TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 490
Hymn: 49_(490)
Verse: 1
Halfverse: a
स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता॑ ।
स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्
स्तु॒षे
जन॑म्
सुव्र॒तम्
नव्य॑सीभिः
स्तु॒षे
जनं
सुव्र॒तं
नव्य॑सीभिर्
Halfverse: b
गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता॑ ।
गी॒र्भिः
मि॒त्रावरु॑णा
सुम्न॒यन्ता
।
गी॒र्भिर्
मि॒त्रावरु॑णा
सुम्न॒यन्ता
।
Halfverse: c
त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु
ते
आ
ग॑मन्तु
ते
इ॒ह
श्रु॑वन्तु
त
आ
ग॑मन्तु
त
इ॒ह
श्रु॑वन्तु
Halfverse: d
सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।।
सु॑क्ष॒त्रासः
वरु॑णः
मि॒त्रः
अ॒ग्निः
।।
सु॑क्ष॒त्रासो
वरु॑णो
मि॒त्रो
अ॒ग्निः
।।
Verse: 2
Halfverse: a
वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः ।
वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्व्
वि॒शोवि॑शः
ईड्य॑म्
अध्व॒रेषु
वि॒शोवि॑श
ईडि॑यम्
अध्व॒रेषु
Halfverse: b
अदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः ।
अदृ॑प्तक्रतुम्
अर॒तिम्
युव॒त्योः
।
अदृ॑प्तक्रतुम्
अर॒तिं
यु॑व॒त्योः
।
Halfverse: c
दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ।।
दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं
दि॒वः
शिशु॑म्
सह॑सः
सू॒नुम्
अ॒ग्निम्
दि॒वः
शिशुं
सह॑सः
सू॒नुम्
अ॒ग्निं
Halfverse: d
य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ।।
य॒ज्ञस्य
के॒तुम्
अरु॒षम्
यज॑ध्यै
।।
य॒ज्ञस्य
के॒तुम्
अरु॒षं
यज॑ध्यै
।।
Verse: 3
Halfverse: a
अ॑रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या ।
अ॑रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे
अरु॒षस्य
दुहि॒तरा
विरू॑पे
अरु॒षस्य
दुहि॒तरा
विरू॑पे
Halfverse: b
स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या ।
स्तृभिः
अ॒न्या
पि॑पि॒शे
सूरः
अ॒न्या
।
स्तृभि॑र्
अ॒न्या
पि॑पि॒शे
सूरो
अ॒न्या
।
Halfverse: c
मि॑थ॒स्तुरा॑ वि॒चर॑न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ।।
मि॑थ॒स्तुरा॑ वि॒चर॑न्ती पाव॒के
मि॑थ॒स्तुरा
वि॒चर॑न्ती
पाव॒के
मि॑थ॒स्तुरा
वि॒चर॑न्ती
पवा॒के
Halfverse: d
मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ।।
मन्म
श्रु॒तम्
नक्षतः
ऋ॒च्यमा॑ने
।।
मन्म
श्रु॒तं
न॑क्षत
ऋ॒च्यमा॑ने
।।
Verse: 4
Halfverse: a
प्र वा॒युमछा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्राम् ।
प्र वा॒युमछा॑ बृह॒ती म॑नी॒षा
प्र
वा॒युम्
अछ+
बृह॒ती
म॑नी॒षा
प्र
वा॒युम्
अछा
बृह॒ती
म॑नी॒षा
Halfverse: b
बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्राम् ।
बृ॒हद्र॑यिम्
वि॒श्ववा॑रम्
रथ॒प्राम्
।
बृ॒हद्र॑यिं
वि॒श्ववा॑रं
रथ॒प्राम्
।
Halfverse: c
द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ।।
द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः
द्यु॒तद्या॑मा
नि॒युतः
पत्य॑मानः
द्यु॒तद्या॑मा
नि॒युतः
पत्य॑मानः
Halfverse: d
क॒विः क॒विमि॑यक्षसि प्रयज्यो ।।
क॒विः
क॒विम्
इयक्षसि
प्रयज्यो
।।
क॒विः
क॒विम्
इयक्षसि
प्रयज्यो
।।
Verse: 5
Halfverse: a
स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः ।
स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो
स
मे
वपुः
छदयत्
अ॒श्विनोः
यः
स
मे
वपु॑श्
छदयद्
अ॒श्विनो॑र्
यो
Halfverse: b
रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः ।
रथः
वि॒रुक्मा॑न्
मन॑सा
युजा॒नः
।
रथो
वि॒रुक्मा॑न्
मन॑सा
युजा॒नः
।
Halfverse: c
येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ।।
येन॑ नरा नासत्येष॒यध्यै
येन
नरा
नासत्या
इष॒यध्यै
येन
नरा
नासतियेष॒यध्यै
Halfverse: d
व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ।।
व॒र्तिः
या॒थः
तन॑याय
त्मने
च
।।
व॒र्तिर्
या॒थस्
तन॑याय
त्मने
च
।।
Verse: 6
Halfverse: a
पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि ।
पर्ज॑न्यवाता वृषभा पृथि॒व्याः
पर्ज॑न्यवाता
वृषभा
पृथि॒व्याः
पर्ज॑न्यवाता
वृषभा
पृथि॒व्याः
Halfverse: b
पुरी॑षाणि जिन्वत॒मप्या॑नि ।
पुरी॑षाणि
जिन्वतम्
अप्या॑नि
।
पुरी॑षाणि
जिन्वतम्
अपि॑यानि
।
Halfverse: c
सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑त स्थात॒र्जग॒दा कृ॑णुध्वम् ।।
सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्
सत्य॑श्रुतः
कवयः
यस्य
गी॒र्भिः
सत्य॑श्रुतः
कवयो
यस्य
गी॒र्भिर्
Halfverse: d
जग॑त स्थात॒र्जग॒दा कृ॑णुध्वम् ।।
जग॑तः
स्थातर्
जग॑त्
आ
कृ॑णुध्वम्
।।
जग॑त
स्थातर्
जग॑द्
आ
कृ॑णुध्वम्
।।
Verse: 7
Halfverse: a
पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् ।
पावी॑रवी क॒न्या॑ चि॒त्रायुः
पावी॑रवी
क॒न्या
चि॒त्रायुः
पावी॑रवी
क॒निया
चित्रआयुः
Halfverse: b
सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् ।
सर॑स्वती
वी॒रप॑त्नी
धिय॑म्
धात्
।
सर॑स्वती
वी॒रप॑त्नी
धियं
धात्
।
Halfverse: c
ग्नाभि॒रछि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ।।
ग्नाभि॒रछि॑द्रं शर॒णं स॒जोषा
ग्नाभिः
अछि॑द्रम्
शर॒णम्
स॒जोषाः
ग्नाभि॑र्
अछि॑द्रं
शर॒णं
स॒जोषा
Halfverse: d
दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ।।
दु॑रा॒धर्ष॑म्
गृण॒ते
शर्म
यंसत्
।।
दु॑रा॒धर्षं
गृण॒ते
शर्म
यंसत्
।।
Verse: 8
Halfverse: a
प॒थस्॑पथः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् ।
प॒थस्॑पथः॒ परि॑पतिं वच॒स्या
प॒थस्॑पथः
परि॑पतिम्
वच॒स्या
प॒थस्॑पथः
परि॑पतिं
वच॒स्या
Halfverse: b
कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् ।
कामे॑न
कृ॒तः
अ॒भि
आ॑नट्
अ॒र्कम्
।
कामे॑न
कृ॒तो
अ॒भि
आ॑नळ्
अ॒र्कम्
।
Halfverse: c
स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ।।
स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा
स
नः
रासत्
शु॒रुधः
च॒न्द्राग्राः
स
नो
रासच्
छु॒रुध॑श्
च॒न्द्राअग्रा
Halfverse: d
धियं॑धियं सीषधाति॒ प्र पू॒षा ।।
धियं॑धियम्
सीषधाति
प्र
पू॒षा
।।
धियं॑धियं
सीषधाति
प्र
पू॒षा
।।
Verse: 9
Halfverse: a
प्र॑थम॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् ।
प्र॑थम॒भाजं॑ य॒शसं॑ वयो॒धां
प्र॑थम॒भाज॑म्
य॒शस॑म्
वयो॒धाम्
प्रथम॒भाजं
य॒शसं
वयो॒धां
Halfverse: b
सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् ।
सु॑पा॒णिम्
दे॒वम्
सु॒गभ॑स्तिम्
ऋभ्व॑म्
।
सु॑पा॒णिं
दे॒वं
सु॒गभ॑स्तिम्
ऋभ्व॑म्
।
Halfverse: c
होता॑ यक्षद्यज॒तम्प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ।।
होता॑ यक्षद्यज॒तम्प॒स्त्या॑नाम्
होता
यक्षत्
यज॒तम्
प॒स्त्या॑नाम्
होता
यक्षद्
यज॒तम्
प॒स्तिया॑नाम्
Halfverse: d
अ॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ।।
अ॒ग्निः
त्वष्टा॑रम्
सु॒हव॑म्
वि॒भावा
।।
अ॒ग्निस्
त्वष्टा॑रं
सु॒हवं
वि॒भावा
।।
Verse: 10
Halfverse: a
भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ ।
भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी
भुव॑नस्य
पि॒तर॑म्
गी॒र्भिः
आ॒भिः
भुव॑नस्य
पि॒तरं
गी॒र्भिर्
आ॒भी
Halfverse: b
रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ ।
रु॒द्रम्
दिवा
व॒र्धय+
रु॒द्रम्
अ॒क्तौ
।
रु॒द्रं
दिवा
व॒र्धया
रु॒द्रम्
अ॒क्तौ
।
Halfverse: c
बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तासः॑ ।।
बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नम्
बृ॒हन्त॑म्
ऋ॒ष्वम्
अ॒जर॑म्
सुषु॒म्नम्
बृ॒हन्त॑म्
ऋ॒ष्वम्
अ॒जरं
सुषु॒म्नम्
Halfverse: d
ऋध॑ग्घुवेम क॒विने॑षि॒तासः॑ ।।
ऋध॑क्
हुवेम
क॒विना
इषि॒तासः
।।
ऋध॑ग्
घुवेम
क॒विने॑षि॒तासः
।।
Verse: 11
Halfverse: a
आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् ।
आ यु॑वानः कवयो यज्ञियासो
आ
यु॑वानः
कवयः
यज्ञियासः
आ
यु॑वानः
कवयो
यज्ञियासो
Halfverse: b
मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् ।
मरु॑तः
ग॒न्त
गृ॑ण॒तः
व॑र॒स्याम्
।
मरु॑तो
ग॒न्त
गृ॑ण॒तो
व॑र॒स्याम्
।
Halfverse: c
अ॑चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष॑न्तो नरो अङ्गिर॒स्वत् ।।
अ॑चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त
अचि॒त्रम्
चित्
हि
जिन्व॑थ+
वृ॒धन्तः
अचि॒त्रं
चि॑द्
धि
जिन्व॑था
वृ॒धन्त
Halfverse: d
इ॒त्था नक्ष॑न्तो नरो अङ्गिर॒स्वत् ।।
इ॒त्था
नक्ष॑न्तः
नरः
अङ्गिर॒स्वत्
।।
इ॒त्था
नक्ष॑न्तो
नरो
अङ्गिर॒स्वत्
।।
Verse: 12
Halfverse: a
प्र वी॒राय॒ प्र त॒वसे॑ तु॒रायाजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्त॑म् ।
प्र वी॒राय॒ प्र त॒वसे॑ तु॒राय
प्र
वी॒राय
प्र
त॒वसे
तु॒राय
प्र
वी॒राय
प्र
त॒वसे
तु॒राय
Halfverse: b
अजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्त॑म् ।
अज+
यू॒था
इ॑व
पशु॒रक्षिः
अस्त॑म्
।
अजा
यू॒थेव
पशु॒रक्षि॑र्
अस्त॑म्
।
Halfverse: c
स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विपः॑ ।।
स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य
स
पि॑स्पृशति
त॒न्वि
श्रु॒तस्य
स
पि॑स्पृशति
त॒नुवि
श्रु॒तस्य
Halfverse: d
स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विपः॑ ।।
स्तृभिः
न
नाक॑म्
वच॒नस्य
विपः
।।
स्तृभि॑र्
न
नाकं
वच॒नस्य
विपः
।।
Verse: 13
Halfverse: a
यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ ।
यो रजां॑सि विम॒मे पार्थि॑वानि
यः
रजां॑सि
विम॒मे
पार्थि॑वानि
यो
रजां॑सि
विम॒मे
पार्थि॑वानि
Halfverse: b
त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ ।
त्रिः
चि॑त्
विष्णुः
मन॑वे
बाधि॒ताय
।
त्रिश्
चिद्
विष्णु॑र्
मन॑वे
बाधि॒ताय
।
Halfverse: c
तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒ तना॑ च ।।
तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने
तस्य
ते
शर्म॑न्
उपद॒द्यमा॑ने
तस्य
ते
शर्म॑न्न्
उपद॒द्यमा॑ने
Halfverse: d
रा॒या म॑देम त॒न्वा॒ तना॑ च ।।
रा॒या
म॑देम
त॒न्वा
तना
च
।।
रा॒या
म॑देम
त॒नुवा
तना
च
।।
Verse: 14
Halfverse: a
तन्नो ऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् ।
तन्नो ऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्
तत्
नः
अहिः
बु॒ध्न्यः
अ॒द्भिः
अ॒र्कैः
तन्
नो
अहि॑र्
बु॒ध्नियो
अ॒द्भिर्
अ॒र्कैस्
Halfverse: b
तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् ।
तत्
पर्व॑तः
तत्
सवि॒ता
चनः
धात्
।
तत्
पर्व॑तस्
तत्
सवि॒ता
चनो
धात्
।
Halfverse: c
तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भगः॒ पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ।।
तदोष॑धीभिर॒भि रा॑ति॒षाचो
तत्
ओष॑धीभिः
अ॒भि
रा॑ति॒षाचः
तद्
ओष॑धीभिर्
अ॒भि
रा॑ति॒षाचो
Halfverse: d
भगः॒ पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ।।
भगः
पुरं॑धिः
जिन्वतु
प्र
रा॒ये
।।
भगः
पुरं॑धिर्
जिन्वतु
प्र
रा॒ये
।।
Verse: 15
Halfverse: a
नू नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्राम्पु॑रु॒वीर॑म्म॒ह ऋ॒तस्य॑ गो॒पाम् ।
नू नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्राम् ।!।
नु+
नः
र॒यिम्
र॒थ्य॑म्
चर्षणि॒प्राम्
।!।
नू
नो
र॒यिं
र॒थियं
चर्षणि॒प्राम्
।!।
Halfverse: b
पु॑रु॒वीर॑म्म॒ह ऋ॒तस्य॑ गो॒पाम् ।
पु॑रु॒वीर॑म्
म॒हः
ऋ॒तस्य
गो॒पाम्
।
पु॑रु॒वीर॑म्
म॒ह
ऋ॒तस्य
गो॒पाम्
।
Halfverse: c
क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य॒श्नवा॑म ।।
क्षयं॑ दाता॒जरं॒ येन॒ जना॑न्
क्षय॑म्
दात
अ॒जर॑म्
येन
जना॑न्
क्षयं
दात
अ॒जरं
येन
जना॑न्
Halfverse: d
स्पृधो॒ अदे॑वीर॒भि च॒क्रमा॑म ।!।
स्पृधः
अदे॑वीः
अ॒भि
च॒क्रमा॑म
!
स्पृधो
अदे॑वीर्
अ॒भि
च॒क्रमा॑म
।!।
Halfverse: e
विश॒ आदे॑वीर॒भ्य॒श्नवा॑म ।।
विशः
आदे॑वीः
अ॒भि
अ॒श्नवा॑म
।।
विश
आदे॑वीर्
अ॒भि
अ॒श्नवा॑म
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.