TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 469
Hymn: 28_(469)
Verse: 1
Halfverse: a
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे ।
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन्
आ
गावः
अग्मन्
उ॒त
भ॒द्रम्
अक्रन्
आ
गावो
अग्मन्न्
उ॒त
भ॒द्रम्
अक्रन्
Halfverse: b
सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे ।
सीद॑न्तु
गो॒ष्ठे
र॒णय॑न्तु
अ॒स्मे
।
सीद॑न्तु
गो॒ष्ठे
र॒णय॑न्तु
अ॒स्मे
।
Halfverse: c
प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ।।
प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॑र्
प्र॒जाव॑तीः
पुरु॒रूपाः
इ॒ह
स्युः
प्र॒जाव॑तीः
पुरु॒रूपा
इ॒ह
स्यु॑र्
Halfverse: d
इन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ।।
इन्द्रा॑य
पू॒र्वीः
उ॒षसः
दुहा॑नाः
।।
इन्द्रा॑य
पू॒र्वीर्
उ॒षसो
दुहा॑नाः
।।
Verse: 2
Halfverse: a
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वम्मु॑षायति ।
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्षत्य्
इन्द्रः
यज्व॑ने
पृण॒ते
च
शिक्षति
इन्द्रो
यज्व॑ने
पृण॒ते
च
शिक्षति
Halfverse: b
उपेद्द॑दाति॒ न स्वम्मु॑षायति ।
उप
इत्
ददाति
न
स्वम्
मुषायति
।
उपेद्
ददाति
न
सु॒वम्
मुषायति
।
Halfverse: c
भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ।।
भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॑न्न्
भूयो॑भूयः
र॒यिम्
इत्
अस्य
व॒र्धय॑न्
भूयो॑भूयो
र॒यिम्
इद्
अस्य
व॒र्धय॑न्न्
Halfverse: d
अभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ।।
अभि॑न्ने
खि॒ल्ये
नि
द॑धाति
देव॒युम्
।।
अभि॑न्ने
खि॒ल्ये
नि
द॑धाति
देव॒युम्
।।
Verse: 3
Halfverse: a
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो
न
ताः
न॑शन्ति
न
द॑भाति
तस्क॑रः
न
ता
न॑शन्ति
न
द॑भाति
तस्क॑रो
Halfverse: b
नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।
न
आ॑साम्
आमि॒त्रः
व्यथिः
आ
द॑धर्षति
।
नासा॑म्
आमि॒त्रो
व्यथि॑र्
आ
द॑धर्षति
।
Halfverse: c
दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ।।
दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च
दे॒वान्
च
याभिः
यज॑ते
ददा॑ति
च
दे॒वांश्
च
याभि॑र्
यज॑ते
ददा॑ति
च
Halfverse: d
ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ।।
ज्योक्
इत्
ताभिः
सचते
गोप॑तिः
स॒ह
।।
ज्योग्
इत्
ताभिः
सचते
गोप॑तिः
स॒ह
।।
Verse: 4
Halfverse: a
न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि ।
न ता अर्वा॑ रे॒णुक॑काटो अश्नुते
न
ताः
अर्वा
रे॒णुक॑काटः
अश्नुते
न
ता
अर्वा
रे॒णुक॑काटो
अश्नुते
Halfverse: b
न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि ।
न
सं॑स्कृत॒त्रम्
उप
यन्ति
ताः
अ॒भि
।
न
सं॑स्कृत॒त्रम्
उप
यन्ति
ता
अ॒भि
।
Halfverse: c
उ॑रुगा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ।।
उ॑रुगा॒यमभ॑यं॒ तस्य॒ ता अनु
उरुगा॒यम्
अभ॑यम्
तस्य
ताः
अनु
उरुगा॒यम्
अभ॑यं
तस्य
ता
अनु
Halfverse: d
गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ।।
गावः
मर्त॑स्य
वि
च॑रन्ति
यज्व॑नः
।।
गावो
मर्त॑स्य
वि
च॑रन्ति
यज्व॑नः
।।
Verse: 5
Halfverse: a
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अछा॒न्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अछान्
गावः
भगः
गावः
इन्द्रः
मे
अछान्
गावो
भगो
गाव
इन्द्रो
मे
अछान्
Halfverse: b
गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।
गावः
सोम॑स्य
प्रथ॒मस्य
भ॒क्षः
।
गावः
सोम॑स्य
प्रथ॒मस्य
भ॒क्षः
।
Halfverse: c
इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ।।
इ॒मा या गावः॒ स ज॑नास॒ इन्द्र
इ॒माः
याः
गावः
स
ज॑नासः
इन्द्र
इ॒मा
या
गावः
स
ज॑नास
इन्द्र
Halfverse: d
इ॒छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ।।
इ॒छामि
इत्
हृ॒दा
मन॑सा
चित्
इन्द्र॑म्
।।
इ॒छामीद्
धृ॒दा
मन॑सा
चिद्
इन्द्र॑म्
।।
Verse: 6
Halfverse: a
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् ।
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑द्
यू॒यम्
गावः
मेदयथ+
कृ॒शम्
चित्
यू॒यं
गा॑वो
मेदयथा
कृ॒शं
चि॑द्
Halfverse: b
अश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् ।
अ॑श्री॒रम्
चित्
कृणुथ+
सु॒प्रती॑कम्
।
अ॑श्री॒रं
चि॑त्
कृणुथा
सु॒प्रती॑कम्
।
Halfverse: c
भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ।।
भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो
भ॒द्रम्
गृ॒हम्
कृणुथ
भद्रवाचः
भ॒द्रं
गृ॒हं
कृ॑णुथ
भद्रवाचो
Halfverse: d
बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ।।
बृ॒हत्
वः
वयः
उच्यते
स॒भासु
।।
बृ॒हद्
वो
वय
उच्यते
स॒भासु
।।
Verse: 7
Halfverse: a
प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः ।
प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः
प्र॒जाव॑तीः
सू॒यव॑सम्
रि॒शन्तीः
प्र॒जाव॑तीः
सू॒यव॑सं
रि॒शन्तीः
Halfverse: b
शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः ।
शु॒द्धाः
अ॒पः
सु॑प्रपा॒णे
पिब॑न्तीः
।
शु॒द्धा
अ॒पः
सु॑प्रपा॒णे
पिब॑न्तीः
।
Halfverse: c
मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ।।
मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः
मा
वः
स्ते॒नः
ई॑शत
मा
अ॒घशं॑सः
मा
व
स्ते॒न
ई॑शत
माघशं॑सः
Halfverse: d
परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ।।
परि
वः
हे॒तिः
रु॒द्रस्य
वृज्याः
।।
परि
वो
हे॒ती
रु॑द॒रस्य
वृज्याः
।।
Verse: 8
Halfverse: a
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् ।
उपे॒दमु॑प॒पर्च॑नम्
उप
इ॒दम्
उप॒पर्च॑नम्
उपे॒दम्
उप॒पर्च॑नम्
Halfverse: b
आ॒सु गोषूप॑ पृच्यताम् ।
आ॒सु
गोषु
उप
पृच्यताम्
।
आ॒सु
गोषूप
पृच्यताम्
।
Halfverse: c
उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ।।
उप॑ ऋष॒भस्य॒ रेत॑स्य्
उप
ऋष॒भस्य
रेत॑सि
उप
र्ष॒भस्य
रेत॑सि
Halfverse: d
उपे॑न्द्र॒ तव॑ वी॒र्ये॑ ।।
उप
इन्द्र
तव
वी॒र्ये
।।
उपे॑न्द्र
तव
वी॒रिये
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.