒ष्वम्
Halfverse: b
आवो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् ।
आवः
युध्य॑न्तम्
वृष॒भम्
दश॑द्युम्
।
आवो
युध्य॑न्तं
वृष॒भं
दश॑द्युम्
।
Halfverse: c
त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ।।
त्वं तुग्रं॑ वेत॒सवे॒ सचा॑हन्
त्वम्
तुग्र॑म्
वेत॒सवे
सचा
अहन्
तु॒वं
तुग्रं
वेत॒सवे
सचा॑हन्
Halfverse: d
त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ।।
त्वम्
तुजि॑म्
गृ॒णन्त॑म्
इन्द्र
तूतोः
।।
तु॒वं
तुजिं
गृ॒णन्त॑म्
इन्द्र
तूतोः
।।
Verse: 5
Halfverse: a
त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ कः॒ प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ ।
त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ कः
त्वम्
तत्
उ॒क्थम्
इन्द्र
ब॒र्हणा
कर्
तु॒वं
तद्
उ॒क्थम्
इन्द्र
ब॒र्हणा
कः
Halfverse: b
प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ ।
प्र
यत्
श॒ता
स॒हस्रा
शूर
दर्षि
।
प्र
यच्
छ॒ता
स॒हस्रा
शूर
दर्षि
।
Halfverse: c
अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ।।
अव॑ गि॒रेर्दासं॒ शम्ब॑रं हन्
अव
गि॒रेः
दास॑म्
शम्ब॑रम्
हन्
अव
गि॒रेर्
दाअसं
शम्ब॑रं
हन्
Halfverse: d
प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ।।
प्र
आ॑वः
दिवो॑दासम्
चि॒त्राभिः
ऊ॒ती
।।
प्रावो
दिवो॑दासं
चि॒त्राभि॑र्
ऊ॒ती
।।
Verse: 6
Halfverse: a
त्वं श्र॒द्धाभि॑र्मन्दसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् ।
त्वं श्र॒द्धाभि॑र्मन्दसा॒नः सोमै॑र्
त्वम्
श्र॒द्धाभिः
मन्दसा॒नः
सोमैः
तु॒वं
श्र॒द्धाभि॑र्
मन्दसा॒नः
सोमै॑र्
Halfverse: b
द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् ।
द॒भीत॑ये
चुमु॑रिम्
इन्द्र
सिष्वप्
।
द॒भीत॑ये
चुमु॑रिम्
इन्द्र
सिष्वप्
।
Halfverse: c
त्वं र॒जिम्पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ।।
त्वं र॒जिम्पिठी॑नसे दश॒स्यन्
त्वम्
र॒जिम्
पिठी॑नसे
दश॒स्यन्
तु॒वं
र॒जिम्
पिठी॑नसे
दश॒स्यन्
Halfverse: d
ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ।।
ष॒ष्टिम्
स॒हस्रा
शच्या
सचा
अहन्
।।
ष॒ष्टिं
स॒हस्रा
शचि॑या
सचा॑हन्
।।
Verse: 7
Halfverse: a
अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ ।
अ॒हं च॒न तत्सू॒रिभि॑रानश्यां
अ॒हम्
च॒न
तत्
सू॒रिभिः
आनश्याम्
अ॒हं
च॒न
तत्
सू॒रिभि॑र्
आनश्यां
Halfverse: b
तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ ।
तव
ज्यायः
इन्द्र
सु॒म्नम्
ओजः
।
तव
ज्याय
इन्दर
सु॒म्नम्
ओजः
।
Halfverse: c
त्वया॒ यत्स्तव॑न्ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ।।
त्वया॒ यत्स्तव॑न्ते सधवीर वी॒रास्
त्वया
यत्
स्तव॑न्ते
सधवीर
वी॒राः
त्वया
यत्
स्तव॑न्ते
सधवीर
वी॒रास्
Halfverse: d
त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ।।
त्रि॒वरू॑थेन
नहु॑षा
शविष्ठ
।।
त्रि॒वरू॑थेन
नहु॑षा
शविष्ठ
।।
Verse: 8
Halfverse: a
व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑ ।
व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ
व॒यम्
ते
अ॒स्याम्
इन्द्र
द्यु॒म्नहू॑तौ
व॒यं
ते
अ॒स्याम्
इन्द्र
द्यु॒म्नहू॑तौ
Halfverse: b
सखा॑यः स्याम महिन॒ प्रेष्ठाः॑ ।
सखा॑यः
स्याम
महिन
प्रेष्ठाः
।
सखा॑यः
स्याम
महिन
प्रयि॑ष्ठाः
।
Halfverse: c
प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ।।
प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो
प्रात॑र्दनिः
क्षत्र॒श्रीः
अ॑स्तु
श्रेष्ठः
प्रात॑र्दनिः
क्षत्र॒श्रीर्
अस्तु
श्रेष्ठो
Halfverse: d
घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ।।
घ॒ने
वृ॒त्राणा॑म्
स॒नये
धना॑नाम्
।।
घ॒ने
वृ॒त्राणां
स॒नये
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.