TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 470
Hymn: 29_(470)
Verse: 1
Halfverse: a
इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः ।
इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्
इन्द्र॑म्
वः
नरः
स॒ख्याय
सेपुः
इन्द्रं
वो
नरः
सखि॒याय
सेपुर्
Halfverse: b
म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः ।
म॒हः
यन्तः
सुम॒तये
चका॒नाः
।
म॒हो
यन्तः
सुम॒तये
चका॒नाः
।
Halfverse: c
म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ।।
म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति
म॒हः
हि
दा॒ता
वज्र॑हस्तः
अस्ति
म॒हो
हि
दा॒ता
वज्र॑हस्तो
अस्ति
Halfverse: d
म॒हामु॑ र॒ण्वमव॑से यजध्वम् ।।
म॒हाम्
उ
र॒ण्वम्
अव॑से
यजध्वम्
।।
म॒हाम्
उ
र॒ण्वम्
अव॑से
यजध्वम्
।।
Verse: 2
Halfverse: a
आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।
आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुर्
आ
यस्मि॑न्
हस्ते
नर्या
!
मिमि॒क्षुः
आ
यस्मि॑न्
हस्ते
नरि॑या
मिमि॒क्षुर्
Halfverse: b
आ रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।
आ
रथे
हिर॒ण्यये
रथे॒ष्ठाः
।
आ
रथे
?
हिर॒ण्यये
रथे॒ष्ठाः
।
Halfverse: c
आ र॒श्मयो॒ गभ॑स्त्यो स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ।।
आ र॒श्मयो॒ गभ॑स्त्यो स्थू॒रयो॑र्
आ
र॒श्मयः
गभ॑स्त्योः
स्थू॒रयोः
आ
र॒श्मयो
गभ॑स्तियो
स्थू॒रयो॑र्
Halfverse: d
आध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ।।
आ
अध्व॑न्
अश्वा॑सः
वृष॑णः
युजा॒नाः
।।
आध्व॑न्न्
अश्वा॑सो
वृष॑णो
युजा॒नाः
।।
Verse: 3
Halfverse: a
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।
श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्
श्रि॒ये
ते
पादा
दुवः
आ
मि॑मिक्षुः
श्रि॒ये
ते
पादा
दुव
आ
मि॑मिक्षुर्
Halfverse: b
धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।
धृ॒ष्णुः
व॒ज्री
शव॑सा
दक्षि॑णावान्
।
धृ॒ष्णुर्
व॒ज्री
शव॑सा
दक्षि॑णावान्
।
Halfverse: c
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व॒र्ण नृ॑तविषि॒रो ब॑भूथ ।।
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं
वसा॑नः
अत्क॑म्
सुर॒भिम्
दृ॒शे
कम्
वसा॑नो
अत्कं
सुर॒भिं
दृ॒शे
कं
Halfverse: d
स्व॒र्ण नृ॑तविषि॒रो ब॑भूथ ।।
स्व॑र्
न
नृ॑तो
इषि॒रः
ब॑भूथ
।।
सुव॑र्
ण
नृ॑तव्
इषि॒रो
ब॑भूथ
।।
Verse: 4
Halfverse: a
स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः ।
स सोम॒ आमि॑श्लतमः सु॒तो भू॑द्
स
सोमः
आमि॑श्लतमः
सु॒तः
भू॑त्
स
सोम
आमि॑श्लतमः
सु॒तो
भू॑द्
Halfverse: b
यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः ।
यस्मि॑न्
प॒क्तिः
प॒च्यते
सन्ति
धा॒नाः
।
यस्मि॑न्
प॒क्तिः
प॒च्यते
सन्ति
धा॒नाः
।
Halfverse: c
इन्द्रं॒ नर॑ स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ।।
इन्द्रं॒ नर॑ स्तु॒वन्तो॑ ब्रह्मका॒रा
इन्द्र॑म्
नरः
स्तु॒वन्तः
ब्रह्मका॒राः
इन्द्रं
नर
स्तु॒वन्तो
ब्रह्मका॒रा
Halfverse: d
उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ।।
उ॒क्था
शंस॑न्तः
दे॒ववा॑ततमाः
।।
उ॒क्था
शंस॑न्तो
दे॒ववा॑ततमाः
।।
Verse: 5
Halfverse: a
न ते॒ अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा ।
न ते॒ अन्तः॒ शव॑सो धाय्य॒स्य
न
ते
अन्तः
शव॑सः
धायि
अ॒स्य
न
ते
अन्तः
शव॑सो
धायि
अ॒स्य
Halfverse: b
वि तु बा॑बधे॒ रोद॑सी महि॒त्वा ।
वि
तु
बा॑बधे
रोद॑सी
महि॒त्वा
।
वि
तु
बा॑बधे
रोद॑सी
महि॒त्वा
।
Halfverse: c
आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ।।
आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो
आ
ता
सू॒रिः
पृ॑णति
तूतु॑जानः
आ
ता
सू॒रिः
पृ॑णति
तूतु॑जानो
Halfverse: d
यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ।।
यू॒था
इ॑व
अ॒प्सु
स॒मीज॑मानः
ऊ॒ती
।।
यू॒थेवा॒प्सु
स॒मीज॑मान
ऊ॒ती
।।
Verse: 6
Halfverse: a
ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।
ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तु
ए॒व
इत्
इन्द्रः
सु॒हवः
ऋ॒ष्वः
अ॑स्तु
ए॒वेद्
इन्द्रः
सु॒हव
ऋ॒ष्वो
अ॑स्तु
Halfverse: b
ऊ॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।
ऊ॒ती
अनू॑ती
हिरिशि॒प्रः
सत्वा
।
ऊ॒ती
अनू॑ती
हिरिशि॒प्रः
सत्वा
।
Halfverse: c
ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ।।
ए॒वा हि जा॒तो अस॑मात्योजाः
ए॒व+
हि
जा॒तः
अस॑मात्योजाः
ए॒वा
हि
जा॒तो
अस॑मातिओजाः
Halfverse: d
पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ।।
पु॒रु+
च
वृ॒त्रा
ह॑नति
नि
दस्यू॑न्
।।
पु॒रू
च
वृ॒त्रा
ह॑नति
नि
दस्यू॑न्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.