TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 497
Hymn: 56_(497)
Verse: 1
Halfverse: a
य ए॑नमा॒दिदे॑शति कर॒म्भादिति॑ पू॒षण॑म् ।
य ए॑नमा॒दिदे॑शति
यः
ए॑नम्
आ॒दिदे॑शति
य
ए॑नम्
आ॒दिदे॑शति
Halfverse: b
कर॒म्भादिति॑ पू॒षण॑म् ।
क॑र॒म्भात्
इति
पू॒षण॑म्
।
क॑र॒म्भाद्
इति
पू॒षण॑म्
।
Halfverse: c
न तेन॑ दे॒व आ॒दिशे॑ ।।
न तेन॑ दे॒व आ॒दिशे॑ ।।
न
तेन
दे॒वः
आ॒दिशे
।।
न
तेन
दे॒व
आ॒दिशे
।।
Verse: 2
Halfverse: a
उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा ।
उ॒त घा॒ स र॒थीत॑मः
उ॒त
घ+
स
र॒थीत॑मः
उ॒त
घा
स
र॒थीत॑मः
Halfverse: b
सख्या॒ सत्प॑तिर्यु॒जा ।
सख्या
सत्प॑तिः
यु॒जा
।
सखि॑या
सत्प॑तिर्
यु॒जा
।
Halfverse: c
इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ।।
इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ।।
इन्द्रः
वृ॒त्राणि
जिघ्नते
।।
इन्द्रो
वृ॒त्राणि
जिघ्नते
।।
Verse: 3
Halfverse: a
उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय॑म् ।
उ॒तादः प॑रु॒षे गवि
उ॒त
अ॒दः
प॑रु॒षे
गवि
उ॒तादः
प॑रु॒षे
गवि
Halfverse: b
सूर॑श्च॒क्रं हि॑र॒ण्यय॑म् ।
सूरः
च॒क्रम्
हिर॒ण्यय॑म्
।
सूर॑श्
च॒क्रं
हि॑र॒ण्यय॑म्
।
Halfverse: c
न्ऐ॑रयद्र॒थीत॑मः ।।
न्ऐ॑रयद्र॒थीत॑मः ।।
नि
ऐ॑रयत्
र॒थीत॑मः
।।
नि
ऐ॑रयद्
र॒थीत॑मः
।।
Verse: 4
Halfverse: a
यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मन्तुमः ।
यद॒द्य त्वा॑ पुरुष्टुत
यत्
अ॒द्य
त्वा
पुरुष्टुत
यद्
अ॒द्य
त्वा
पुरुष्टुत
Halfverse: b
ब्रवा॑म दस्र मन्तुमः ।
ब्रवा॑म
दस्र
मन्तुमः
।
ब्रवा॑म
दस्र
मन्तुमः
।
Halfverse: c
तत्सु नो॒ मन्म॑ साधय ।।
तत्सु नो॒ मन्म॑ साधय ।।
तत्
सु
नः
मन्म
साधय
।।
तत्
सु
नो
मन्म
साधय
।।
Verse: 5
Halfverse: a
इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम् ।
इ॒मं च॑ नो ग॒वेष॑णं
इ॒मम्
च
नः
ग॒वेष॑णम्
इ॒मं
च
नो
ग॒वेष॑णं
Halfverse: b
सा॒तये॑ सीषधो ग॒णम् ।
सा॒तये
सीषधः
ग॒णम्
।
सा॒तये
सीषधो
ग॒णम्
।
Halfverse: c
आ॒रात्पू॑षन्नसि श्रु॒तः ।।
आ॒रात्पू॑षन्नसि श्रु॒तः ।।
आ॒रात्
पूषन्
असि
श्रु॒तः
।।
आ॒रात्
पूषन्न्
असि
श्रु॒तः
।।
Verse: 6
Halfverse: a
आ ते॑ स्व॒स्तिमी॑मह आरेअघा॒मुपा॑वसुम् ।
आ ते॑ स्व॒स्तिमी॑मह
आ
ते
स्व॒स्तिम्
ईमहे
आ
ते
सुअ॒स्तिम्
ईमह
Halfverse: b
आरेअघा॒मुपा॑वसुम् ।
आरेअघाम्
उपा॑वसुम्
।
आरेअघाम्
उपा॑वसुम्
।
Halfverse: c
अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ।।
अ॒द्या च॑ स॒र्वता॑तये
अ॒द्य+
च
स॒र्वता॑तये
अ॒द्या
च
स॒र्वता॑तये
Halfverse: d
श्वश्च॑ स॒र्वता॑तये ।।
श्वः
च
स॒र्वता॑तये
।।
शु॒वश्
च
स॒र्वता॑तये
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.