TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 480
Hymn: 39_(480)
Verse: 1
Halfverse: a
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ ।
म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॑र्
म॒न्द्रस्य
क॒वेः
दि॒व्यस्य
वह्नेः
म॒न्द्रस्य
क॒वेर्
दिवि॒यस्य
वह्ने॑र्
Halfverse: b
विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ ।
विप्र॑मन्मनः
वच॒नस्य
मध्वः
।
विप्र॑मन्मनो
वच॒नस्य
मध्वः
।
Halfverse: c
अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ।।
अपा॑ न॒स्तस्य॑ सच॒नस्य॑ देव
अपाः
नः
तस्य
सच॒नस्य
देव
अपा
नस्
तस्य
सच॒नस्य
देव
Halfverse: d
इषो॑ युवस्व गृण॒ते गोअ॑ग्राः ।।
इषः
युवस्व
गृण॒ते
गोअ॑ग्राः
।।
इषो
युवस्व
गृण॒ते
गोअ॑ग्राः
।।
Verse: 2
Halfverse: a
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिरृत॒युग्यु॑जा॒नः ।
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा
अ॒यम्
उशा॒नः
परि
अद्रि॑म्
उ॒स्राः
अ॒यम्
उशा॒नः
परि
अद्रि॑म्
उ॒स्रा
Halfverse: b
ऋ॒तधी॑तिभिरृत॒युग्यु॑जा॒नः ।
ऋ॒तधी॑तिभिः
ऋत॒युक्
युजा॒नः
।
ऋ॒तधी॑तिभिर्
ऋत॒युग्
युजा॒नः
।
Halfverse: c
रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानु॑म्प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्रः॑ ।।
रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानु॑म्
रु॒जत्
अरु॑ग्णम्
वि
व॒लस्य
सानु॑म्
रु॒जद्
अरु॑ग्णं
वि
व॒लस्य
सानु॑म्
Halfverse: d
प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्रः॑ ।।
प॒णीन्
वचो॑भिः
अ॒भि
यो॑धत्
इन्द्रः
।।
प॒णीँर्
वचो॑भिर्
अ॒भि
यो॑धद्
इन्द्रः
।।
Verse: 3
Halfverse: a
अ॒यं द्यो॑तयद॒द्युतो॒ व्य॒क्तून्दो॒षा वस्तोः॑ श॒रद॒ इन्दु॑रिन्द्र ।
अ॒यं द्यो॑तयद॒द्युतो॒ व्य॒क्तून्
अ॒यम्
द्योतयत्
अ॒द्युतः
वि
अ॒क्तून्
अ॒यं
द्यो॑तयद्
अ॒द्युतो
वि
अ॒क्तून्
Halfverse: b
दो॒षा वस्तोः॑ श॒रद॒ इन्दु॑रिन्द्र ।
दो॒षा
वस्तोः
श॒रदः
इन्दुः
इन्द्र
।
दो॒षा
वस्तोः
श॒रद
इन्दु॑र्
इन्द्र
।
Halfverse: c
इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ।।
इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां
इ॒मम्
के॒तुम्
अदधुः
नु+
चि॑त्
अह्ना॑म्
इ॒मं
के॒तुम्
अदधुर्
नू
चि॑द्
अह्नां
Halfverse: d
शुचि॑जन्मन उ॒षस॑श्चकार ।।
शुचि॑जन्मनः
उ॒षसः
चकार
।।
शुचि॑जन्मन
उ॒षस॑श्
चकार
।।
Verse: 4
Halfverse: a
अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒ ऽयं वा॑सय॒द्व्यृ॒तेन॑ पू॒र्वीः ।
अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो
अ॒यम्
रोचयत्
अ॒रुचः
रुचा॒नः
अ॒यं
रो॑चयद्
अ॒रुचो
रुचा॒नो
Halfverse: b
ऽयं वा॑सय॒द्व्यृ॒तेन॑ पू॒र्वीः ।
अ॒यम्
वासयत्
वि
ऋ॒तेन
पू॒र्वीः
।
अ॒यं
वा॑सयद्
वि
ऋ॒तेन
पू॒र्वीः
।
Halfverse: c
अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः॑ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ।।
अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः
अ॒यम्
ईयते
ऋत॒युग्भिः
अश्वैः
अ॒यम्
ईयत
ऋत॒युग्भि॑र्
अश्वैः
Halfverse: d
स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ।।
स्व॒र्विदा
नाभि॑ना
चर्षणि॒प्राः
।।
सु॑व॒र्विदा
नाभि॑ना
चर्षणि॒प्राः
।।
Verse: 5
Halfverse: a
नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया॑य पू॒र्वीः ।
नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राजन्न्
नु+
गृ॑णा॒नः
गृ॑ण॒ते
प्र॑त्न
राजन्
नू
गृ॑णा॒नो
गृ॑ण॒ते
प्र॑त्न
राजन्न्
Halfverse: b
इषः॑ पिन्व वसु॒देया॑य पू॒र्वीः ।
इषः
पिन्व
वसु॒देया॑य
पू॒र्वीः
।
इषः
पिन्व
वसु॒देया॑य
पू॒र्वीः
।
Halfverse: c
अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ।।
अ॒प ओष॑धीरवि॒षा वना॑नि
अ॒पः
ओष॑धीः
अवि॒षा
वना॑नि
अ॒प
ओष॑धीर्
अवि॒षा
वना॑नि
Halfverse: d
गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ।।
गाः
अर्व॑तः
नॄन्
ऋ॒चसे
रिरीहि
।।
गा
अर्व॑तो
नॄन्
ऋ॒चसे
रिरीहि
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.